ऋग्वेदः सूक्तं ९.८७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.८६ ऋग्वेदः - मण्डल ९
सूक्तं ९.८७
उशना काव्यः
सूक्तं ९.८८ →
दे. पवमानः सोमः। त्रिष्टुप्।


प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥१॥
स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः ।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥२॥
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥३॥
एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः ।
सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥४॥
एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।
पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥५॥
परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः ।
अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥६॥
एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा ।
तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा ॥७॥
एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद ।
दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा ॥८॥
उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः ।
पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥९॥


सायणभाष्यम्

‘प्र तु द्रव' इति नवर्चं द्वितीयं सूक्तं काव्यस्योशनस आर्षमनादेशपरिभाषया त्रैष्टुभं पवमानसोमदेवताकम् । तथा चानुक्रान्तं -- प्र तु नवोशना ' इति । 'जागतमूर्ध्वं प्रागुशनसः' (अनु. ९. ६७ ) इति वचनाज्जगत्यधिकारो निवृत्तः । गतो विनियोगः ॥


प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष ।

अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जयं॒तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयंति ॥१

प्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।

अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥१

प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृऽभिः । पुनानः । अभि । वाजम् । अर्ष ।

अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥१

हे सोम “तु क्षिप्रं “प्र “द्रव प्रगच्छ । गत्वा च "कोशं द्रोणकलशं “परि “नि “षीद निषण्णो भव । “नृभिः नेतृभिः “पुनानः पूयमानः “वाजम् अन्नं यजमानार्थमुद्दिश्य “अभि “अर्ष अभिगच्छ । “वाजिनं बलवन्तम् “अश्वं “न अश्वमिव तं यथा मार्जयन्ति तद्वत् वाजिनं त्वां “मार्जयन्तः शोधयन्तः “बर्हिः यज्ञम् “अच्छ प्रति “रशनाभिः रशनावदायताभिरङ्गुलीभिः “नयन्ति अध्वर्युप्रमुखाः ॥


स्वा॒यु॒धः प॑वते दे॒व इंदु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः ।

पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥२

सु॒ऽआ॒यु॒धः । प॒व॒ते॒ । दे॒वः । इन्दुः॑ । अ॒श॒स्ति॒ऽहा । वृ॒जन॑म् । रक्ष॑माणः ।

पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । सु॒ऽदक्षः॑ । वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः ॥२

सुऽआयुधः । पवते । देवः । इन्दुः । अशस्तिऽहा । वृजनम् । रक्षमाणः ।

पिता । देवानाम् । जनिता । सुऽदक्षः । विष्टम्भः । दिवः । धरुणः । पृथिव्याः ॥२

“स्वायुधः शोभनायुधः “इन्दुः सोमः “देवः “पवते । स च देवः “अशस्तिहा रक्षोहा “वृजनम् उपद्रवं “रक्षमाणः “पिता पालकः “देवानां तथा “जनिता उत्पादकः “सुदक्षः सुबलः “दिवः “विष्टम्भः विशेषेण स्तम्भयिता “पृथिव्याः च “धरुण धारकः । एवंमहानुभावः पवते ॥


ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न ।

स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोनां॑ ॥३

ऋषिः॑ । विप्रः॑ । पु॒रः॒ऽए॒ता । जना॑नाम् । ऋ॒भुः । धीरः॑ । उ॒शना॑ । काव्ये॑न ।

सः । चि॒त् । वि॒वे॒द॒ । निऽहि॑तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य॑म् । गुह्य॑म् । नाम॑ । गोना॑म् ॥३

ऋषिः । विप्रः । पुरःऽएता । जनानाम् । ऋभुः । धीरः । उशना । काव्येन ।

सः । चित् । विवेद । निऽहितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥३

“ऋषिः अतीन्द्रियद्रष्टा “विप्रः मेधावी “पुरएता पुरतो गन्ता “जनानां मनुष्याणाम् “ऋभुः उरु भासमानः “धीरः धीमान् "उशना एतन्नामर्षिः यः “स “चित् स एव “काव्येन कवित्वेन स्तोत्रेण “विवेद लभते । किम् । “यदासां “गोनां गवाम् “अपीच्यम् । अन्तर्हितनामैतत् । अन्तर्हितं “गुह्यं गोपनीयं “नाम नामकमुदकं पयोलक्षणम् ॥


