ऋग्वेदः सूक्तं ९.९७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.९६ ऋग्वेदः - मण्डल ९
सूक्तं ९.९७
[[लेखकः :|]]
सूक्तं ९.९८ →
ऋषि- १-३ मैत्रावरुणिर्वसिष्ठः, ४-६ वासिष्ठ इन्द्रप्रमतिः, ७-९ वासिष्ठो वृषगणः, १०-१२ वासिष्ठो मन्युः*, १३-१५ वासिष्ठ उपमन्युः**, १६-१८वासिष्ठो व्याघ्रपाद्, १९-२१ वासिष्ठः शक्तिः, २२-२४ वासिष्ठः कर्णश्रुद्, २५-२७ वासिष्ठो मृळीकः, २८-३० वासिष्ठो वसुक्रः, ३१-४४ पराशरः शाक्त्यः, ४५-५८ कुत्स आङ्गिरसः।

दे. पवमानः सोमः। त्रिष्टुप्


अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥१॥
भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् ।
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥२॥
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥३॥
प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय ।
स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥४॥
इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय ।
नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥५॥
स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय ।
देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥६॥
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥७॥
प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।
आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥८॥
स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः ।
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥९॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥१०॥
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥११॥
अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् ।
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥१२॥
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् ।
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥१३॥
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् ।
पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥१४॥
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः ।
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥१५॥
जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् ।
घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥१६॥
वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् ।
स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून् ॥१७॥
ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम ।
अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥१८॥
जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये ।
सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥१९॥
अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।
एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै ॥२०॥
एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु ।
सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥२१॥
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके ।
आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥२२॥
प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः ।
धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥२३॥
पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् ।
द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥२४॥
अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष ।
स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥२५॥
देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः ।
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥२६॥
एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥२७॥
अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् ।
अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥२८॥
शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति ।
इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥२९॥
दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः ।
पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥३०॥
प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् ।
पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥३१॥
कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम ।
स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥३२॥
दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ ।
एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥३३॥
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् ।
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः॥३४॥
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥३५॥
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिम् ॥३६॥
आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु ।
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥३७॥
स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥३८॥
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् ।
येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥३९॥
अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ।
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥४०॥
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥४१॥
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥४२॥
ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च ।
अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः॥४३॥
मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।
स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥४४॥
सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः ।
आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥४५॥
एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् ।
स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥४६॥
एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।
वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥४७॥
नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः।
अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा॥४८॥
अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः ।
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥४९॥
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥५०॥
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥५१॥
अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व ।
ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥५२॥
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥५३॥
महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे ।
अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥५४॥
सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥५५॥
एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥५६॥
इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः ।
हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥५७॥
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५८॥

सायणभाष्यम्

षष्ठेऽनुवाके सप्त सूक्तानि । तत्र अस्य प्रेषा इत्यष्टापञ्चाशदृचं प्रथमं सूक्तं त्रैष्टुभं पवमानसोमदेवताकम् । तत्राद्यस्य तृचस्य मैत्रावरुणो वसिष्ठ ऋषिः । द्वितीयस्येन्द्रप्रमतिर्नाम । तृतीयस्य वृषगणः । चतुर्थस्य मन्युः। पञ्चमस्योपमन्युः । षष्ठस्य व्याघ्रपात् । सप्तमस्य शक्तिः । अष्टमस्य कर्णश्रुत् । नवमस्य मृळीकः । दशमस्य वसुक्रः । एते सर्वे वसिष्ठगोत्राः । एवं त्रिंशदृचो गताः । अथ चतुर्दशानामृचां शक्तिपुत्रः पराशर ऋषिः । शिष्टानामाङ्गिरसः कुत्सः । तथानुक्रम्यते- अस्य प्रेष्ठाष्टापञ्चाशदाद्यं तृचं वसिष्ठोऽपश्यदुत्तरान्नव पृथग्वसिष्ठा इन्द्रप्रमतिर्वृषगणो मन्युरुपमन्युर्व्याघ्रपाच्छक्तिः कर्णश्रुन्मृळीको वसुक्र इति चतुर्दश पराशरोऽन्त्याः कुत्सः इति । गतो विनियोगः ।।


अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभि॒ः सम॑पृक्त॒ रस॑म् ।

सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता॑ ॥१

अ॒स्य । प्रे॒षा । हे॒मना॑ । पू॒यमा॑नः । दे॒वः । दे॒वेभिः॑ । सम् । अ॒पृ॒क्त॒ । रस॑म् ।

सु॒तः । प॒वित्र॑म् । परि॑ । ए॒ति॒ । रेभ॑न् । मि॒ताऽइ॑व । सद्म॑ । प॒शु॒ऽमन्ति॑ । होता॑ ॥

अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः। सम् । अपृक्त । रसम् । सुतः । पवित्रम् । परि । एति । रेभन् । मिताइव । सद्म । पशुऽमन्ति । होता ॥ १ ॥

अस्य सोमस्य प्रेषा । प्रेषतिर्गत्थर्थः । क्विपि रूपम् । ' सावेकाचः इति विभक्तेरुदात्तत्वम् । प्रेषा प्रेरकेण हेमना हिरण्येन पूयमानः । ' हिरण्यपाणिरभिषुणोति ' इति हिरण्यसंबन्धः । तादृशः देवः दीप्यमानांशुः रसम् आत्मीयं देवेभिः देवै सह समपृक्त संपर्चयति संयोजयति । ' पृची संपर्के ' । ततः सुतः अभिषुतः सोमः रेभम् शब्दायमानः सन् पवित्रं ऊर्णास्तुकेन निर्मितं पर्येति परिगच्छति । कथमिव । होता देवानामाह्वातर्त्विक् मितेव निर्मितान् पशूमन्ति बद्धपशून् सद्म सदनानि यज्ञगृहान् यथा पर्येति तद्वत् ।।


भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् ।

आ व॑च्यस्व च॒म्वोः॑ पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥२

भ॒द्रा । वस्त्रा॑ । स॒म॒न्या॑ । वसा॑नः । म॒हान् । क॒विः । नि॒ऽवच॑नानि । शंस॑न् ।

आ । व॒च्य॒स्व॒ । च॒म्वोः॑ । पू॒यमा॑नः । वि॒ऽच॒क्ष॒णः । जागृ॑विः । दे॒वऽवी॑तौ ॥

भद्रा । वस्त्रा । समन्या । वसानः । महान् । कविः । निःवचनानि । शंसन् ।

आ । वच्यस्व । चम्वोः । पूयमानः । विचक्षणः । जागृविः । देवऽवीतौ ॥ २॥

भद्रा भद्राणि कल्याणानि समन्या समनमिति संग्रामनाम तत्र साधुरिति यत् संग्रामयोग्यानि वस्त्रा वस्त्राणि आच्छादकानि तेजांसि वसानः आच्छादयन् महान् पूज्यः कविः क्रान्तदर्शी अतएव निवचनानि नितरांवक्तव्यानि ऋत्विक्कृतानि स्तोत्राणि शंसन् विचक्षणः विशेषेण सर्वस्यद्रष्टा जागृविर्जागरणशीलः सोमः त्वं देववीतौ देवानां वीतिर्भक्षणं यस्मिन्त्स देववीतिर्यज्ञः तस्मिन् चम्वोरधिषवणफलकयोः आवच्यस्व पात्राण्याविश । वचिर्गत्यर्थः व्यत्ययेन श्यन् पूयमानः सन् ॥ २ ॥


समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे ।

अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥३

सम् । ऊं॒ इति॑ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ॑ । अव्ये॑ । य॒शःऽत॑रः । य॒शसा॑म् । क्षैतः॑ । अ॒स्मे इति॑ ।

अ॒भि । स्व॒र॒ । धन्व॑ । पू॒यमा॑नः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सम् । ऊं इति । प्रियः । मृज्यते । सानौ । अव्ये । यशःऽतरः । यशसाम् । क्षैतः । अस्मे इति ।

अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

यशसा यशस्विनां मध्ये यशस्तरः अतिशयेन यशस्वी क्षैतः क्षितौ भवः प्रियः प्रीणयिता सोमः सानौ समुच्छ्रिते अव्ये अविभवे पवित्रे अस्मे अस्मदर्थं सं सृज्यते ऋत्विग्भिः परिपूयते । उ अवधारणे । पूयमानः त्वं धन्व अन्तरिक्षे अभि स्वर अभितः शब्दय । यूयम् । पूजायां बहुवचनम् । हे सोम त्वं नः अस्मान् स्वस्तिभिः कल्याणतमैः पालनं सदा सर्वदा पात रक्षत पालयत ।।


प्र गा॑यता॒भ्य॑र्चाम दे॒वान्सोमं॑ हिनोत मह॒ते धना॑य ।

स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥४

प्र । गा॒य॒त॒ । अ॒भि । अ॒र्चा॒म॒ । दे॒वान् । सोम॑म् । हि॒नो॒त॒ । म॒ह॒ते । धना॑य ।

स्वा॒दुः । प॒वा॒ते॒ । अति॑ । वार॑म् । अव्य॑म् । आ । सी॒दा॒ति॒ । क॒लश॑म् । दे॒व॒ऽयुः । नः॒ ॥

प्र । गायत । अभि । अर्चाम । देवान् । सोमम् । हिनोत । महते । धनाय ।

स्वादुः । पवाते । अति । वारम् । अव्यम् । आ । सीदाति । कलशम् । देवऽयुः । नः ॥

हे स्तोतारः प्र गायत । सोमं प्रकर्षेणाभिष्टुत । तथा देवान् अभ्यर्चाम अभ्यर्चत । पुरुषव्यत्ययः । यद्वा । वयं देवानभिष्टुमः यूयं सोमं स्तुतेति । किंच महते महत् प्रभूतं धनाय धनं प्राप्तुं सोमं हिनोत अभिषवार्थं प्रेरयत । ' क्रियार्थोपपदस्य च कर्मणि स्थानिनः ' इति धनशब्दस्य चतुर्थी । ततः स्वादुः स्वादुकरः सोमः अव्यम् अविभवं वारं बालं पवित्रम् अति पवाते अतीत्य पवते । किंच देवयुः देवान् कामयमानः नः अस्मदीयः सोमः 'कलशं पात्रम् आ सीदाति आसीदति प्रविशति । उभयत्र लेट्याडागमः ।।


इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्स॒हस्र॑धारः पवते॒ मदा॑य ।

नृभि॒ः स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥५

इन्दुः॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒ऽयन् । स॒हस्र॑ऽधारः । प॒व॒ते॒ । मदा॑य ।

नृऽभिः॑ । स्तवा॑नः । अनु॑ । धाम॑ । पूर्व॑म् । अग॑न् । इन्द्र॑म् । म॒ह॒ते । सौभ॑गाय ॥

इन्दुः । देवानाम् । उप । सख्यम् । आऽयन् । सहस्रऽधारः । पवते । मदाय ।

नृऽभिः । स्तवानः । अनु । धाम । पूर्वम् । अगन् । इन्द्रम् । महते । सौभगाय ॥

देवानाम् इन्द्रादीनां सख्यं सखिभावम् उप आयन् उपगच्छन् सहस्रधारः बहुविध- धारोपेतः इन्दुः सोमः मदाय देवानां मदार्थं पवते कलशादिषु क्षरति । नृभिः कर्मनेतृभिः स्तवानः स्तूयमानः सोमःपूर्वं पुरातनं धाम द्युलोकम् अनु गच्छति । तदेवाह । महते प्रभूताय सौभगाय सौभाग्याय इन्द्रम् अगन् गच्छति । सोम इन्द्रेण पीते सति यजमानानां महत् सौभाग्यं भवति खलु ।। अगन् । गमेर्लुङि ' मन्त्रे घस' ' इति च्छेर्लुक् । ' मो नो धातोः ' इति नत्वम् ।। ।। ११ ।।


स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो॑ गच्छतु ते॒ भरा॑य ।

दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

स्तो॒त्रे । रा॒ये । हरिः॑ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र॑म् । मदः॑ । ग॒च्छ॒तु॒ । ते॒ । भरा॑य ।

दे॒वैः । या॒हि॒ । स॒ऽरथ॑म् । राधः॑ । अच्छ॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

स्तोत्रे । राये । हरिः । अर्ष । पुनानः । इन्द्रम् । मदः । गच्छतु । ते । भराय ।

देवैः । याहि । सऽरथम् । राधः । अच्छ । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

हे सोम हरिः हरितवर्णः पुनानः पूयमानस्त्वं स्तोत्रे अस्माभिः क्रियमाणे सति राये धनार्थम् अर्ष आगच्छ । ततः ते त्वदीयः मदः मदकरः रसः भराय । भॄ भर्त्सने ' । भर्त्सयन्ति शत्रूनत्र योद्धार इति भरः संग्रामः । तदर्थम् इन्द्रं गच्छतु । किंच सरथं देवैः समानं रथमास्थाय राधः अच्छ अस्माकं धनार्थं याहि आगच्छ । यूयं नः अस्मान् स्वस्तिभिः सदा पात । त्वं रक्ष ।।


प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति ।

महि॑व्रत॒ः शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥७

प्र । काव्य॑म् । उ॒शना॑ऽइव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ ।

महि॑ऽव्रतः । शुचि॑ऽबन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ॑न् ॥

प्र । काव्यम् । उशनाऽइव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति ।

महिऽव्रतः । शुचिऽबन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥

उशनेव एतन्नामक ऋषिरिव' काव्यं कविकर्म स्तोत्रं ब्रुवाणः उच्चारयन् देवः स्तोतायमृषिर्वृषगणो नाम देवानाम् इन्द्रादीनां जनिम जन्मानि प्र विवक्ति प्रकर्षेण ब्रवीति । ' वच परिभाषणे ' । व्यत्ययेन विकरणस्य श्लुः । ' बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । महिव्रतः प्रभूतकर्मा शुचिबन्धुः । बध्नन्ति शत्रूनिति बन्धूनि तेजांसि बलानि वा । दीप्ततेजस्कः पावकः पापानां शोधकः वराहः । वरं च तदहश्च वराहः । ' राजाहः सखिभ्यष्टच्' इति टच् समासान्तः । तस्मिन्नहनि अभिषूयमाणत्वेन तद्वान् । अर्शआदित्वात् मत्वर्थीयोऽच् । तादृशः सोमः रेभन् शब्दं कुर्वन् पदा पदानि स्थानानि पात्राणि अभ्येति अभिगच्छति । यद्वा । यथा कश्चन वराहः पदा पादेन भूमिं विक्रममाणः शब्दं करोति तद्वत् ।।


