ऋग्वेदः सूक्तं ९.२१
← सूक्तं ९.२० | ऋग्वेदः - मण्डल ९ सूक्तं ९.२१ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.२२ → |
दे. पवमानः सोमः। गायत्री। |
एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
मत्सरासः स्वर्विदः ॥१॥
प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
स्वयं स्तोत्रे वयस्कृतः ॥२॥
वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् ।
सिन्धोरूर्मा व्यक्षरन् ॥३॥
एते विश्वानि वार्या पवमानास आशत ।
हिता न सप्तयो रथे ॥४॥
आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे ।
यो अस्मभ्यमरावा ॥५॥
ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।
शुक्राः पवध्वमर्णसा ॥६॥
एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत ।
सतः प्रासाविषुर्मतिम् ॥७॥
सायणभाष्यम्
"एते धावन्ति' इति सप्तर्चमेकविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एते धावन्ति' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ए॒ते धा॑व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥१
ए॒ते । धा॒व॒न्ति॒ । इन्द॑वः । सोमाः॑ । इन्द्रा॑य । घृष्व॑यः ।
म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥१
एते । धावन्ति । इन्दवः । सोमाः । इन्द्राय । घृष्वयः ।
मत्सरासः । स्वःऽविदः ॥१
"एते “सोमाः “इन्द्राय “धावन्ति गच्छन्ति । कीदृशा एते । “इन्दवः क्लेदयितारो दीप्ता वा “घृष्वयः घर्षणशीलाः “मत्सरासः मादयितारः “स्वर्विदः स्वर्लोकस्य लम्भयितारः ।।
प्र॒वृ॒ण्वन्तो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।
स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥२
प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ ।
स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥२
प्रऽवृण्वन्तः । अभिऽयुजः । सुस्वये । वरिवःऽविदः ।
स्वयम् । स्तोत्रे । वयःऽकृतः ॥२
“प्रवृण्वन्तः सुवानं प्रकर्षेण संभजन्तः तथा “अभियुजः अभियोजयितारः "सुष्वये सुष्ठु अभिषवकर्त्रे “वरिवोविदः । ‘ वरिवः' इति धननाम । तस्य लम्भयितारः “स्वयं “स्तोत्रे “वयस्कृतः अन्नस्य कर्तारः । एते धावन्तीति संबन्धः ॥
वृथा॒ क्रीळं॑त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥३
वृथा॑ । क्रीळ॑न्तः । इन्द॑वः । स॒धऽस्थ॑म् । अ॒भि । एक॑म् । इत् ।
सिन्धोः॑ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥३
वृथा । क्रीळन्तः । इन्दवः । सधऽस्थम् । अभि । एकम् । इत् ।
सिन्धोः । ऊर्मा । वि । अक्षरन् ॥३
“वृथा अनायासेन “क्रीळन्तः “इन्दवः सोमाः “एकमित् एकमेव “सधस्थं सहस्थानं द्रोणकलशं वा “अभि अक्षरन्निति शेषः । “सिन्धोरूर्मा वसतीवरीषु “व्यक्षरन् ।।
ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
हि॒ता न सप्त॑यो॒ रथे॑ ॥४
ए॒ते । विश्वा॑नि । वार्या॑ । पव॑मानासः । आ॒श॒त॒ ।
हि॒ताः । न । सप्त॑यः । रथे॑ ॥४
एते । विश्वानि । वार्या । पवमानासः । आशत ।
हिताः । न । सप्तयः । रथे ॥४
“एते सोमाः “पवमानासः पूयमानाः “विश्वानि “वार्या “वार्याणि वरणीयानि धनानि “आशत व्याप्नुवन् । “रथे “हिताः स्थापिताः “नः “सप्तयः अश्वा इव । ते यथा रथमभिमतं देशं प्राप्नुवन्ति तद्वद्धनमस्माकं प्रायच्छन्नित्यर्थः ॥
आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
यो अ॒स्मभ्य॒मरा॑वा ॥५
आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्द॒वः॒ । दधा॑त । वे॒नम् । आ॒ऽदिशे॑ ।
यः । अ॒स्मभ्य॑म् । अरा॑वा ॥५
आ । अस्मिन् । पिशङ्गम् । इन्दवः । दधात । वेनम् । आऽदिशे ।
यः । अस्मभ्यम् । अरावा ॥५
हे 'इन्दवः सोमाः “अस्मिन् यजमाने “पिशङ्गं बहुरूपं मणिमुक्ताहिरण्यादिभेदेन नानारूपं “वेनं कामयन्तं बहुविधं कामम् “आदिशे अस्मभ्यमादेशनाय “आ “दधात आयच्छतः । “यः यजमानः “अस्मभ्यम् "अरावा ----- प्रयच्छति प्राप्तकाम एव खलु ऋत्विग्भ्यः प्रयच्छति ॥
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
शु॒क्राः प॑वध्व॒मर्ण॑सा ॥६
ऋ॒भुः । न । रथ्य॑म् । नव॑म् । दधा॑त । केत॑म् । आ॒ऽदिशे॑ ।
शु॒क्राः । प॒व॒ध्व॒म् । अर्ण॑सा ॥६
ऋभुः । न । रथ्यम् । नवम् । दधात । केतम् । आऽदिशे ।
शुक्राः । पवध्वम् । अर्णसा ॥६
“ऋभुर्न उरु भासमानो रथस्वामीव स यथा “रथ्यं रथस्य नेतारं “नवं स्तुत्यं कुशलं सारथिनमग्र आधत्ते तद्वदस्मदीयेऽस्मिन् “आदिशे स्वामिनि "केतं प्रज्ञानं “दधात स्थापयत । हे सोमाः योऽस्मभ्यं प्रयच्छति तस्मिन्नित्यर्थः। हे सोमाः "अर्णसा उदकेन “शुक्राः दीप्ताः सन्तः “पवध्वं क्षरध्वम्॥
ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
स॒तः प्रासा॑विषुर्म॒तिम् ॥७
ए॒ते । ऊं॒ इति॑ । त्ये । अ॒वी॒व॒श॒न् । काष्ठा॑म् । वा॒जिनः॑ । अ॒क्र॒त॒ ।
स॒तः । प्र । अ॒सा॒वि॒षुः॒ । म॒तिम् ॥७
एते । ऊं इति । त्ये । अवीवशन् । काष्ठाम् । वाजिनः । अक्रत ।
सतः । प्र । असाविषुः । मतिम् ॥७
“त्ये ते “एत “उ एत एव सोमाः “अवीवशन् कामयन्ते यज्ञम् । कान्त्वा च “वाजिनः बलवन्तोऽन्नवन्तो वा सोमाः “काष्ठाम् “अक्रत निवासस्थानमकुर्वन् । द्रोणकलशादुद्गता ग्रहानित्यर्थः। “सतः यजमानस्य-स्तोतुर्वा “मतिं बुद्धिं स्तुतिं वा “प्रासाविषुः प्रैरयन् ॥ ॥ ११ ॥
मण्डल ९ | |||
---|---|---|---|