ऋग्वेदः सूक्तं ९.६९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६८ ऋग्वेदः - मण्डल ९
सूक्तं ९.६९
हिरण्यस्तूप आङ्गिरसः
सूक्तं ९.७० →
दे. पवमानः सोमः। जगती, ९-१० त्रिष्टुप्


इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि ।
उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥१॥
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥२॥
अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते ।
हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥३॥
उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् ।
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥४॥
अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत ।
दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥५॥
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते ।
तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥६॥
सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत ।
शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥७॥
आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् ।
यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥८॥
एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ ।
सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥९॥
इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः ।
भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥१०॥


सायणभाष्यम्

'इषुर्न' इति दशर्चं द्वितीयं सूक्तमाङ्गिरसस्य हिरण्यस्तूपस्यार्षं पवमानसोमदेवताकम् । नवमीदशम्यौ त्रिष्टुभौ । शिष्टा जगत्यः । तथा चानुक्रान्तम् - ' इषुर्न हिरण्यस्तूपोऽन्त्ये त्रिष्टुभौ ' इति । गतो विनियोगः ।।


इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि ।

उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥१

इषुः॑ । न । धन्व॑न् । प्रति॑ । धी॒य॒ते॒ । म॒तिः । व॒त्सः । न । मा॒तुः । उप॑ । स॒र्जि॒ । ऊध॑नि ।

उ॒रुधा॑राऽइव । दु॒हे॒ । अग्रे॑ । आ॒ऽय॒ती । अस्य॑ । व्र॒तेषु॑ । अपि॑ । सोमः॑ । इ॒ष्य॒ते॒ ॥

इषुः । न । धन्वन् । प्रति । धीयते । मतिः । वत्सः । न । मातुः । उप । सर्जि । ऊधनि ।

उरुधाराऽइव । दुहे । अग्रे । आऽयती । अस्य । व्रतेषु । अपि । सोमः । इष्यते ॥

अस्मिन् पवमानरूप इन्द्रे "मतिः मननीयास्मदीया स्तुतिः “प्रति “धीयते अस्माभिर्निधीयते वा। दधाते रूपम्। तत्र दृष्टान्तः । "इषुर्न यथेषुः शरः “धन्वन् धनुषि प्रति धीयते तद्वत् । किंच “ऊधनि सर्वस्य पोषयितृत्वेनोधःस्थानीय इन्द्रे सोमो मदार्थमस्माभिः “उप "सर्जि उपसृज्यते । कथमिव । "मातुः गोः “ऊधनि पयोधारके “वत्सो “न वत्सो यथा पयःपानार्थं सृज्यते तद्वत् । “उरुधारेव बहुविधपयोधारा गौरिव “अग्रे वत्सस्य पुरतः “आयती गच्छन्ती सती पयः “दुहे दुग्धे तथा सोऽयमिन्द्रो वत्सभूतेभ्यः स्तोतृभ्यः पुरतो गच्छन् बहुविधान् कामान् दुग्धे। किंच “अस्य एतादृशस्य “व्रतेष्वपि "सोम इष्यते यष्टृभिः प्रेर्यते खलु ॥


उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ मं॒द्राज॑नी चोदते अं॒तरा॒सनि॑ ।

पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मांद्र॒प्सः परि॒ वार॑मर्षति ॥२

उपो॒ इति॑ । म॒तिः । पृ॒च्यते॑ । सि॒च्यते॑ । मधु॑ । म॒न्द्र॒ऽअज॑नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि॑ ।

पव॑मानः । स॒म्ऽत॒निः । प्र॒घ्न॒ताम्ऽइ॑व । मधु॑ऽमान् । द्र॒प्सः । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥

