ऋग्वेदः सूक्तं ९.९२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.९१ ऋग्वेदः - मण्डल ९
सूक्तं ९.९२
कश्यपो मारीचः
सूक्तं ९.९३ →
दे. पवमानः सोमः। त्रिष्टुप्


परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः ।
आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः ॥१॥
अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ ।
सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥२॥
प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् ।
भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥३॥
तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः ।
दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥४॥
तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त ।
ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥५॥
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः ।
सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु ॥६॥


सायणभाष्यम्

‘परि सुवानः' इति षडृचं सप्तमं सूक्तं मारीचस्य कश्यपस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । ‘ परि सुवानः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः ।

आप॒च्छ्लोक॑मिंद्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥१

परि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः ।

आप॑त् । श्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥

परि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः ।

आपत् । श्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयःऽभिः ॥

“सुवानः' अभिषूयमाणः “हियानः ऋत्विग्भिः प्रेर्यमाणः “हरिः हरितवर्णः “अंशुः सोमः “पवित्रे अविवालेन कृते दशापवित्रे “परि “सर्जि परिसृज्यते । किमर्थम् । “सनये धनलाभाय देवानां संभजनाय वा । तत्र दृष्टान्तः । “रथो “न । रथो यथा युद्धे शत्रुवधार्थं शत्रुधनहरणार्थं वा सृज्यते तद्वत् । किंच “पूयमानः पवित्रेण सोऽयं सोमः “इन्द्रियम् इन्द्रलिङ्गमिन्द्रस्य पर्याप्तं वा “श्लोकं स्तोत्रम् “आपत् आप्नोति । आप्लृ व्याप्तौ ' । लेट्यडागमः । तथा स सोमः “प्रयोभिः प्रीणयितृभिः हवीरूपैरन्नैः "देवान् “प्रति “अजुषत प्रतिसेवते । ‘जुषी प्रीतिसेवनयोः' ।।


अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ ।

सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्राः॑ ॥२

अच्छ॑ । नृ॒ऽचक्षाः॑ । अ॒स॒र॒त् । प॒वित्रे॑ । नाम॑ । दधा॑नः । क॒विः । अ॒स्य॒ । योनौ॑ ।

सीद॑न् । होता॑ऽइव । सद॑ने । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑यः । स॒प्त । विप्राः॑ ॥

अच्छ । नृऽचक्षाः । असरत् । पवित्रे । नाम । दधानः । कविः । अस्य । योनौ ।

सीदन् । होताऽइव । सदने । चमूषु । उप । ईम् । अग्मन् । ऋषयः । सप्त । विप्राः ॥

“नृचक्षाः नृणां द्रष्टा “कविः क्रान्तप्रज्ञः सोमः “नाम वसतीवर्याख्यमुदकं “दधानः धारयन् “अस्य एतादृशस्यात्मनः “योनौ स्थाने “पवित्रे “अच्छ “असरत् अभितः सरति । ततः “सदने । सीदन्त्यत्रेति सदनो यज्ञः । तस्मिन् “होतेव होता यथा देवान् स्तोतुमुपविशति तद्वद्देवानागन्तुमुपविशन् सोमः “चमूषु । चमन्ति चम्वो ग्रहादयः । तेष्वभिसरति । अनन्तरं सप्तसंख्याकाः “विप्राः मेधाविनो भरद्वाजः कश्यप गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठ इत्येते “ऋषयः “ईम् एनं सोमम् “उप “अग्मन् स्तोत्रैरुपगच्छन्ति ॥


प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्यं॑ ।

भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रंतानु॒ जना॑न्यतते॒ पंच॒ धीरः॑ ॥३

प्र । सु॒ऽमे॒धाः । गा॒तु॒ऽवित् । वि॒श्वऽदे॑वः । सोमः॑ । पु॒ना॒नः । सदः॑ । ए॒ति॒ । नित्य॑म् ।

भुव॑त् । विश्वे॑षु । काव्ये॑षु । रन्ता॑ । अनु॑ । जना॑न् । य॒त॒ते॒ । पञ्च॑ । धीरः॑ ॥

प्र । सुऽमेधाः । गातुऽवित् । विश्वऽदेवः । सोमः । पुनानः । सदः । एति । नित्यम् ।

भुवत् । विश्वेषु । काव्येषु । रन्ता । अनु । जनान् । यतते । पञ्च । धीरः ॥

“सुमेधाः । ‘ नित्यमसिच् प्रजामेधयोः' ( पा. सू. ५. ४. १२२) इत्यसिच्समासान्तः । शोभनप्रज्ञः “गातुवित् मार्गस्य वेत्ता । यद्वा । गातवः स्तोतारः । तेषां धनस्य लम्भयिता । “विश्वदेवः सर्वदेवोपगतः । यद्वा । देवो देवनं दीप्तिः । व्यापकदीप्तियुक्तः । एतादृशः “सोमः “पुनानः पूयमानः सन् “नित्यम् अविनश्वरं “सदः स्थानं द्रोणकलशं “प्र “एति प्रगच्छति । ततः “विश्वेषु सर्वेषु “काव्येषु कविकर्मसु स्तोत्रेषु “रन्ता “भुवत् रमणशीलो भवति । रमेस्ताच्छीलिकस्तृन् । तथा “धीरः प्राज्ञः सोऽयं “पञ्च “जनान् निषादपञ्चमांश्चतुरो वर्णान् “अनु “यतते अनुगन्तुं प्रयत्नं करोति । अनुगच्छतीति यावत् ॥


तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ ।

दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जंति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ॥४

तव॑ । त्ये । सो॒म॒ । प॒व॒मा॒न॒ । नि॒ण्ये । विश्वे॑ । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ ।

दश॑ । स्व॒धाभिः॑ । अधि॑ । सानौ॑ । अव्ये॑ । मृ॒जन्ति॑ । त्वा॒ । न॒द्यः॑ । स॒प्त । य॒ह्वीः ॥

तव । त्ये । सोम । पवमान । निण्ये । विश्वे । देवाः । त्रयः । एकादशासः ।

दश । स्वधाभिः । अधि । सानौ । अव्ये । मृजन्ति । त्वा । नद्यः । सप्त । यह्वीः ॥

हे “पवमान पूयमान हे “सोम “तव स्वभूताः “त्ये ते प्रसिद्धाः “त्रय “एकादशासः । पूरणार्थे डट् प्रत्ययः । त्रयस्त्रिंशत्संख्याकाः “विश्वे सर्वे “देवाः “निण्ये । अन्तर्हितनामैतत् । अन्तर्हिते स्थाने द्युलोके वर्तन्ते । तादृशं त्वां दशसंख्याका अङ्गुलयः “अधि “सानौ अधिकं समुच्छ्रिते “अव्ये अविमये पवित्रे “स्वधाभिः उदकैः “मृजन्ति शोधयन्ति । किंच "यह्वीः ।' वा छन्दसि । इति पूर्वसवर्णदीर्घः । यह्वयो महत्यः “सप्त सप्तसंख्याका गङ्गाद्याः “नद्यः “त्वा त्वां “मृजन्ति । वसतीवर्यात्मकैरेकधनात्मकैश्च स्वीयैरुदकैस्त्वां मार्जयन्तीत्यर्थः ॥


तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नसं॑त ।

ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीकं॑ ॥५

तत् । नु । स॒त्यम् । पव॑मानस्य । अ॒स्तु॒ । यत्र॑ । विश्वे॑ । का॒रवः॑ । स॒म्ऽनस॑न्त ।

ज्योतिः॑ । यत् । अह्ने॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । प्र । आ॒व॒त् । मनु॑म् । दस्य॑वे । कः॒ । अ॒भीक॑म् ॥

तत् । नु । सत्यम् । पवमानस्य । अस्तु । यत्र । विश्वे । कारवः । सम्ऽनसन्त ।

ज्योतिः । यत् । अह्ने । अकृणोत् । ऊं इति । लोकम् । प्र । आवत् । मनुम् । दस्यवे । कः । अभीकम् ॥

"सत्यं सत्यभूतं “तत् प्रसिद्धं “पवमानस्य सोमस्य स्थानं “नु क्षिप्रमस्माकम् अस्तु । “यत्र यस्मिन् स्थाने “विश्वे सर्वे “कारवः स्तोतारः “संनसन्त स्तोतुं संगच्छन्ते तत्स्थानमस्तु । अस्य सोमस्य “यत् “ज्योतिः “अह्ने दिवसाय “लोकम् आलोकं प्रकाशम् “अकृणोत् करोति । “उ इत्यवधारणे । तज्ज्योतिः “मनुम् एतन्नामानं राजर्षिं “प्रावत् प्रकर्षेणारक्षत् । तथा सोमः स्वयं तेजः “दस्यवे सर्वस्योपक्षपयित्रेऽसुराय "अभीकम् अभिगमनशीलं “कः अकार्षीत् । करोतेर्लुङि “ मन्त्रे घस° ' इति च्लेर्लुक् ॥


परि॒ सद्मे॑व पशु॒मांति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः ।

सोमः॑ पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥६

परि॑ । सद्म॑ऽइव । प॒शु॒ऽमन्ति॑ । होता॑ । राजा॑ । न । स॒त्यः । सम्ऽइ॑तीः । इ॒या॒नः ।

सोमः॑ । पु॒ना॒नः । क॒लशा॑न् । अ॒या॒सी॒त् । सीद॑न् । मृ॒गः । न । म॒हि॒षः । वने॑षु ॥

परि । सद्मऽइव । पशुऽमन्ति । होता । राजा । न । सत्यः । सम्ऽइतीः । इयानः ।

सोमः । पुनानः । कलशान् । अयासीत् । सीदन् । मृगः । न । महिषः । वनेषु ॥

“होता देवानामाह्वातर्त्विक् “पशुमन्ति पशुमतः “सद्मेव यज्ञगृहान् यथोपगच्छति । किंच “राजा “न यथा राजा “सत्यः सत्यकर्मा सन् “समितीः । संग्रामनामैतत् सम्यक् प्राप्यते योद्धृभिरत्रेति । तान् संग्रामान् “इयानः गच्छन् भवति तथा “पुनानः “सोमः “वनेषु वननीयेषु वसतीवर्याख्येषूदकेषु “सीदन् “मृगो “न “महिषः महिषाख्यो मृग इवोदकेषु तिष्ठन् “कलशान् द्रोणाभिधानान् “अयासीत् परियाति । यद्वा । महिषो महान् पूज्यो वा सोमः कलशान् परिगच्छतीति ॥ ॥२॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९२&oldid=180102" इत्यस्माद् पुनः प्राप्तिः