प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः ।

आ॒ङ्गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दन्ति वा॒णम् ॥८

प्र । हं॒सासः॑ । तृ॒पल॑म् । म॒न्युम् । अच्छ॑ । अ॒मात् । अस्त॑म् । वृष॑ऽगणाः । अ॒या॒सुः॒ ।

आ॒ङ्गू॒ष्य॑म् । पव॑मानम् । सखा॑यः । दुः॒ऽमर्ष॑म् । सा॒कम् । प्र । व॒द॒न्ति॒ । वा॒णम् ॥

प्र । हंसासः । तृपलम् । मन्युम् । अच्छ । अमात् । अस्तम् । वृषऽगणाः । अयासुः ।

आङ्गूष्यम् । पवमानम् । सखायः । दुःऽमर्षम् । साकम् । प्र । वदन्ति । वाणम् ॥

हंसासः शत्रुभिर्हन्यमाना हंसा इवाचरन्तो वा नृपगणाः एतन्नामका ऋषयः अमात् शत्रूणां बलात् त्रासिताः सन्तः तृपलम् । तृपलशब्दः क्षिप्रवाची । तदुक्तं यास्केन--' तृपलप्रभर्मा क्षिप्रप्रहारी ' ( नि. ५. १२) इति । क्षिप्रप्रहारिणं मन्युं शत्रूनभिमन्यमानं सोमम् अच्छ अभिलक्ष्य अस्तं यज्ञगृहं प्र अयासुः प्रायासिषुः प्रगच्छन्ति । ततः सखायः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन सखिभूताः स्तोतारः आङ्गूष्यं सर्वैरभिगन्तव्यम् । यद्वा । घोशब्दस्य पृषोदरादित्वात् गू इत्यादेशः । आङोऽनुनासिकश्छान्दसः । स्तोत्रार्हं दुर्मर्षं शत्रुभिर्दुर्धरं दुःसहमेवंविधं सोमं पवमानम् उद्दिश्य वाणं वाद्यविशेषं साकं सहैव प्र वदन्ति प्रवादयन्ति । तदुपलक्षितं गानं कुर्वन्तीत्यर्थः ।।


स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ॑न्तं मिमते॒ न गावः॑ ।

प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ॑ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥९

सः । रं॒ह॒ते॒ । उ॒रु॒ऽगा॒यस्य॑ । जू॒तिम् । वृथा॑ । क्रीळ॑न्तम् । मि॒म॒ते॒ । न । गावः॑ ।

प॒री॒ण॒सम् । कृ॒णु॒ते॒ । ति॒ग्मऽशृ॑ङ्गः । दिवा॑ । हरिः॑ । ददृ॑शे । नक्त॑म् । ऋ॒ज्रः ॥

सः । रंहते । उरुऽगायस्य । जूतिम् । वृथा । क्रीळन्तम् । मिमते । न । गावः ।

परीणसम् । कृणुते । तिग्मऽशृङ्गः । दिवा । हरिः । ददृशे । नक्तम् । ऋज्रः ॥

सः सोमः रंहते । अतिशीघ्रं गच्छतीत्यर्थः । उरुगायस्य बहुभिः स्तुत्यस्यात्मनः जूतिं गतिमनुसरन् । तं वृथा अनायासेन क्रीडन्तं विहरन्तं गच्छन्तं सोमं गावः अन्ये गन्तारः न मिमते न परिच्छिन्दन्ति । तमनुगन्तुं न शक्नुवन्तीत्यर्थः । किंच तिग्मशृङ्गः । शृणन्ति हिंसन्ति तमांसीति शृङ्गाणि तेजांसि । तीक्ष्णतेजस्कः परीणसम् । बहुनामैतत् । बहुविधं तेजः कृणुते करोति । अन्तरिक्षे वर्तमानो यः सोमः दिवा अहनि हरिः हरितवर्णः ददृशे दृश्यते । न प्रकाशत इत्यर्थः। नक्तं रात्रौ तु ऋज्रः ऋजुगामी विस्पष्टः प्रकाशयुक्तो दृश्यते । दृशेः कर्मणि लिटि रूपम् ।।।


इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।

हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥१०॥

इन्दुः॑ । वा॒जी । प॒व॒ते॒ । गोऽन्यो॑घाः । इन्द्रे॑ । सोमः॑ । सहः॑ । इन्व॑न् । मदा॑य ।

हन्ति॑ । रक्षः॑ । बाध॑ते । परि॑ । अरा॑तीः । वरि॑वः । कृ॒ण्वन् । वृ॒जन॑स्य । राजा॑ ॥

इन्दुः । वाजी । पवते । गोऽन्योघाः । इन्द्रे । सोमः । सहः । इन्वन् । मदाय ।

हन्ति । रक्षः । बाधते । परि । अरातीः । वरिवः । कृण्वन् । वृजनस्य । राजा ॥

इन्दुः क्षरणशीलः वाजी बलवान् गोन्योघाः गमनशीलनीचीनाग्ररससंघातः इन्द्रे सहः बलकररसम् इन्वन् प्रेरयन् सोमः मदाय तस्य मदार्थं पवते क्षरति । किंच रक्षःकुलं प्रघ्नन्ति हिनस्ति । किंच अरातीः अरातीन् शत्रून् परि बाधते परितः संहरति । कीदृशः । वरिवः वरणीयं धनं कृण्वन् स्तोतॄणां कुर्वन् वृजनस्य बलस्य राजा ईशिता सोम इति ।।


अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः ।

इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥११

अध॑ । धार॑या । मध्वा॑ । पृ॒चा॒नः । ति॒रः । रोम॑ । प॒व॒ते॒ । अद्रि॑ऽदुग्धः ।

इन्दुः॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । दे॒वः । दे॒वस्य॑ । म॒त्स॒रः । मदा॑य ॥

अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रिऽदुग्धः ।

इन्दुः । इन्द्रस्य । सख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय ॥

अध अथानन्तरम् अद्रिदुग्धः ग्रावभिर्दुग्धोऽभिषुतः सोमः मध्वा मदकारिण्या धारयापृचानः देवान् संपर्चयन् संयोजयन् रोम अविरोमभिः कृतं पवित्रं तिरः तिरस्कृत्य व्यवधायकं कृत्वा पवते कलशेषु क्षरति । किंच इन्द्रस्य सख्यं सखिभावं कर्म वा जुषाणः सेवमानः देवः द्योतमानः मत्सरः मदकरः इन्दुः सोमः देवस्य इन्द्रस्य मदाय मदार्थं पवते ।।


अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान्स्वेन॒ रसे॑न पृ॒ञ्चन् ।

इन्दु॒र्धर्मा॑ण्यृतु॒था वसा॑नो॒ दश॒ क्षिपो॑ अव्यत॒ सानो॒ अव्ये॑ ॥१२

अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । पु॒ना॒नः । दे॒वः । दे॒वान् । स्वेन॑ । रसे॑न । पृ॒ञ्चन् ।

इन्दुः॑ । धर्मा॑णि । ऋ॒तु॒ऽथा । वसा॑नः । दश॑ । क्षिपः॑ । अ॒व्य॒त॒ । सानौ॑ । अव्ये॑ ॥

अभि । प्रियाणि । पवते । पुनानः । देवः । देवान् । स्वेन । रसेन । पृञ्चन् ।

इन्दुः । धर्माणि । ऋतुऽथा । वसानः । दश । क्षिपः । अव्यत । सानौ । अव्ये ॥

१२. प्रियाणि प्रीणयितॄणि धर्माणि धारकाणि तेजांसि ऋतुथा काले काले वसानः आच्छादयन् इन्दुः सोमः पुनानः पूयमानः सन् अभि पवते कलशानभिलक्ष्य क्षरति । कीदृशः । देवः संक्रीडनशीलः स्वेन आत्मीयेन रसेन देवान् इन्द्रादीन् पृञ्चन् संपर्चयन् संयोजयन् । तमिमं दश दशसंख्याकाः क्षिपः । अङ्गुलिनामैतत् । कर्मार्थं प्रेर्यन्त इति । तत्संख्याका अङ्गुलयः सानौ समुच्छ्रिते अव्ये अविभवे पवित्रे अव्यत गमयन्ति । यद्वा । तत्र पवित्रे पूयमानं सोममव्यत गच्छन्ति । वी गत्यादिषु । लङि व्यत्ययेनात्मनेपदम् ।।


वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्याम् ।

इन्द्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमाम् ॥१३

वृषा॑ । शोणः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । न॒दय॑न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

इन्द्र॑स्यऽइव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒ऽचे॒तय॑न् । अ॒र्ष॒ति॒ । वाच॑म् । आ । इ॒माम् ॥

वृषा । शोणः । अभिऽकनिक्रदत् । गाः । नदयन् । एति । पृथिवीम् । उत । द्याम् ।

इन्द्रस्यऽइव । वग्नुः । आ । शृण्वे । आजौ । प्रऽचेतयन् । अर्षति । वाचम् । आ । इमाम् ॥

१३. शोणः शोणवर्णः वृषा कश्चिद्वृषभः गाः पशून् अभिकनिक्रदत् अभिलक्ष्य शब्दं करोति । एवं गाः स्तुतीर्विश्रयणार्थं पयसो दोग्ध्रीर्धेनूर्वा अभिकनिक्रददभिशब्दायमानः । तदेवाह । नदयन् शब्दमुत्पादयन् सोमः पृथिवीमुत अपि च द्याम् एतौ लोकौ एति गच्छति । किंच वग्नुः । वाङ्नामैतत् । तस्य वाक् शब्दः आजौ संग्रामे इन्द्रस्येव इन्द्रस्य शब्द इव आ शृण्वे सर्वैः श्रूयते । ततः प्रचेतयन् आत्मानं सर्वेषां प्रज्ञापयन् इमां वाचम् अर्षति समन्ताद्गमयति । उच्चैः शब्दायत इत्यर्थः ।।


र॒साय्य॒ः पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मन्तमं॒शुम् ।

पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निन्द्रा॑य सोम परिषि॒च्यमा॑नः ॥१४

र॒साय्यः॑ । पय॑सा । पिन्व॑मानः । ई॒रय॑न् । ए॒षि॒ । मधु॑ऽमन्तम् । अं॒शुम् ।

पव॑मानः । स॒म्ऽत॒निम् । ए॒षि॒ । कृ॒ण्वन् । इन्द्रा॑य । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः ॥

रसाय्यः । पयसा । पिन्वमानः । ईरयन् । एषि । मधुऽमन्तम् । अंशुम् ।

पवमानः । सम्ऽतनिम् । एषि । कृण्वन् । इन्द्राय । सोम । परिऽसिच्यमानः ॥

१४. हे सोम रसाय्यः । रसेरौणादिक आय्यप्रत्ययः । आस्वाद्यः पयसा पिन्वमानः क्षरंस्त्वम् ईरयन् .शब्दं प्रेरयन् मधुमन्तं माधुर्योपेतम् अंशुं रसभावम् एषि प्राप्नोषि। अंशुः शमष्टमात्रो भवति (निरु. २.५) इति यास्कः । अनेन सोमरसोऽभिधीयते । किंच हे सोम परिषिच्य- मानः अद्भिः परिषिक्तस्त्वं पवमानः पवित्रे पूयमानः सन् संतनिम् । तनु विस्तारे । इप्रत्ययः । संततां धारां कृण्वन् कुर्वन् इन्द्राय इन्द्रार्थम् एषि गच्छसि ।।


ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः ।

परि॒ वर्णं॒ भर॑माणो॒ रुश॑न्तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥१५

ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा॑य । उ॒द॒ऽग्रा॒भस्य॑ । न॒मय॑न् । व॒ध॒ऽस्नैः ।

परि॑ । वर्ण॑म् । भर॑माणः । रुश॑न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि॑ । सो॒म॒ । सि॒क्तः ॥

एव । पवस्व । मदिरः । मदाय । उदऽग्राभस्य । नमयन् । वधऽस्नैः ।

परि । वर्णम् । भरमाणः । रुशन्तम् । गव्युः । नः । अर्ष । परि । सोम । सिक्तः ॥

१५. हे सोम मदिरः मदकरस्त्वम् उदग्राभस्य । क्रियाग्रहणं कर्तव्यम् ( पाः सू १ .४. ३२.१ ) इति कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थे बहुलम् ( पा. सू २ .३ ६२) इति षष्ठी । उदग्राभ- मुदकप्राहिणं मेघं वधस्नैः हननसाधनैरायुधैः नमयन् वृष्ट्यर्थं प्रह्वीकुर्वन् मदाय मदार्थम् एव पवस्व । एवं पात्रेषु क्षर । किंच रुशन्तम् आरोचमानं श्वेतं वर्णं परि भरमाणः परितो बिभ्रत् सिक्तः पवित्रे सिच्यमानस्त्वं गव्युः नः अस्माकं गा इच्छन् परि अर्ष परिगच्छ ।। ।।


जु॒ष्ट्वी न॑ इन्दो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् ।

घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥१६

जु॒ष्ट्वी । नः॒ । इ॒न्दो॒ इति॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । उ॒रौ । प॒व॒स्व॒ । वरि॑वांसि । कृ॒ण्वन् ।

घ॒नाऽइ॑व । विष्व॑क् । दुः॒ऽइ॒तानि॑ । वि॒ऽघ्नन् । अधि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ॥

जुष्ट्वी । नः । इन्दो इति । सुऽपथा । सुऽगानि । उरौ । पवस्व । वरिवांसि । कृण्वन् ।