उपो इति । मतिः । पृच्यते । सिच्यते । मधु । मन्द्रऽअजनी । चोदते । अन्तः । आसनि ।

पवमानः । सम्ऽतनिः । प्रघ्नताम्ऽइव । मधुऽमान् । द्रप्सः । परि । वारम् । अर्षति ॥

अस्मिन् पवमानरूप इन्द्रे "मतिः स्तुतिः “उपो “पृच्यते उपपृच्यते स्तोतृभिः संयोज्यते । ‘ पृची संपर्के'। तथा “मधु मदकरः सोमः इन्द्रार्थं “सिच्यते अद्भिः यवसक्तुभिश्च सिक्तो भवति । ततश्च "मन्द्राजनी। अज गतिक्षेपणयोः' इत्यस्य ल्युटि ङीपि रूपम्। मदकरस्य रसस्य प्रेरयित्री सोमधारा तस्येन्द्रस्य “आसनि आस्ये “अन्तः मध्ये “चोदते यष्टृभिः प्रेर्यते । आस्यशब्दस्य ‘ पद्दन्नोमास्°' इत्यादिना आसन्नित्यादेशः । किंच “संतनिः ग्रहादिषु सम्यग्विस्तृतः "मधुमान् मदकररसवान् "पवमानः पूयमानः सोमः “द्रप्सः द्रुतगमनशीलो यद्वा क्षिप्रंहननशीलः सन् “वारम् अविवालमयं पवित्रं परितः "अर्षति आगच्छति । तत्र दृष्टान्तः । “प्रघ्नतामिव । प्रकर्षेण हन्तॄणां योद्धॄणां संतनिः सम्यग्विसृष्टः शरो यथा शीघ्रं प्राप्यमभितो गच्छति तद्वत् ॥


अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेर्ऋ॒तं य॒ते ।

हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥३

अव्ये॑ । व॒धू॒ऽयुः । प॒व॒ते॒ । परि॑ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि॑तेः । ऋ॒तम् । य॒ते ।

हरिः॑ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्ऽय॒तः । मदः॑ । नृ॒म्णा । शिशा॑नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥

अव्ये । वधूऽयुः । पवते । परि । त्वचि । श्रथ्नीते । नप्तीः । अदितेः । ऋतम् । यते ।

हरिः । अक्रान् । यजतः । सम्ऽयतः । मदः । नृम्णा । शिशानः । महिषः । न । शोभते ॥

“वधूयुः । वधूभूता वसतीवर्य एकधनासहिता आपः । तद्वान् सोमः "अव्ये अवेः स्वभूते “त्वचि चर्मणि "परि “पवते परितो वर्तते पूतो भवति वा । किंच "नप्तीः नप्त्रीः । नप्तृशब्दश्चतुर्थापत्यवाची । सोमस्य नप्त्रीः । सोमो ह्योषधीनामग्रे रेतो निषिञ्चति । ‘प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधयः' (ऐ. आ. २.१.३ ) इति श्रुतेः । यद्वा । नप्तृशब्दोऽपत्यवाची । तस्यापत्यानि । सोमः सुधामयैः स्वकिरणैरोषधीर्वर्धयति । तस्मादपत्यभूताः। “अदितेः। पृथिवीनामैतत् । अदीनायाः पृथिव्या उत्पन्ना ओषधीः “ऋतं सत्यरूपं यज्ञं "यते गच्छते यजमानाय “श्रथ्नीते अग्रभागे फलिनीः कर्तुं विश्लेषयति । किंच "हरिः हरितवर्णः "यजतः सर्वैर्यष्टव्यः अत एव "संयतः ग्रहादिषु संगृहीतः "मदः। माद्यत्यनेनेति मदः सोमः । तादृशः “अक्रान् क्रामति । पात्रेष्ववतिष्ठते । यद्वा । शत्रूनतिक्रामति । क्रमेर्लुङि तिपि ‘बहुलं छन्दसि' इति इडागमाभावाद्वृद्धौ कृतायां सिज्लोपे सति हल्ङ्यादिना तिपो लोपे ‘मो नो धातोः' इति नत्वे कृते रूपम् । अत एव सोमः "नृम्णा स्वबलानि “शिशानः तीक्ष्णीकुर्वन् । अथवा शत्रुबलानि तनूकुर्वन् । "महिषो "न । महन्नामैतत् । महानिव सर्वत्र व्याप्त इव "शोभते स्वतेजसा सर्वत्र दीप्यते । यद्वा । नः संप्रत्यर्थे । इदानीमेवंगुणयुक्तो महान् सोमः शोभत इति ॥


उ॒क्षा मि॑माति॒ प्रति॑ यंति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यंति निष्कृ॒तं ।

अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥४

उ॒क्षा । मि॒मा॒ति॒ । प्रति॑ । य॒न्ति॒ । धे॒नवः॑ । दे॒वस्य॑ । दे॒वीः । उप॑ । य॒न्ति॒ । निः॒ऽकृ॒तम् ।

अति॑ । अ॒क्र॒मी॒त् । अर्जु॑नम् । वार॑म् । अ॒व्यय॑म् । अत्क॑म् । न । नि॒क्तम् । परि॑ । सोमः॑ । अ॒व्य॒त॒ ॥

उक्षा । मिमाति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निःऽकृतम् ।

अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यत ॥

“उक्षा रेतसः सेक्ता वृषभः पुरतः “मिमाति शब्दायते । 'माङ् माने शब्दे च ' । तं वृषभं “धेनवः गावः “प्रति "यन्ति अनुगच्छन्ति । तथा “देवस्य द्योतमानस्य “निष्कृतं संस्कृतं स्थानं “देवीः देव्यः “उप "यन्ति उपगच्छन्ति । अनेनार्धेन सोमस्तुतिश्चाभिधीयते । सोमः सन् द्रोणकलशाभिगमनकाले शब्दं करोति। तमनु धेनवः प्रीणयित्र्यः स्तुतयः पारियन्ति देवस्य स्थानं स्तुतयोऽभिगच्छन्ति । तथा सोऽयं सोमः "अर्जुनं श्वेतवर्णम् "अव्ययम् अविमयमविस्वभूतं "वारं वालं पवित्रम् "अत्यक्रमीत् अतिक्रामति । अतिक्रम्य पात्राणि गच्छतीत्यर्थः । किंच "सोमः "अत्कं "न आत्मीयं कवचमिव "निक्तम् उज्ज्वलं श्रयणद्रव्यं "परि "अव्यत परितः संवृणोति ॥


अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत ।

दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मयं॑ ॥५

अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ ।

दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥

अमृक्तेन । रुशता । वाससा । हरिः । अमर्त्यः । निःऽनिजानः । परि । व्यत ।

दिवः । पृष्ठम् । बर्हणा । निःऽनिजे । कृत । उपऽस्तरणम् । चम्वोः । नभस्मयम् ॥

"अमर्त्यः मनुष्यधर्मरहितः "हरिः हरितवर्णः सोमः “निर्णिजानः उदकेन शोध्यमानः सन् “अमृक्तेन । ‘मृजी शौचालंकारयोः' । अनिर्णिक्तेनापि “रुशता स्वतः शुक्लवर्णेन पयोरूपेण “वाससा “परि “व्यत परित आच्छादयति । सोमे परिपूते गव्येन पयसा मिश्रीकुर्वन्ति खलु । तदुच्यते । ततः सोऽयं सोमः “दिवः द्युलोकस्य "पृष्ठं पृष्ठभागे तिष्ठन्तमादित्यं "बर्हणा बर्हणाय पापानामुद्यमनकारिणे पापनाशिने “निर्निजे निर्नेजनाय परिपवनाय “कृत द्युलोकेऽकार्षीत् । स हि स्वदीप्त्या सर्वं निर्णेक्ति । कृत । कृणोतेर्लुङि ‘ह्रस्वात्' इति सिचो लोपः । तदेवाह । "चम्वोः । द्यावापृथिवीनामैतत् । चमन्ति भक्षयन्त्यत्र देवा मनुष्या इति । तयोः "उपस्तरणम् आच्छादनशीलं "नभस्मयम् आदित्यमयमादित्यस्य स्वभूतं तेजश्च सर्वेषां निर्णेजनाय अकार्षीत् ॥ ॥ २१ ॥


सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी॑रते ।

तंतुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेंद्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥६

सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ ।

तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥

सूर्यस्यऽइव । रश्मयः । द्रवयित्नवः । मत्सरासः । प्रऽसुपः । साकम् । ईरते ।

तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । चन ॥

“सूर्यस्य "रश्मयः सर्वस्य प्रेरकस्य सुवीर्यस्य वादित्यस्य रश्मयः सर्वतो व्यापकाः किरणाः “इव “द्रावयित्नवः सर्वत्रद्रवणशीलाः “मत्सरासः मदकराः "प्रसुपः शत्रूणां प्रस्वापका हन्तारः “आशवः ग्रहेषु चमसेषु च व्याप्ताः "सर्गासः सृज्यमानाः सोमाः “ततं विस्तृतं "तन्तुं तन्तुभिः कृतं वस्त्रं “साकं सह युगपत् "परि “ईरते परितो गच्छन्ति । ते सोमाः "इन्द्रादृते इन्द्रं वर्जयित्वा अन्यत् "किं “चन “धाम देवशरीरं लक्षीकृत्य “न “पवते न गच्छति। एकवचनं छान्दसम् । न गच्छन्ति । किंत्विन्द्रस्यैव धाम प्रति गच्छन्ति । इन्द्रस्य धाम्नो यष्टव्यत्वं च ' अयाळिन्द्रस्य प्रिया धामानि ' (वा. सं. २१.४७ ) इति मन्त्रवर्णादवगम्यते ॥


सिंधो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत ।

शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः॑ सोम तिष्ठंतु कृ॒ष्टयः॑ ॥७

सिन्धोः॑ऽइव । प्र॒व॒णे । नि॒म्ने । आ॒शवः॑ । वृष॑ऽच्युताः । मदा॑सः । गा॒तुम् । आ॒श॒त॒ ।

शम् । नः॒ । नि॒ऽवे॒शे । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । अ॒स्मे इति॑ । वाजाः॑ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥

सिन्धोःऽइव । प्रवणे । निम्ने । आशवः । वृषऽच्युताः । मदासः । गातुम् । आशत ।

शम् । नः । निऽवेशे । द्विऽपदे । चतुःऽपदे । अस्मे इति । वाजाः । सोम । तिष्ठन्तु । कृष्टयः ॥

“वृषच्युताः । वृष हिंसासंक्लेशनदानेष्वपि । वृषभिः सोमस्य दातृभिर्ऋत्विग्भिश्युनदताः परिस्रुताः “मदासः मदकारिणः सोमाः स्तुतिभिः प्राप्तव्य इन्द्रे “गातुं गमनम् "आशत प्राप्नुवन्ति । तत्र दृष्टान्तः । "सिन्धोरिव “प्रवणे । प्रगच्छन्त्युदकानि यत्रेति तत्प्रवणम् । तस्मिन् “निम्ने स्थले सिन्धोर्नद्याः “आशवः व्याप्ता आपो यथा गच्छन्ति तद्वत् । अथ प्रत्यक्षः। हे “सोम “नः अस्माकं “निवेशे स्वगृहं प्रति प्रवेशने निर्गमने वा “द्विपदे पुत्रादिकाय "चतुष्पदे गवादिकाय पशवे “शं सुखं कुरु । किंच हे सोम “अस्मे अस्मासु “वाजाः अन्नानि “कृष्टयः पुत्रादिकाः प्रजाश्च “तिष्ठन्तु । अन्नादिकं देहीत्यर्थः ॥


आ नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्यं॑ ।

यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ॥८

आ । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । सु॒ऽवीर्य॑म् ।

यू॒यम् । हि । सो॒म॒ । पि॒तरः॑ । मम॑ । स्थन॑ । दि॒वः । मू॒र्धानः॑ । प्रऽस्थि॑ताः । व॒यः॒ऽकृतः॑ ॥

आ । नः । पवस्व । वसुऽमत् । हिरण्यऽवत् । अश्वऽवत् । गोऽमत् । यवऽमत् । सुऽवीर्यम् ।

यूयम् । हि । सोम । पितरः । मम । स्थन । दिवः । मूर्धानः । प्रऽस्थिताः । वयःऽकृतः ॥

