ऋग्वेदः सूक्तं ९.७५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.७४ ऋग्वेदः - मण्डल ९
सूक्तं ९.७५
कविर्भार्गवः।
सूक्तं ९.७६ →
दे. पवमानः सोमः। जगती।


अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥१॥
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥२॥
अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये ।
अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥३॥
अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः ।
रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥४॥
परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् ।
ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥५॥


सायणभाष्यम्

‘अभि प्रियाणि ' इति पञ्चर्चमष्टमं सूक्तं भार्गवस्य कवेरार्षं जागतं पवमानसोमदेवताकम् । तथानुक्रम्यते-’ अभि प्रियाणि पञ्च कविः' इति । गतो विनियोगः ॥


अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते ।

आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्वं॑चमरुहद्विचक्ष॒णः ॥१

अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । चनः॑ऽहितः । नामा॑नि । य॒ह्वः । अधि॑ । येषु॑ । वर्ध॑ते ।

आ । सूर्य॑स्य । बृ॒ह॒तः । बृ॒हन् । अधि॑ । रथ॑म् । विष्व॑ञ्चम् । अ॒रु॒ह॒त् । वि॒ऽच॒क्ष॒णः ॥

अभि । प्रियाणि । पवते । चनःऽहितः । नामानि । यह्वः । अधि । येषु । वर्धते ।

आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । अरुहत् । विऽचक्षणः ॥

“चनोहितः । चन इत्यन्ननाम । चायतेरसुनि चन इत्यौणादिकसूत्रेण निपातितः । चनसेऽन्नाय हितः यद्वा हितान्नः सोमः प्रियाणि जगतः प्रीणयितॄणि "नामानि नमनशीलानि तान्युदकानि “अभि “पवते अभितः करोति । “येषु अन्तरिक्षस्थितेषूदकेषु “यह्वः महानयं सोमः “अधि “वर्धते अधिकं प्रवृद्धो भवति । अपां मध्ये सोमो वसति । ततः “बृहन् महान् सोमः "बृहतः महतः परिवृढस्य “सूर्यस्य विष्वञ्चं विष्वग्गमनम् “अधि उपरि “रथं “विचक्षणः सर्वस्य विद्रष्टा सन् “आ “अरुहत् आरोहति । ‘ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' इति ॥


ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः ।

दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥२

ऋ॒तस्य॑ । जि॒ह्वा । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । व॒क्ता । पतिः॑ । धि॒यः । अ॒स्याः । अदा॑भ्यः ।

दधा॑ति । पु॒त्रः । पि॒त्रोः । अ॒पी॒च्य॑म् । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥

ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धियः । अस्याः । अदाभ्यः ।

दधाति । पुत्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचने । दिवः ॥

“ऋतस्य सत्यभूतस्य यज्ञस्य “जिह्वा मुख्यत्वेन जिह्वास्थानीयः सोमः “प्रियं प्रियकरं “मधु मदकरं रसं “पवते क्षरति। कीदृशः। “वक्ता शब्दकृत् । यद्वा । स्तोतृभिः क्रियमाणाः स्तुतयः साधीयस्य इति प्रतिश्रवणस्य कर्ता । “अस्याः “धियः एतस्य कर्मणः “पतिः पालयिता “अदाभ्यः रक्षोभिर्हिंसितुमशक्यः “पुत्रः यजमानः “पित्रोः मातापित्रोः “अपीच्यम् अन्तर्हितं यत् “नाम । तौ न जानीतो नामकरणवेलायाम् । तस्मात्तयोरपरिज्ञायमानं तत् “तृतीयं नाम "दिवः द्युलोकस्य “रोचने दीप्यमाने सोमेऽभिषूयमाणे सति “अधि “दधाति अत्यन्तं धारयति । नक्षत्रव्यावहारिकनाम्नी प्रभाष्य सोमयाजीति तृतीयमस्य नाम इति भगवता बौधायनेनोक्तम् ( बौ. गृह्यशेष. १.११.४-७ ) ॥


अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ ।

अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥३

अव॑ । द्यु॒ता॒नः । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । नृऽभिः॑ । ये॒मा॒नः । कोशे॑ । आ । हि॒र॒ण्यये॑ ।

अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । अधि॑ । त्रि॒ऽपृ॒ष्ठः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

अव । द्युतानः । कलशान् । अचिक्रदत् । नृऽभिः । येमानः । कोशे । आ । हिरण्यये ।

अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । अधि । त्रिऽपृष्ठः । उषसः । वि । राजति ॥

