ऋग्वेदः सूक्तं ९.३८
← सूक्तं ९.३७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.३८ रहूगण आङ्गिरसः। |
सूक्तं ९.३९ → |
दे. पवमानः सोमः। गायत्री। |
एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति ।
गच्छन्वाजं सहस्रिणम् ॥१॥
एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥२॥
एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भते ॥३॥
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
गच्छञ्जारो न योषितम् ॥४॥
एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
य इन्दुर्वारमाविशत् ॥५॥
एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
क्रन्दन्योनिमभि प्रियम् ॥६॥
सायणभाष्यम्
‘एषः' इति षडृचं चतुर्दशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘एष उ स्यः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।
गच्छ॒न्वाजं॑ सह॒स्रिणं॑ ॥१
ए॒षः । ऊं॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।
गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥१
एषः । ऊं इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति ।
गच्छन् । वाजम् । सहस्रिणम् ॥१
“स्यः स प्रसिद्धः “एषः अभिषुतः सोमः “वृषा वर्षिता “रथः रंहणस्वभावः “अव्यो “वारेभिः अवेर्वालैर्दशापवित्रेण “अर्षति गच्छति कलशम् । “वाजम् अन्नं “सहस्रिणं सहस्रसंख्याकं यजमानाय प्रदातुं “गच्छन् द्रोणकलशं प्रविशन्नर्षतीत्यर्थः । "उ पूरणः ॥
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।
इंदु॒मिंद्रा॑य पी॒तये॑ ॥२
ए॒तम् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२
एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
इन्दुम् । इन्द्राय । पीतये ॥२
"एतम् “इन्दुं क्लिद्यमानं “हरिं हरितवर्णं सोमं "त्रितस्य ऋषेः "योषणः अङ्गुलयः "अद्रिभिः “हिन्वन्ति “इन्द्राय इन्द्रस्य “पीतये पानाय ॥
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यंते॑ अप॒स्युवः॑ ।
याभि॒र्मदा॑य॒ शुंभ॑ते ॥३
ए॒तम् । त्यम् । ह॒रितः॑ । दश॑ । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ ।
याभिः॑ । मदा॑य । शुम्भ॑ते ॥३
एतम् । त्यम् । हरितः । दश । मर्मृज्यन्ते । अपस्युवः ।
याभिः । मदाय । शुम्भते ॥३
"एतं “त्यं तं सोममध्वर्योः “दश “हरितः हरणस्वभावा अङ्गलयः “अपस्युवः कर्मेच्छवः सत्यः "मर्मृज्यन्ते शोधयन्ति । “याभिः इन्द्रस्य “मदाय “शुम्भते दीप्यते । शोध्यत इत्यर्थः । तमेतमिति संबन्धः ॥
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।
गच्छं॑जा॒रो न यो॒षितं॑ ॥४
ए॒षः । स्यः । मानु॑षीषु । आ । श्ये॒नः । न । वि॒क्षु । सी॒द॒ति॒ ।
गच्छ॑न् । जा॒रः । न । यो॒षित॑म् ॥४
एषः । स्यः । मानुषीषु । आ । श्येनः । न । विक्षु । सीदति ।
गच्छन् । जारः । न । योषितम् ॥४
“स्यः सः “एषः सोमः “मानुषीषु “विक्षु प्रजासु यजमानरूपास्वनुग्रहेण “आ “सीदति “श्येनो “न श्येन इव । पुनः क इव । “योषितं “गच्छन् अभिगच्छन् “जारो “न जार इव । यथा संकेतितस्तस्याः कामपूरणाय गूढो गच्छति तद्वदित्यर्थः ॥
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ ।
य इंदु॒र्वार॒मावि॑शत् ॥५
ए॒षः । स्यः । मद्यः॑ । रसः॑ । अव॑ । च॒ष्टे॒ । दि॒वः । शिशुः॑ ।
यः । इन्दुः॑ । वार॑म् । आ । अवि॑शत् ॥५
एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः ।
यः । इन्दुः । वारम् । आ । अविशत् ॥५
“स्यः सः “एषः “मद्यः मदनिमित्तः “रसः “अव “चष्टे सर्वमवपश्यति। "दिवः “शिशुः । द्युपुत्रः । तत्रोत्पत्तेः पुत्रत्वमस्य । “य “इन्दुः दीप्तः सोमः “वारं दशापवित्रम् "आविशत् आविशति स एष इति ॥
ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।
क्रंद॒न्योनि॑म॒भि प्रि॒यं ॥६
ए॒षः । स्यः । पी॒तये॑ । सु॒तः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।
क्रन्द॑न् । योनि॑म् । अ॒भि । प्रि॒यम् ॥६
एषः । स्यः । पीतये । सुतः । हरिः । अर्षति । धर्णसिः ।
क्रन्दन् । योनिम् । अभि । प्रियम् ॥६
“एष “स्यः स सोमः “पीतये पानाय "सुतः अभिषुतः “हरिः हरितवर्णः “धर्णसिः धारकः “प्रियं स्वप्रियभूतं "योनिं स्थानं द्रोणकलशं “क्रन्दन् शब्दयन् "अभि "अर्षति गच्छति ॥ ॥ २८॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|