हे सोम त्वं "वसुमत् वसुयुक्तं “हिरण्यवत् कनकादिसहितम् "अश्ववत् “गोमत् गवाश्वसहितं “यवमत् । यवो नाम धान्यविशेषः। धान्यविशिष्टं "सुवीर्यं शोभनवीर्योपेतं धनं "नः अस्मभ्यम् “आ “पवस्व आप्रापय । प्रयच्छेति यावत् । किंच हे "सोम यतस्त्वं मम पितॄणामङ्गिरसामपि पितासि ततो "यूयम् एव “मम "पितरः "स्थन भवथ । पितृबहुत्वमत्र सोमस्याभिधीयते । कीदृशाः । “दिवः द्युलोकस्य "मूर्धानः मूर्धवदुच्छ्रिताः । कर्मभिः स्वर्गादिकमलभन्तेत्यर्थः । "प्रस्थिताः सर्वदा कर्मकरणार्थं स्थिताः “वयस्कृतः हवीरूपस्यान्नस्य कर्तारः । तादृशा मम पितरस्त्वं भवसि । ।


ए॒ते सोमाः॒ पव॑मानास॒ इंद्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ ।

सु॒ताः प॒वित्र॒मति॑ यं॒त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥९

ए॒ते । सोमाः॑ । पव॑मानासः । इन्द्र॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒तिम् । अच्छ॑ ।

सु॒ताः । प॒वित्र॑म् । अति॑ । य॒न्ति॒ । अव्य॑म् । हि॒त्वी । व॒व्रिम् । ह॒रितः॑ । वृ॒ष्टिम् । अच्छ॑ ॥

एते । सोमाः । पवमानासः । इन्द्रम् । रथाःऽइव । प्र । ययुः । सातिम् । अच्छ ।

सुताः । पवित्रम् । अति । यन्ति । अव्यम् । हित्वी । वव्रिम् । हरितः । वृष्टिम् । अच्छ ॥

"पवमानासः पवित्रेण पूयमानाः “एते अस्मदीयाः "सोमाः "सातिम् । ‘षण संभक्तौ । कर्मणि क्तिन् । सर्वैः संभजनीयम् "इन्द्रम् "अच्छ “प्र “ययुः प्रकर्षेण गच्छन्ति । तत्र दृष्टान्तः । "रथाइव । इन्द्रस्य रथा यथा "सातिम् । ‘षो अन्तकर्मणि' । ऊतियूति' इत्यादिना निपातितः । सीयते म्रियतेऽस्मिन्निति सातिः संग्रामः । तमच्छ तं प्रति प्रगच्छन्ति तद्वत् । किंच "सुताः ग्रावभिरभिषुताः सोमाः "अव्यम् अविवालभवं "पवित्रम् "अति "यन्ति अतीत्य गच्छन्ति । तेऽमी “हरितः हरितवर्णा अश्वाः । यद्वा । हरितस्त आदित्यवाहनरूपा अश्वा भूत्वा । “वव्रिम् । वृणोति शरीरमिति वव्रिर्जरा । ‘ आदृगमहन इति किप्रत्ययः । सर्वाङ्गव्यापिनीं जरां “हित्वी हित्वा तरुणाः सन्तः “वृष्टिमच्छ वृष्टिं गमयितुं गच्छन्ति । हित्वी। ‘जहातेश्च क्त्वि' (पा. सू. ७.४. ४३ ) इति ह्यादेशः । ‘ स्नात्व्यादयश्च' इति छन्दसि निपातितम् ॥


इंद॒विंद्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादाः॑ ।

भरा॑ चं॒द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥१०

इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ ।

भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

इन्दो इति । इन्द्राय । बृहते । पवस्व । सुऽमृळीकः । अनवद्यः । रिशादाः ।

भर । चन्द्राणि । गृणते । वसूनि । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥

हे “इन्दो सोम त्वं “बृहते महते “इन्द्राय तदर्थं "पवस्व पात्रेषु क्षर । इन्द्र प्रत्यागच्छ वा । कीदृशः । "सुमृळीकः इन्द्रस्य सुष्ठु सुखयिता अत एव "अनवद्यः गर्हारहितः "रिशादाः रिशतां बाधकानामसिता । एतादृशस्त्वमिन्द्राय पवस्व । किंच “गृणते स्तुवते मह्यं "चन्द्राणि आह्लादकानि “वसूनि धनानि "भर प्रयच्छ। किंच हे "द्यावापृथिवी युवां च पवमानेन परिप्लुते सत्यौ “देवैः सुभगैर्धनैः सह “नः अस्मान् "प्रावतं प्ररक्षतम् ॥ ॥ २२ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६९&oldid=179254" इत्यस्माद् पुनः प्राप्तिः