घनाऽइव । विष्वक् । दुःऽइतानि । विऽघ्नन् । अधि । स्नुना । धन्व । सानौ । अव्ये ॥

१६. हे इन्दो दीप्त पवमान जुष्ट्वी । ' स्नात्व्यादयश्च ' इति निपातितः । स्तुतिभिः प्रीतो भूत्वा नः अस्माकं सुपथानि वैदिकमार्गान् तथा वरिवांसि वरणीयानि धनानि सुगा सुगमनानि सुप्राप्तव्यानि कृण्वन् कुर्वन् उरौ विस्तीर्णे द्रोणकलशे पवस्व क्षर । किंच घनेव घनीभूतेन लोहमयेनायुधेनेव विष्वक् सर्वतः दुरितानि दुष्प्राप्तव्यानि रक्षांसि विघ्नन् हिंसन् सानौ समुच्छ्रिते अव्ये अविभवे स्नुना स्रवता धारासंघेन अधि धन्व अधिगच्छ । धविर्गत्यर्थः ।।


वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुम् ।

स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बन्धूँ॑रि॒माँ अव॑राँ इन्दो वा॒यून् ॥१७

वृ॒ष्टिम् । नः॒ । अ॒र्ष॒ । दि॒व्याम् । जि॒ग॒त्नुम् । इळा॑ऽवतीम् । श॒म्ऽगयी॑म् । जी॒रऽदा॑नुम् ।

स्तुका॑ऽइव । वी॒ता । ध॒न्व॒ । वि॒ऽचि॒न्वन् । बन्धू॑न् । इ॒मान् । अव॑रान् । इ॒न्दो॒ इति॑ । वा॒यून् ॥

वृष्टिम् । नः । अर्ष । दिव्याम् । जिगत्नुम् । इळाऽवतीम् । शम्ऽगयीम् । जीरऽदानुम् ।

स्तुकाऽइव । वीता । धन्व । विऽचिन्वन् । बन्धून् । इमान् । अवरान् । इन्दो इति । वायून् ॥

१७. हे सोम नः अस्माकं वृष्टिम् अर्ष गमय । कीदृशीम् । दिव्यां दिवि भवां जिगत्नुं गमनशीलाम् इळावतीम् अन्नवतीं शंगयीं सुखस्य निवासभूतां जीरदानुं क्षिप्रदानोपेताम् । किंच हे इन्दो त्वं स्तुकेव वीता कान्तानि । स्तुकशब्दोऽपत्यवचनः । अपत्यानि यथा विचिनोषि तद्वत् बन्धून् स्तुत्यस्तोतृत्वेन बन्धुभूतान् अवरान् अवरदेशे स्थितान् पार्थिवान् वायून् त्वामभि- गच्छतः इमान् अस्मान् विचिन्वन् धनादिप्रदानार्थं गवेषमाणः सन् धन्व गच्छ ।।


ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम ।

अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥१८

ग्र॒न्थिम् । न । वि । स्य॒ । ग्र॒थि॒तम् । पु॒ना॒नः । ऋ॒जुम् । च॒ । गा॒तुम् । वृ॒जि॒नम् । च॒ । सो॒म॒ ।

अत्यः॑ । न । क्र॒दः॒ । हरिः॑ । आ । सृ॒जा॒नः । मर्यः॑ । दे॒व॒ । ध॒न्व॒ । प॒स्त्य॑ऽवान् ॥

ग्रन्थिम् । न । वि । स्य । ग्रथितम् । पुनानः । ऋजुम् । च । गातुम् । वृजिनम् । च । सोम ।

अत्यः । न । क्रदः । हरिः । आ । सृजानः । मर्यः । देव । धन्व । पस्त्यऽवान् ॥

१८. पुनानः पूयमानस्त्वं ग्रथितं पापैर्बद्धं मां वि ष्य मुञ्च । पापेभ्यो विश्लेषय । कथमिव । ग्रन्थिं न यथा कश्चित् ग्रन्थिं विश्लेषयति । षो अन्तकर्मणि इत्यस्य लोटि रूपम् । किंच हे सोम त्वम् ऋजुम् अवक्रं गातुं मार्गं च वृजिनं बलं च मह्यं देहि । हरिः हरितवर्णस्त्वम् आ सृजानः पात्रेष्वासृज्यमानः सन् अत्यो न अतनशीलोऽश्व इव क्रदः क्रन्दसि शब्दायसे । किंच हे देव मर्यः मनुष्यहितो मारको हिंसको वा शत्रूणां पस्त्यवान् । पस्त्वं गृहम् । तद्वांस्त्वं धन्व मामभिगच्छ कलशान् वा ।।


जुष्टो॒ मदा॑य दे॒वता॑त इन्दो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ।

स॒हस्र॑धारः सुर॒भिरद॑ब्ध॒ः परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥१९

जुष्टः॑ । मदा॑य । दे॒वऽता॑ते । इ॒न्दो॒ इति॑ । परि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ।

स॒हस्र॑ऽधारः । सु॒ऽर॒भिः । अद॑ब्धः । परि॑ । स्र॒व॒ । वाज॑ऽसातौ । नृ॒ऽसह्ये॑ ॥

जुष्टः । मदाय । देवऽताते । इन्दो इति । परि । स्नुना । धन्व । सानौ । अव्ये ।

सहस्रऽधारः । सुऽरभिः । अदब्धः । परि । स्रव । वाजऽसातौ । नृऽसह्ये ॥

१९. हे इन्दो मदाय जुष्टः पर्याप्तस्त्वं देवताते देवैस्तते यज्ञे सानौ समुच्छ्रिते अव्ये अविभवे पवित्रे स्नुना स्रवणशीलेन धारासंघेन सह परि धन्व परिगच्छ । सहस्रधारः बहुविधधारोपेतः सुरभिः सुगन्धिस्त्वम् अदब्धः न कैश्चिद्धिंसितः सन् वाजसातौ अन्नलाभनिमित्ते नृसह्ये नृभिः सोढव्ये युद्धे परि स्रव परितो गच्छ ।।


अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ ।

ए॒ते शु॒क्रासो॑ धन्वन्ति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥२०

अ॒र॒श्मानः॑ । ये । अ॒र॒थाः । अयु॑क्ताः । अत्या॑सः । न । स॒सृ॒जा॒नासः॑ । आ॒जौ ।

ए॒ते । शु॒क्रासः॑ । ध॒न्व॒न्ति॒ । सोमाः॑ । देवा॑सः । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥

अरश्मानः । ये । अरथाः । अयुक्ताः । अत्यासः । न । ससृजानासः । आजौ ।

एते । शुक्रासः । धन्वन्ति । सोमाः । देवासः । तान् । उप । यात । पिबध्यै ॥

२०. अरश्मानः रश्मिवर्जिताः । रज्जुरहिता इति यावत् । अरथाः रथवर्जिताः अयुक्ताः कुत्रापि न नियुक्ताः । अबद्धा इत्यर्थः । एतादृशाः ये आजौ युद्धे ससृजानासः सृज्यमानाः अत्यासो न अश्वा यथा त्वरया लक्ष्यं गच्छन्ति तद्वदाजौ । अजन्ति कर्मकरणार्थमृत्विजोऽत्र इत्याजिर्यज्ञः । तस्मिन् सृज्यमानाः शुक्रा दीप्यमानाः एते सोमाः धन्वन्ति क्षिप्रं कलशानभि- गच्छन्ति । अथ प्रत्यक्षः । हे देवासः देवाः तान् आगच्छतः सोमान् पिबध्यै पानाय उप यात उपगच्छत ।। ।।