ए॒ष स्य ते॒ मधु॑माँ इंद्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।

स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥४

ए॒षः । स्यः । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोमः॑ । वृषा॑ । वृष्णे॑ । परि॑ । प॒वित्रे॑ । अ॒क्षा॒रिति॑ ।

स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । भू॒रि॒ऽदावा॑ । श॒श्व॒त्ऽत॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥४

एषः । स्यः । ते । मधुऽमान् । इन्द्र । सोमः । वृषा । वृष्णे । परि । पवित्रे । अक्षारिति ।

सहस्रऽसाः । शतऽसाः । भूरिऽदावा । शश्वत्ऽतमम् । बर्हिः । आ । वाजी । अस्थात् ॥४

हे “इन्द्र “वृष्णे वर्षकाय “ते तुभ्यम् “एष “स्यः सः “सोमः “मधुमान् माधुर्योपेतः “वृषा वर्षकः “पवित्रे “परि “अक्षाः परिक्षरति । क्षरतेर्लुङि रूपम् । स एव “सहस्रसाः सहस्रसंख्याकधनस्य दाता “शतसाः शतसंख्याकस्य दाता “भूरिदावा ततोऽपि भूरेर्दाता “वाजी बलवान् “शश्वत्तमं नित्यं “बर्हिः यज्ञम् “आ “अस्थात् अतिष्ठति ॥


ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि ।

प॒वित्रे॑भिः॒ पव॑माना असृग्रंछ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्याः॑ ॥५

ए॒ते । सोमाः॑ । अ॒भि । ग॒व्या । स॒हस्रा॑ । म॒हे । वाजा॑य । अ॒मृता॑य । श्रवां॑सि ।

प॒वित्रे॑भिः । पव॑मानाः । अ॒सृ॒ग्र॒न् । श्र॒व॒स्यवः॑ । न । पृ॒त॒नाजः॑ । अत्याः॑ ॥५

एते । सोमाः । अभि । गव्या । सहस्रा । महे । वाजाय । अमृताय । श्रवांसि ।

पवित्रेभिः । पवमानाः । असृग्रन् । श्रवस्यवः । न । पृतनाजः । अत्याः ॥५

“एते “सोमाः “गव्या गव्यानि “सहस्रा सहस्राणि “श्रवांसि अन्नानि आशिरलक्षणानि लक्षीकृत्य "पवित्रेभिः पवित्रच्छिद्रैः “पवमानाः पूयमानाः “महे महते “वाजाय अन्नाय “अमृताय अमृतत्वाय “अभि “असृग्रन् सृज्यन्ते । किमिव । “श्रवस्यवः अन्नेच्छवः “पृतनाजः सेनाजेतारः “अत्याः “न अश्वा इव ॥ ॥ २२ ॥


परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः ।

अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुंजा॑नो अ॒भि वाज॑मर्ष ॥६

परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः ।

अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥६

परि । हि । स्म । पुरुऽहूतः । जनानाम् । विश्वा । असरत् । भोजना । पूयमानः ।

अथ । आ । भर । श्येनऽभृत । प्रयांसि । रयिम् । तुञ्जानः । अभि । वाजम् । अर्ष ॥६

अयं “परि “असरत् परिसरति “जनानाम् अर्थाय “विश्वा सर्वाणि “भोजना भोजनान्यन्नानि धनानि वा । कीदृशः। “पुरुहूतः बहुभिराहूतः “पूयमानः शोध्यमानः । अथ प्रत्यक्षकृतः । “अथ इदानीं हे “श्येनभृत श्येनेनाहृत सोम त्वं “प्रयांसि अन्नानि “आ “भर आहर । “रयिं धनं “तुञ्जानः ददानः “वाजम् अन्नं रसम् “अभि "अर्ष अभिगच्छ ॥


ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ ।

ति॒ग्मे शिशा॑नो महि॒षो न शृंगे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥७

ए॒षः । सु॒वा॒नः । परि॑ । सोमः॑ । प॒वित्रे॑ । सर्गः॑ । न । सृ॒ष्टः । अ॒द॒धा॒व॒त् । अर्वा॑ ।

ति॒ग्मे इति॑ । शिशा॑नः । म॒हि॒षः । न । शृङ्गे॒ इति॑ । गाः । ग॒व्यन् । अ॒भि । शूरः॑ । न । सत्वा॑ ॥७

एषः । सुवानः । परि । सोमः । पवित्रे । सर्गः । न । सृष्टः । अदधावत् । अर्वा ।

तिग्मे इति । शिशानः । महिषः । न । शृङ्गे इति । गाः । गव्यन् । अभि । शूरः । न । सत्वा ॥७

