ऋग्वेदः सूक्तं ९.२२
← सूक्तं ९.२१ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२२ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.२३ → |
दे. पवमानः सोमः। गायत्री। |
एते सोमास आशवो रथा इव प्र वाजिनः ।
सर्गाः सृष्टा अहेषत ॥१॥
एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
अग्नेरिव भ्रमा वृथा ॥२॥
एते पूता विपश्चितः सोमासो दध्याशिरः ।
विपा व्यानशुर्धियः ॥३॥
एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
इयक्षन्तः पथो रजः ॥४॥
एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ।
उतेदमुत्तमं रजः ॥५॥
तन्तुं तन्वानमुत्तममनु प्रवत आशत ।
उतेदमुत्तमाय्यम् ॥६॥
त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
ततं तन्तुमचिक्रदः ॥७॥
सायणभाष्यम्
"एते सोमासः' इति सप्तर्चं द्वाविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एते सोमासः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।
सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥१
ए॒ते । सोमा॑सः । आ॒शवः॑ । रथाः॑ऽइव । प्र । वा॒जिनः॑ ।
सर्गाः॑ । सृ॒ष्टाः । अ॒हे॒ष॒त॒ ॥१
एते । सोमासः । आशवः । रथाःऽइव । प्र । वाजिनः ।
सर्गाः । सृष्टाः । अहेषत ॥१
"एते पूयमानाः “सोमासः सोमाः “सृष्टाः अध्वर्युणा आशवः दशापवित्रादधोगमने शीघ्राः “प्र “अहेषत प्रहेषन्ते । शीघ्रगमने दृष्टान्तद्वयम् । आजौ सृष्टाः शीघ्राः “रथाइव तथोक्तलक्षणाः “वाजिनः इव वेजनवन्तोऽश्वा इव।।
ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।
अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥२
ए॒ते । वाताः॑ऽइव । उ॒रवः॑ । प॒र्जन्य॑स्यऽइव । वृ॒ष्टयः॑ ।
अ॒ग्नेःऽइ॑व । भ्र॒माः । वृथा॑ ॥२
एते । वाताःऽइव । उरवः । पर्जन्यस्यऽइव । वृष्टयः ।
अग्नेःऽइव । भ्रमाः । वृथा ॥२
“एते सोमाः “उरवः महान्तः “वाताइव वायव इव “वृथा अनायासेन व्यानशुः इत्युत्तरत्र संबन्धनीयम् । अथवाध्याहारेण निःसरन्तीति योज्यम् । तथा “पर्जन्यस्य “वृष्टयः “इव वर्षा यथा तथैव । किंच “अग्नेः “भ्रमाः भ्रमणा ज्वालासंचाराः “इव ॥
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।
वि॒पा व्या॑नशु॒र्धियः॑ ॥३
ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।
वि॒पा । वि । आ॒न॒शुः॒ । धियः॑ ॥३
एते । पूताः । विपःऽचितः । सोमासः । दधिऽआशिरः ।
विपा । वि । आनशुः । धियः ॥३
"एते “सोमासः सोमाः “पूताः शुद्धाः “विपश्चितः प्राज्ञाः “दध्याशिरः दध्याश्रयणाः “विपा प्रज्ञानेन “धियः अस्मदीयानि कर्माणि “व्यानशुः व्याप्नुवन्ति ।।
ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।
इय॑क्षंतः प॒थो रजः॑ ॥४
ए॒ते । मृ॒ष्टाः । अम॑र्त्याः । स॒सृ॒ऽवांसः॑ । न । श॒श्र॒मुः॒ ।
इय॑क्षन्तः । प॒थः । रजः॑ ॥४
एते । मृष्टाः । अमर्त्याः । ससृऽवांसः । न । शश्रमुः ।
इयक्षन्तः । पथः । रजः ॥४
“एते सोमाः “मृष्टाः दशापवित्रेण शोधिताः “अमर्त्याः अमरणधर्माणः “ससृवांसः हविर्धानात् सरन्तः “पथः मार्गान् “रजः लोकांश्च “इयक्षन्तः गन्तुमिच्छन्तः “न “शश्रमुः न श्राम्यन्ति ॥
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यंतो॒ व्या॑नशुः ।
उ॒तेदमु॑त्त॒मं रजः॑ ॥५
ए॒ते । पृ॒ष्ठानि॑ । रोद॑सोः । वि॒ऽप्र॒यन्तः॑ । वि । आ॒न॒शुः॒ ।
उ॒त । इ॒दम् । उ॒त्ऽत॒मम् । रजः॑ ॥५
एते । पृष्ठानि । रोदसोः । विऽप्रयन्तः । वि । आनशुः ।
उत । इदम् । उत्ऽतमम् । रजः ॥५
“एते सोमाः “रोदसो: द्यावापृथिव्योः “पृष्ठानि “विप्रयन्तः विविधं गच्छन्तः “व्यानशुः व्याप्नुवन्ति । "उत अपि च “इदमुत्तमं “रजः द्युलोकं व्यानशुः । आहुतिद्वारेणेति भावः । रोदसोरित्यत्रान्तरिक्षोऽभिप्रेतः ।।
तंतुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।
उ॒तेदमु॑त्त॒माय्यं॑ ॥६
तन्तु॑म् । त॒न्वा॒नम् । उ॒त्ऽत॒मम् । अनु॑ । प्र॒ऽवतः॑ । आ॒श॒त॒ ।
उ॒त । इ॒दम् । उ॒त्त॒माय्य॑म् ॥६
तन्तुम् । तन्वानम् । उत्ऽतमम् । अनु । प्रऽवतः । आशत ।
उत । इदम् । उत्तमाय्यम् ॥६
“तन्तुं यज्ञं “तन्वानम् “उत्तमम् उत्कृष्टं सोमम् “अनु “आशत “प्रवतः नद्यः । “उत अपि च “इदं कर्म अनेन सोमेन “उत्तमाय्यम् उत्तमीकृतम्। अथवा तन्तुं तन्वानं सोमं प्रवतोऽधःस्थिताः सर्वा अन्वाशत । उतेदमुत्तमाख्यं रजः । द्युलोक इत्यर्थः । सोऽप्यन्वश्नुते पृथिव्या चान्तरिक्षेण च । उत्तमीकृतमुत्तमाय्यम् ॥
त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।
त॒तं तंतु॑मचिक्रदः ॥७
त्वम् । सो॒म॒ । प॒णिऽभ्यः॑ । आ । वसु॑ । गव्या॑नि । धा॒र॒यः॒ ।
त॒तम् । तन्तु॑म् । अ॒चि॒क्र॒दः॒ ॥७
त्वम् । सोम । पणिऽभ्यः । आ । वसु । गव्यानि । धारयः ।
ततम् । तन्तुम् । अचिक्रदः ॥७
हे "सोम “त्वं “पणिभ्यः असुरेभ्यो लुब्धकेभ्यो वा सकाशात् “गव्यानि गोहितानि “वसु वसूनि गोयूथानि वसूनि चेति वा “आ आहृत्य “धारयः धारयसि । तथा “तन्तुं यज्ञं प्रति “ततं विस्तृतं यथा भवति तथा “अचिक्रदः शब्दमकार्षीः ॥ ॥ १२ ॥
मण्डल ९ | |||
---|---|---|---|