ए॒वा न॑ इन्दो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ ।

सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हन्तं॑ र॒यिं द॑दातु वी॒रव॑न्तमु॒ग्रम् ॥२१

ए॒व । नः॒ । इ॒न्दो॒ इति॑ । अ॒भि । दे॒वऽवी॑तिम् । परि॑ । स्र॒व॒ । नभः॑ । अर्णः॑ । च॒मूषु॑ ।

सोमः॑ । अ॒स्मभ्य॑म् । काम्य॑म् । बृ॒हन्त॑म् । र॒यिम् । द॒दा॒तु॒ । वी॒रऽव॑न्तम् । उ॒ग्रम् ॥

एव । नः । इन्दो इति । अभि । देवऽवीतिम् । परि । स्रव । नभः । अर्णः । चमूषु ।

सोमः । अस्मभ्यम् । काम्यम् । बृहन्तम् । रयिम् । ददातु । वीरऽवन्तम् । उग्रम् ॥

२१. हे इन्दो सोम नः अस्मदीयम् एव देववीतिम् । देवानां वीतिर्भक्षणं गमनं वा यस्मिन् स देववीतिर्यज्ञः । तमभिलक्ष्य नभः नभसो द्युलोकात् अर्णः उदकम् । अनेन पवित्रान्निर्गतः सोमरसोऽभिधीयते । तं रसं चमूषु चमसेषु परि स्रव परितः क्षर । ततः सोमः काम्यं काम्यमानं बृहन्तं प्रवृद्धं वीरवन्तं पुत्रयुक्तम् उग्रम् उद्गूर्णबलं रयि धनम् अस्मभ्यं ददातु प्रयच्छतु ।।


तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के ।

आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इन्दु॑म् ॥२२

तक्ष॑त् । यदि॑ । मन॑सः । वेन॑तः । वाक् । ज्येष्ठ॑स्य । वा॒ । धर्म॑णि । क्षोः । अनी॑के ।

आत् । ई॒म् । आ॒य॒न् । वर॑म् । आ । वा॒व॒शा॒नाः । जुष्ट॑म् । पति॑म् । क॒लशे॑ । गावः॑ । इन्दु॑म् ॥

तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । वा । धर्मणि । क्षोः । अनीके ।

आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥

२२. वेनतः । वेनो वेनतेः कान्तिकर्मणः ( निरु. १० ३८) इति यास्कः । कामयमानस्य मनसः । मन्यतेः स्तुतिकर्मणः । स्तोतुः वाक् स्तुतिलक्षणा यदि एनं तक्षत् संस्करोति । वाशब्द उपमार्थे । यथा धर्मणि । निमित्तात्कर्मसंयोगेर ( पा. सू. २. ३ ३६. ६) इति सप्तमी । धारकं योगक्षेमबिषयं कर्मोद्दिश्य क्षोः शब्दायमानस्य अनीके मुखे तत्र स्थितस्य जानपदिकस्य वाक् ज्येष्ठस्य । द्वितीयार्थे षष्ठी । प्रशस्यतमं राजानं यथा स्तौति तथा स्तोतुर्वाक् सोमं स्तौतीत्यर्थः । आत् अनन्तरमेव अवरं वरणीयं जुष्टं देवानां मदाय पर्याप्तं पतिं सर्वस्य पालकं कलशे स्थितम् इन्दुम् ईम् एनं सोमं वावशानाः कामयमानाः गावः आ आयन् । पयसा स्वीयेन मिश्रयितुमागच्छन्ति ।।


प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः ।

ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥२३

प्र । दा॒नु॒ऽदः । दि॒व्यः । दा॒नु॒ऽपि॒न्वः । ऋ॒तम् । ऋ॒ताय॑ । प॒व॒ते॒ । सु॒ऽमे॒धाः ।

ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य॑स्य । राजा॑ । प्र । र॒श्मिऽभिः॑ । द॒शऽभिः॑ । भा॒रि॒ । भूम॑ ॥

प्र। दानुऽदः । दिव्यः । दानुऽपिन्वः । ऋतम् । ऋताय । पवते । सुमेधाः ।

धर्मा । भुवत् । वृजन्यस्य। राजा । प्र । रश्मिभिः । दशऽभिः । भारि । भूम ॥ २३ ॥

दिव्यो दिविभवः दानुदः दातृभ्यो धनादीनां दाता तदेवाह दानुपिन्वः पिवि सेचने कर्मण्यणित्यण् दातृभ्यः कामानां रक्षयिता सुमेधाः शोभनप्रज्ञः सोमः ऋताय सत्यभूतायेन्द्राय तं सत्यभूतमात्मीयं रसं पवते प्रकर्षेण क्षरति । राजा दीप्यमानः सोमः वृजन्यस्य साधुबलस्य धर्मा धारयिता भुवद्भवति । किंच दशभिः एतत्संज्ञकाभीरश्मिभिः कर्मकरणार्थमश्नुवानाभिः अंगुलिभिः भूम प्रभूतं प्रभारि प्रभार्यते चिणिरूपं ॥ २३ ।।


प॒वित्रे॑भि॒ः पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नाम् ।

द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ॥२४

प॒वित्रे॑भिः । पव॑मानः । नृ॒ऽचक्षाः॑ । राजा॑ । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।

द्वि॒ता । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सुऽभृ॑तम् । चारु॑ । इन्दुः॑ ॥

पवित्रेभिः । पर्वमानः । नृचक्षाः । राजा । देवानाम् । उत ।। मर्त्यानाम् ।

द्विता । भुवत् । रयिऽपतिः । रयीणाम् । ऋतम् । भरत् । सुभृतम् । चारु । इन्दुः ॥ २४ ॥

पवित्रेभिः पवित्रैः पवमानः पूयमानः नृचक्षाः नृणां फलाफलयोः दृष्टा अथ देवानामिन्द्रादीनां उतापि च मर्यानां मनुष्याणां एवमुभयेषां जनानां राजा रयिपतिः धनस्यपतिः नत्वल्पस्यपतिः किंतु रयीणां बहूनां धनानां स्वामी । वृत्यवृत्तिभ्यां स्वामित्वं बाहुल्यं च विवक्ष्यते । ईदृशः सोमः द्विता द्विधा देवेष्वपि च मनुष्येषु भुवत् भवति । सोयमिन्दुः सोमः सुभृतं संभृतं चारु कल्याणं ऋतमुदकं भरत बिभर्ति ॥ २४ ॥


अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष ।

स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥२५

अर्वा॑न्ऽइव । श्रव॑से । सा॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ ।

सः । नः॒ । स॒हस्रा॑ । बृ॒ह॒तीः । इषः॑ । दाः॒ । भव॑ । सो॒म॒ । द्र॒वि॒णः॒ऽवित् । पु॒ना॒नः ॥

अर्वान्ऽइव । श्रव॑से । सातिम् । अच्छ । इन्द्रस्य । वायोः । अभि । वीतिम् । अर्ष ।

सः । नः । सहस्रा । बृहतीः । इषः । दाः । भव । सोम । द्रविणःऽवित् । पुनानः ॥ २५ ॥ १५ ॥