"एष "सुवानः सूयमानः "अर्वा अरणकुशलः “सोमः “सर्गो “न "सृष्टः विसृष्टोऽश्व इव "पवित्रे “परि “अदधावत् परिधावति । किंच “तिग्मे तीक्ष्णे “शृङ्गे “शिशानः तीक्ष्णीकुर्वन् “महिषो “न महान् महिषाख्यो मृग इव । तथान्यदृष्टान्तः। “गा “गव्यन् प्रभूता गा इच्छन् "शूरो “न शूर इव । एतौ महिषशूरौ यथा प्रतिबुद्धौ शीघ्रं धावतः तद्वत् “सत्वा सदनशीलोऽयं गच्छतीति शेषः ॥


ए॒षा य॑यौ पर॒मादं॒तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद ।

दि॒वो न वि॒द्युत्स्त॒नयं॑त्य॒भ्रैः सोम॑स्य ते पवत इंद्र॒ धारा॑ ॥८

ए॒षा । आ । य॒यौ॒ । प॒र॒मात् । अ॒न्तः । अद्रेः॑ । कूऽचि॑त् । स॒तीः । ऊ॒र्वे । गाः । वि॒वे॒द॒ ।

दि॒वः । न । वि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒भ्रैः । सोम॑स्य । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । धारा॑ ॥८

एषा । आ । ययौ । परमात् । अन्तः । अद्रेः । कूऽचित् । सतीः । ऊर्वे । गाः । विवेद ।

दिवः । न । विऽद्युत् । स्तनयन्ती । अभ्रैः । सोमस्य । ते । पवते । इन्द्र । धारा ॥८

“एषा सोमधारा “परमात् उच्छ्रितात् स्थानात् “ययौ जगाम पात्रं स्वयंप्राप्तव्यं देशं वा । किंच "अद्रेः पणीनां निवासस्थानस्य पर्वतस्य “अन्तः “कूचित् क्वचित् कुत्रचिद्गूढे “ऊर्वे देशे “सतीः वर्तमानाः पणिभिरपहृताः "गाः “विवेद लब्धवती । यत्र पणयो गा अपहृत्य स्थापितवन्तः स देश ऊर्वः। 'ऊर्वं गव्यं महि गृणानः' (ऋ. सं. ६,१७,१ ) इति हि मन्त्रान्तरम् । “दिवो “न “विद्युत् दिवः सकाशाद्विद्युदिव “स्तनयन्ती शब्दयन्ती । विद्युत् विशेष्यते । “अभ्रैः प्रेरितेति शेषः । सा यथा शब्दं करोति तद्वच्छब्दं कुर्वती । “सोमस्य संबन्धिनी सेयं “धारा हे “इन्द्र “ते त्वदर्थं त्वत्पानाय "पवते पूयते । क्षरति वा ॥


उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिंद्रे॑ण सोम स॒रथं॑ पुना॒नः ।

पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥९

उ॒त । स्म॒ । रा॒शिम् । परि॑ । या॒सि॒ । गोना॑म् । इन्द्रे॑ण । सो॒म॒ । स॒ऽरथ॑म् । पु॒ना॒नः ।

पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । जी॒र॒दा॒नो॒ इति॑ जीरऽदानो । शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । ताः । उ॒प॒ऽस्तुत् ॥९

उत । स्म । राशिम् । परि । यासि । गोनाम् । इन्द्रेण । सोम । सऽरथम् । पुनानः ।

पूर्वीः । इषः । बृहतीः । जीरदानो इति जीरऽदानो । शिक्ष । शचीऽवः । तव । ताः । उपऽस्तुत् ॥९

“उत “स्म अपि च खलु हे "सोम “पुनानः पूयमानः “गोनां गवां “राशिं समूहं पणिभिरपहृतं “परि “यासि परिगच्छसि । कथंभूतः सन् उच्यते । “इन्द्रेण सह "सरथम् एकमेव रथमास्थाय । हे “जीरदानो क्षिप्रदान सोम “उपस्तुत् उपस्तूयमानस्त्वं “पूर्वीः बह्वीः “बृहतीः महतीः “इषः उक्तलक्षणान्यन्नानि “शिक्ष देहि । हे “शचीवः अन्नवन् “ताः इषः “तव स्वभूता इति शेषः ॥ ॥२३॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८७&oldid=208678" इत्यस्माद् पुनः प्राप्तिः