“द्युतानः। ‘द्युत दीप्तौ' । दीप्यमानः “नृभिः कर्मनेतृभिर्ऋत्विग्भिः “हिरण्यये हिरण्मये “कोशे अधिषवणचर्मणि । तस्य हिरण्मयत्वं ' हिरण्यपाणिरभिषुणोति ' इति हिरण्यसंबन्धात् । तादृशे कोशे “येमानः । छान्दसे कर्मणि लिटि कानचि रूपम् । नियम्यमानः सोमः । ततः “ऋतस्य सत्यभूतस्य यज्ञस्य “दोहनाः दोग्धार ऋत्विजः “ईम् एनं सोमम् “अभि “अनूषत अभिष्टुवन्ति । ‘ ग्रावाणो वत्सा ऋत्विजो दुहन्ति' (तै. सं. ६.२.११.४ ) इति तैत्तिरीयब्राह्मण एषां दोग्धृत्वमभिहितम् । सोमः “कलशान् द्रोणाभिधानान् प्रति “अव “अचिक्रदत् अवक्रन्दति शब्दायते । ततः “त्रिपृष्ठः । त्रीणि सवनान्येव पृष्ठानि यस्य स तथोक्तः त्रिषु सवनेषु सोमस्य विद्यमानत्वात् । त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम्। तादृशः सोमः “उषसः “अधि यागाहनि “वि “राजति । 'अधिशीङ्स्थासां० ) (पा. सू. १. ४, ४६ ) इति द्वितीया । तेष्वहःसु विशेषेण दीप्यते । यद्वा । राजतिरन्तर्णीतण्यर्थः । अहानि प्रकाशयति ॥


अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचिः॑ ।

रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥४

अद्रि॑ऽभिः । सु॒तः । म॒तिऽभिः॑ । चनः॑ऽहितः । प्र॒ऽरो॒चय॑न् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ।

रोमा॑णि । अव्या॑ । स॒मया॑ । वि । धा॒व॒ति॒ । मधोः॑ । धारा॑ । पिन्व॑माना । दि॒वेऽदि॑वे ॥

अद्रिऽभिः । सुतः । मतिऽभिः । चनःऽहितः । प्रऽरोचयन् । रोदसी इति । मातरा । शुचिः ।

रोमाणि । अव्या । समया । वि । धावति । मधोः । धारा । पिन्वमाना । दिवेऽदिवे ॥

“मतिभिः । ‘ मन ज्ञाने । मन्त्रे विषेषपचमन इति क्तिन्नुदात्तः । स्तुतिभिः “अद्रिभिः ग्रावभिश्च “सुतः अभिषुतः “चनोहितः चनसे अन्नाय हितः हितान्नो वा “मातरा मातरौ जगतो निर्मात्र्यौ “रोदसी द्यावापृथिव्यौ “प्ररोचयन स्वतेजसा प्रकाशयन् अत एव “शुचिः दीप्यमानः एवंविधः सोमः अव्यानि अविभवानि “रोमाणि तैः कृतानि पवित्राणि “समया अभितः समीपे “वि “धावाति विशेषेण क्षरति । किंच “पिन्वमाना अद्भिः सिच्यमाना “मधोः मदकरस्य सोमस्य “धारा “दिवेदिवे अन्वहं दीर्घसत्रेषु पवित्राण्युभयतः पवते ॥


परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो अ॒भि वा॑सया॒शिरं॑ ।

ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिंद्रं॑ चोदय॒ दात॑वे म॒घं ॥५

परि॑ । सो॒म॒ । प्र । ध॒न्व॒ । स्व॒स्तये॑ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वा॒स॒य॒ । आ॒ऽशिर॑म् ।

ये । ते॒ । मदाः॑ । आ॒ह॒नसः॑ । विऽहा॑यसः । तेभिः॑ । इन्द्र॑म् । चो॒द॒य॒ । दात॑वे । म॒घम् ॥

परि । सोम । प्र । धन्व । स्वस्तये । नृऽभिः । पुनानः । अभि । वासय । आऽशिरम् ।

ये । ते । मदाः । आहनसः । विऽहायसः । तेभिः । इन्द्रम् । चोदय । दातवे । मघम् ॥

हे “सोम “स्वस्तये अविनाशाय “परि “प्र “धन्व पात्राणि परितः प्रगच्छ । धविर्गत्यर्थः । किंच “नृभिः कर्मनेतृभिर्ऋत्विग्भिः “पुनानः पूयमानस्त्वम् “आशिरम् आश्रयणं क्षीरादिकम् “अभि “वासय आच्छादय । संयोजयेति यावत् । “आहनसः । ‘ आहननवन्तो वचनवन्तः । (निरु. ४,१५ ) इति यास्कः । शत्रूणामाभिमुख्येन हन्तारोऽभिहन्यमाना अभिषूयमाणाः स्तुतिमन्तः शब्दवन्तो वा “विहायसः । महन्नामैतत् । महान्तः “ते त्वदीयाः “ये “मदाः मदहेतवो रसाः सन्ति “तेभिः तैः सोमैरस्माभिर्दीयमानैः “मघं मंहनीयं धनमस्मभ्यं “दातवे दातुम् “इन्द्रं “चोदय प्रेरय ॥ ॥ ३३ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमहाजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके द्वितीयोऽध्यायः संपूर्णः ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७५&oldid=179420" इत्यस्माद् पुनः प्राप्तिः