ऋग्वेदः सूक्तं ९.५२
← सूक्तं ९.५१ | ऋग्वेदः - मण्डल ९ सूक्तं ९.५२ उचथ्य आङ्गिरसः। |
सूक्तं ९.५३ → |
दे. पवमानः सोमः। गायत्री। |
परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा ।
सुवानो अर्ष पवित्र आ ॥१॥
तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः ।
सहस्रधारो यात्तना ॥२॥
चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय ।
वधैर्वधस्नवीङ्खय ॥३॥
नि शुष्ममिन्दवेषां पुरुहूत जनानाम् ।
यो अस्माँ आदिदेशति ॥४॥
शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् ।
पवस्व मंहयद्रयिः ॥५॥
सायणभाष्यम्
‘परि द्युक्षः' इति पञ्चर्चमष्टाविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “परि द्युक्षः' इत्यनुक्रान्तम् । उक्तो विनियोगः ।।
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अंध॑सा ।
सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥१
परि॑ । द्यु॒क्षः । स॒नत्ऽर॑यिः । भर॑त् । वाज॑म् । नः॒ । अन्ध॑सा ।
सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ॥१
परि । द्युक्षः । सनत्ऽरयिः । भरत् । वाजम् । नः । अन्धसा ।
सुवानः । अर्ष । पवित्रे । आ ॥१
“द्युक्षः दीप्तः “सनद्रयिः दीयमानधनः सोमः "नः अस्माकं “वाजं बलम् “अन्धसा अन्नेन सह “परि “भरत् परिभरतु प्रयच्छतु। अथ प्रत्यक्षस्तुतिः । हे सोम “सुवानः अभिषूयमाणस्त्वं “पवित्रे “आ “अर्ष क्षर ॥
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
स॒हस्र॑धारो या॒त्तना॑ ॥२
तव॑ । प्र॒त्नेभिः॑ । अध्व॑ऽभिः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।
स॒हस्र॑ऽधारः । या॒त् । तना॑ ॥२
तव । प्रत्नेभिः । अध्वऽभिः । अव्यः । वारे । परि । प्रियः ।
सहस्रऽधारः । यात् । तना ॥२
हे सोम “तव संबन्धी “प्रियः देवानां प्रीतिकरः “सहस्रधारः बहुधारः “तना विस्तृतसारो रसः “प्रत्नेभिः पुराणैः “अध्वभिः मार्गैः “अव्यः अवेः “वारे वाले दशापवित्रे “परि “यात् परिगच्छति ॥
च॒रुर्न यस्तमीं॑ख॒येंदो॒ न दान॑मींखय ।
व॒धैर्व॑धस्नवींखय ॥३
च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इन्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ ।
व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥३
चरुः । न । यः । तम् । ईङ्खय । इन्दो इति । न । दानम् । ईङ्खय ।
वधैः । वधस्नो इति वधऽस्नो । ईङ्खय ॥३
हे सोम “चरुर्न चरुरिव “यः पूर्णोदनो भवति “तमीङ्खय अस्मान् प्रापय । अपि च हे “इन्दो “न इदानीं “दानं देयम् ईङ्खय । हे “वधस्नो प्रहारेण प्रस्रवणशील सोम “वधैः ग्राव्णां प्रहारैः “ईङ्खय ॥
नि शुष्म॑मिंदवेषां॒ पुरु॑हूत॒ जना॑नां ।
यो अ॒स्माँ आ॒दिदे॑शति ॥४
नि । शुष्म॑म् । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।
यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥४
नि । शुष्मम् । इन्दो इति । एषाम् । पुरुऽहूत । जनानाम् ।
यः । अस्मान् । आऽदिदेशति ॥४
हे “पुरुहूत बहुभिराहूत “इन्दो सोम त्वं “यः शुष्मो येषां शत्रुजनानां बलम् “अस्मान् “आदिदेशति बाधार्थमाह्वयति “एषां शत्रुजनानां तं “शुष्मं बलं "नि न्यक् कुर्विति शेषः ॥
श॒तं न॑ इंद ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नां ।
पव॑स्व मंह॒यद्र॑यिः ॥५
श॒तम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒हस्र॑म् । वा॒ । शुची॑नाम् ।
पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥५
शतम् । नः । इन्दो इति । ऊतिऽभिः । सहस्रम् । वा । शुचीनाम् ।
पवस्व । मंहयत्ऽरयिः ॥५
हे “इन्दो सोम “मंहयद्रयिः प्रदीयमानधनस्त्वं “नः अस्माकम् “ऊतिभिः ऊतिभ्यः । विभक्तिव्यत्ययः । रक्षार्थं “शुचीनां शुद्धानां तव अंशभूतानां सोमानां “शतं “सहस्रं “वा “पवस्व क्षर ॥ ॥ ९ ॥
मण्डल ९ | |||
---|---|---|---|