ऋग्वेदः सूक्तं ९.८४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.८३ ऋग्वेदः - मण्डल ९
सूक्तं ९.८४
वाच्यः प्रजापतिः।
सूक्तं ९.८५ →
दे. पवमानः सोमः। जगती।


पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे ।
कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥१॥
आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति ।
कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥२॥
आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः ।
आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥३॥
एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् ।
इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥४॥
अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् ।
धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥५॥


सायणभाष्यम्

‘ पवस्व देवमादनः' इति पञ्चर्चं सप्तदशं सूक्तं वाचः पुत्रस्य प्रजापतेरार्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- पवस्व वाच्यः प्रजापतिः' इति । गतो विनियोगः ॥


पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इंद्रा॑य॒ वरु॑णाय वा॒यवे॑ ।

कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जनं॑ ॥१

पव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ ।

कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥

पवस्व । देवऽमादनः । विऽचर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे ।

कृधि । नः । अद्य । वरिवः । स्वस्तिऽमत् । उरुऽक्षितौ । गृणीहि । दैव्यम् । जनम् ॥

हे सोम “देवमादनः देवानां मादयिता “विचर्षणिः विद्रष्टा “अप्साः अपां दाता त्वं "पवस्व क्षर । कस्मै । "इन्द्राय "वरुणाय “वायवे च । "नः अस्माकं "वरिवः धनं "स्वस्तिमत् । स्वस्तीत्यविनाशनाम । तद्वद्धनं "कृधि कुरु । "उरुक्षितौ विस्तीर्णायां भूमौ यज्ञसंबन्धियां “दैव्यं "जनं देवसंबन्धिनं संघम् । जनशब्दः संघवाची । तं "गृणीहि । गृणातिः शब्दकर्मा । शब्दय । यथा त्वदीयाभिषवशब्दं श्रुत्वा देवा आगच्छन्ति तथा गृणीहीत्यर्थः । अथवा दैव्यं जनमित्यृषिः स्वात्मानमाह । देवसंबन्धिनं जनं मां गृणीहि साधुसंभक्ता इति शब्दय ॥


आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति ।

कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इंदुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥२

आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ ।

कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥

आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति ।

कृण्वन् । सम्ऽचृतम् । विऽचृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः ॥

"यः "अमर्त्यः देवः "सोमः "भुवनानि लोकान् “आ “तस्थौ आस्थितवान् "तानि "विश्वानि सर्वाणि भुवनानि “परि “अर्षति परितो गच्छति । परितो रक्षतीत्यर्थः । सोऽयम् "इन्दुः यज्ञं यजमानं वा "संचृतं देवैः फलैर्वा संबद्धं "कृण्वन् कुर्वन् "विचृतम् असुरादिभिर्दुःखैर्वा विमुक्तं “कृण्वन् अभितो यागाय “सिषक्ति सेवते यज्ञम् । “उषसं "न "सूर्यः। सूर्य उषसमिव यथा “अभिष्टये अभितो गमनाय प्राणिनां संचृतं प्रकाशैः संयुक्तं विचृतं तमोभिर्विमुक्तं च लोकं कुर्वन्नुषसं सेवते तद्वत् ॥


आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः ।

आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इंद्रं॒ सोमो॑ मा॒दयं॒दैव्यं॒ जनं॑ ॥३

आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः ।

आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥

आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः ।

आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥

"यः सोमः "गोभिः रश्मिभिः “आ “सृज्यते "ओषधीषु । यं सोमं स्थापयन्तीत्यर्थः । किमर्थम् । "देवानां "सुम्ने सुखे निमित्ते सति । कीदृशोऽयम्। "इषयन् देवान् प्राप्तुमिच्छन् । इष गतौ'। धनमिच्छन् वा । तथा “उपावसुः शत्रुभ्यः सकाशात् प्राप्तधनः । सः "सोमः "विद्युता विद्योतमानया “धारया “आ “पवते "सुतः सन् । किं कुर्वन् । "दैव्यं देवस्वामिनम् "इन्द्रं "मादयन् ॥


ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुधं॑ ।

इंदुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेंद्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥४

ए॒षः । स्यः । सोमः॑ । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । हि॒न्वा॒नः । वाच॑म् । इ॒षि॒राम् । उ॒षः॒ऽबुध॑म् ।

इन्दुः॑ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒युऽभिः॑ । आ । इन्द्र॑स्य । हार्दि॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥

एषः । स्यः । सोमः । पवते । सहस्रऽजित् । हिन्वानः । वाचम् । इषिराम् । उषःऽबुधम् ।

इन्दुः । समुद्रम् । उत् । इयर्ति । वायुऽभिः । आ । इन्द्रस्य । हार्दि । कलशेषु । सीदति ॥

“एष "स्यः सः "सोमः "पवते पूयते । कीदृश एषः । "सहस्रजित् सहस्रस्य जेता । किं कुर्वन् । “वाचम् ऋत्विजां स्तुतिरूपां वाचं “हिन्वानः प्रेरयन् । कीदृशीं वाचम् । "इषिरां गमनशीलां स्तुत्यं प्रति गन्त्रीम् "उषर्बुधम् उषसि प्रबुद्धाम् । सोऽयम् "इन्दुः सोमः "समुद्रं समुद्रियं रसम् "उदियर्ति उद्गमयति “वायुभिः गन्तृभिरध्वर्य्वादिभिः वायुभिरेव वा प्रेर्यमाणः सन् । तथा “इन्द्रस्य "हार्दि । हार्दं प्रियम् । तद्धार्दि इन्द्रस्य प्रियवद्यथा भवति तथा "कलशेषु द्रोणकलशप्रभृतिषु “आ “सीदति ॥


अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणंति म॒तिभिः॑ स्व॒र्विदं॑ ।

ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥५

अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् ।

ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥

अभि । त्यम् । गावः । पयसा । पयःऽवृधम् । सोमम् । श्रीणन्ति । मतिऽभिः । स्वःऽविदम् ।

धनम्ऽजयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःऽचनाः ॥

“त्यं तं “पयोवृधं पयसो वर्धकं "सोमं "गावः "पयसा स्वकीयेन क्षीरेण "श्रीणन्ति श्रयणं कुर्वन्ति । यः “मतिभिः स्तुतिभिः सर्वं प्रयच्छति तं "स्वर्विदं सोमं श्रीणन्ति । सः “धनंजयः शत्रुधनानां जेता सोमः "काव्येन कर्मणा "पवते पूयते । कीदृशः सः । "कृत्व्यः कर्मण्यः "रसः रसरूपः “विप्रः मेधावी “कविः क्रान्तप्रज्ञः "स्वर्चनाः सर्वान्नः । चन इत्यन्ननाम ॥ ॥ ९ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८४&oldid=179431" इत्यस्माद् पुनः प्राप्तिः