हे सोम अन्नार्थं युद्धे अर्वानिव अश्वो यथा गच्छति तद्वत् त्वं श्रवसे अस्माकमन्नार्थ तथा सातिमच्छ धनलाभंप्रति इन्द्रस्य वायोश्च वीतिं पानमभ्यर्ष अभिगच्छ । ऐन्द्रवायवग्रहे हि इन्द्रवायू सह सोमं पिबत इति सहोपादानं । सत्वं सहस्रा सहस्राणि बहुविधानि बृहतीः बृंहितानि प्रवृद्धानि इषोन्नानि नोस्मभ्यं दाः प्रयच्छ । हे सोम पुनानः पूयमानस्त्वं नोस्मभ्यं द्रविणोवित् धनस्य लंभयिता भव । द्रविणशब्दात्सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति सुगागमः ॥ २५ ॥


दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑ना॒ः क्षयं॑ सु॒वीरं॑ धन्वन्तु॒ सोमाः॑ ।

आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ म॒न्द्रत॑माः ॥२६

दे॒व॒ऽअ॒व्यः॑ । नः॒ । प॒रि॒ऽसि॒च्यमा॑नाः । क्षय॑म् । सु॒ऽवीर॑म् । ध॒न्व॒न्तु॒ । सोमाः॑ ।

आ॒ऽय॒ज्यवः॑ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राः । होता॑रः । न । दि॒वि॒ऽयजः॑ । म॒न्द्रऽत॑माः ॥

देवऽअव्यः । नः। परिऽसिच्यमानाः । क्षयम् । सुवीरम् । धन्वन्तु । सोमाः ।

आऽयज्यवः । सुऽमतिम् । विश्ववाराः ।। होतारः । न । दिविऽयजः । मन्द्रऽतमाः ॥ २६ ॥

देवाव्यः अवतेस्तर्पणार्थस्य अवितृस्तॄतस्त्रिभ्यईरिति ईप्रत्ययः । उदात्तस्वरितयो र्यण इति जसः स्वरितत्वं । देवानां तर्पयितारः परिषिच्यमानाः परितः पात्रेषु सिच्यमानाः सोमाः नोस्माकं सुवीरं शोभनपुत्रं क्षयं गृहं धन्वन्तु प्रेरयन्तु । कीदृशाः सुमतिं शोभनमतिं यजमानं आयज्यवः यष्टुमिच्छवः विश्ववाराः विश्वैर्वरणीयाः होतारो न होतारो यथा देवानिन्द्रादीन् स्तुवन्ति एवं दिवियजः दिवि द्युलोकस्थितानिन्द्रादीन् देवान् यजन्तः । दिव् शब्दे तत्पुरुषेकृतिबहुलमिति सप्तम्याअलुक् । मन्द्रतमाः अत्यन्तंमदकराः ॥ २६॥


ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ ।

म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥२७

ए॒व । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । दे॒व॒ऽपानः॑ ।

म॒हः । चि॒त् । हि । स्मसि॑ । हि॒ताः । स॒ऽम॒र्ये । कृ॒धि । सु॒स्था॒ने इति॑ सु॒ऽस्था॒ने । रोद॑सी॒ इति॑ । पु॒ना॒नः ॥

एव । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । देवऽपानः ।

महः। चित् । हि । स्मसि । हिताः । सऽमर्ये । कृधि । सुस्थाने इति सुस्थाने । रोदसी इति । पुनानः ॥ २७ ॥

हे देव द्योतमान स्तोतव्य वा हे सोम देवपानः देवैः पातव्यस्त्वं देवताते देवैस्तते वितते यज्ञे महे महते प्सरसे भक्षणाय देवानां पानाय एव एवं पवस्व क्षर । ततो वयं हिताः त्वया प्रेरिताः सन्तः समयें मरणधर्मरहिते संग्रामे महश्चित् महतो बलाधिकानपि शत्रून् स्मसिहि अभिभवेम खलु । किंच पुनानः पूयमानस्त्वं रोदसी द्यावापृथिव्यौ सुस्थाने अस्माकं शोभनावासस्थाने सत्यौ कृधि कुरु ॥ २७ ॥


अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् ।

अ॒र्वा॒चीनैः॑ प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इन्दो ॥२८

अश्वः॑ । न । क्र॒दः॒ । वृष॑ऽभिः । यु॒जा॒नः । सिं॒हः । न । भी॒मः । मन॑सः । जवी॑यान् ।

अ॒र्वा॒चीनैः॑ । प॒थिऽभिः॑ । ये । रजि॑ष्ठाः । आ । प॒व॒स्व॒ । सौ॒म॒न॒सम् । नः॒ । इ॒न्दो॒ इति॑ ॥

अश्वः । न । क़दः । वृऽषभिः । युजानः । सिंहः । न । भीमः । मनसः । जवीयान् ।

अर्वाचीनैः । पथिऽभिः । ये । रजिष्ठाः । आ। पवस्व । सौमनसम् । नः । इन्दो इर्ति ॥ २८ ॥

हे सोम वृषभिर्ऋत्विग्भिः सोममभिषुण्वद्भिः युजानो योज्यमानस्त्वं अश्वो न अश्वइव क्रदः क्रन्दसि शब्दायसे । कीदृशः सिंहो न सिंह इव भीमः शत्रूणां भयंकरः तथा मनसोपि जवीयान् वेगवत्तरः अर्वाचीनैः अभिमुखैः पथिभिर्मागैः ये मार्गाः रजिष्ठाः अत्यन्तमृजवो भवन्ति विभाषर्जोश्छन्दसीतिऋकारस्यरादेशः । हे इन्दो दीप्यमान सोम तैर्मार्गैः नोस्माकं सौमनसं सौमनस्य आपवस्व आप्रापय ॥ २८ ॥


श॒तं धारा॑ दे॒वजा॑ता असृग्रन्स॒हस्र॑मेनाः क॒वयो॑ मृजन्ति ।

इन्दो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥२९

श॒तम् । धाराः॑ । दे॒वऽजा॑ताः । अ॒सृ॒ग्र॒न् । स॒हस्र॑म् । ए॒नाः॒ । क॒वयः॑ । मृ॒ज॒न्ति॒ ।

इन्दो॒ इति॑ । स॒नित्र॑म् । दि॒वः । आ । प॒व॒स्व॒ । पु॒रः॒ऽए॒ता । अ॒सि॒ । म॒ह॒तः । धन॑स्य ॥

शतम् । धाराः । देवाजाताः । असृग्रन् । सहस्रम् । एनाः । कवयः । मृजन्ति ।

इन्दो इति । सनित्रम् । दिवः । आ। पवस्व । पुरःऽएता। असि । महतः । धनस्य ॥ २९ ॥

हे सोम देवजाताः देवार्थं प्रादुर्भूताः शतं शतसंख्याकाः त्वदीया धाराः असृग्रन् सृज्यन्ते । ततः कवयः क्रान्तदर्शिनः ऋत्विजः सहस्रं बहुविधाः एनाः त्वदीया धाराः मृजन्ति अलंकुर्वन्ति यद्वा सहस्रमनेकधा मृजन्ति शोधयन्ति । हे इन्दो सनित्रं भजनसाधनं दिवो द्युलोत् अस्माकं पुत्रादीनां च आपवस्व आप्रापय । कुतोस्यधनमिति चेत् तत्राह महतः प्रभूतधनस्य पुरएता पुरतो गंतासि भवसि तस्माद्देहि इति ॥ २९ ॥


दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ ।

पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिम् ॥३०

दि॒वः । न । सर्गाः॑ । अ॒स॒सृ॒ग्र॒म् । अह्ना॑म् । राजा॑ । न । मि॒त्रम् । प्र । मि॒ना॒ति॒ । धीरः॑ ।

पि॒तुः । न । पु॒त्रः । क्रतु॑ऽभिः । य॒ता॒नः । आ । प॒व॒स्व॒ । वि॒शे । अ॒स्यै । अजी॑तिम् ॥

दिवः । न । सर्गाः । अससृग्रम् । अह्नाम् । राजा । न । मित्रम् । प्र । मिनाति । धीरः ।

पितुः । न । पुत्रः । क्रतुऽभिः । यतानः । आ। पवस्व । विशे। अस्यै। अजीतिम् ॥ ३० ॥ १६ ॥

दिवो न यथा दिवो द्योतमानस्य आदित्यस्याह्नां संबन्धिनः सर्गा रश्मयः अससृग्रं विसृज्यन्ते तद्वत् सोमस्य सर्गाः सृज्यन्ते इति सर्गाधाराः विसृज्यन्ते सृजेर्व्यत्ययेन कर्मार्थे लङिबहुलंछन्दसीतिशस्यश्लुः झेरमादेशश्छांदसः । धीरः प्राज्ञो राजा अयं सोमः मित्रं सखायं न प्रमिनाति न हिनस्ति क्रतुभिः कर्मभिर्यतानो यतमानः पुत्रः पितुर्न पितुर्यथा अपराभवं करोति तद्वत् कर्मभिर्यतमानस्त्वं अस्यै विशे प्रजायै अजीतिं अपराजितं अपराभवं आपवस्व आप्रापय यथा न पराजिता भवन्ति तथा कुर्वित्यर्थः ॥ ३० ॥


प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् ।

पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥३१

प्र । ते॒ । धाराः॑ । मधु॑ऽमतीः । अ॒सृ॒ग्र॒न् । वारा॑न् । यत् । पू॒तः । अ॒ति॒ऽएषि॑ । अव्या॑न् ।

पव॑मान । पव॑से । धाम॑ । गोना॑म् । ज॒ज्ञा॒नः । सूर्य॑म् । अ॒पि॒न्वः॒ । अ॒र्कैः ॥

प्र । ते । धाराः । मधुमतीः । असृग्रन् । वारान् । यत् । पूतः । अतिऽएषि । अव्यान् ।

पवमान । पवसे । धाम । गोनाम् । जज्ञानः । सूर्यम् । अपिन्वः । अर्कैः ॥ ३१ ॥

ते तव स्वभूता मधुमतीः मधुमत्यो धाराः प्रासृग्रन् तदा प्रसृज्यन्ते यद्यदा पूतो वसतीवरीभिः त्वं अव्यानविभवान् वारान् वालान् पवित्राण्यत्येषि अतीत्य गच्छसि । किंच हे पवमान गोनां गवां धाम धारकं पयो लक्षीकृत्य पवसे ततः जज्ञानः जायमानस्त्वं अर्कैरर्चनीयैः स्वतेजोभिः सूर्यमादित्यमपिन्वः पूरयसि ॥ ३१ ॥


कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ ।

स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभिः॑ कवी॒नाम् ॥३२

कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ ।

सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥

कनिक्रदत् । अनु । पन्थाम् । ऋतस्य। शुक्रः । वि। भासि। अमृतस्य । धाम ।

सः । इन्द्राय। पवसे । मत्सरऽवान् । हिन्वानः । वाच॑म् । मतिऽभिः । कवीनाम् ॥ ३२ ॥

अभिषूयमाणः सोमः ऋतस्य सत्यभूतस्य यज्ञस्य पंथां पंथानं मार्गमनु कनिक्रदत् पुनःपुनः शब्दायते । अथ प्रत्यक्षः अमृतस्यामरणधर्मस्य धाम स्थानभूतः मरणरहितइत्यर्थः । तादृशः शुक्रः शुक्लवर्णः त्वं विभासि विशेषेण राजसि मत्सरवान् मदकररसयुक्तः सत्वं इन्द्रायेन्द्रार्थं पवसे क्षरसि । कीदृशः कवीनां स्तोतॄणां मतिभिः सह वाचं शब्दं हिन्वानः प्रेरयन् पवसे ।। ३२ ॥


दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धारा॒ः कर्म॑णा दे॒ववी॑तौ ।

एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥३३

दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्षि॒ । सो॒म॒ । पिन्व॑न् । धाराः॑ । कर्म॑णा । दे॒वऽवी॑तौ ।

आ । इ॒न्दो॒ इति॑ । वि॒श॒ । क॒लश॑म् । सो॒म॒ऽधान॑म् । क्रन्द॑न् । इ॒हि॒ । सूर्य॑स्य । उप॑ । र॒श्मिम् ॥

दिव्यः । सुऽपर्णः। अव । चक्षि । सोम । पिन्व॑न् । धाराः ।। कर्मणा । देवऽवीतौ ।

आ । इन्दो इति । विश । कलशम् ।। सोमऽधानम् । क्रन्दन् । इहि । सूर्यस्य । उप । रश्मिम् ॥ ३३ ॥

हे सोम दिव्यो दिविभवः सुपर्णः सुपतनस्त्वं अवचक्षि अवस्तात् पश्य च । चष्टेर्लटिसिपिव्यत्ययेन परस्मैपदं । किं कुर्वन् देववीतौ देवानां हविर्भक्षणस्थानेयज्ञे कर्मणा धाराः पिन्वन् क्षरन् । किंच हे इन्दो सोमधानं कलशं आविश क्रन्दन्शब्दायमानस्त्वं सूर्यस्य प्रेरकस्यादित्यस्य रश्मिं कान्तिमुपोहि उपगच्छ ॥ ३३ ॥


ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् ।

गावो॑ यन्ति॒ गोप॑तिं पृ॒च्छमा॑ना॒ः सोमं॑ यन्ति म॒तयो॑ वावशा॒नाः ॥३४

ति॒स्रः । वाचः॑ । ई॒र॒य॒ति॒ । प्र । वह्निः॑ । ऋ॒तस्य॑ । धी॒तिम् । ब्रह्म॑णः । म॒नी॒षाम् ।

गावः॑ । य॒न्ति॒ । गोऽप॑तिम् । पृ॒च्छमा॑नाः । सोम॑म् । य॒न्ति॒ । म॒तयः॑ । वा॒व॒शा॒नाः ॥

तिस्रः । वाचः। ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् ।

गावः । यन्ति । गोऽपतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः। वावशानाः ॥ ३४ ॥

वह्रिर्वोढा यजमानः तिस्रोवाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति । तथा ऋतस्य यज्ञस्य धीतिं धारयित्रीं ब्रह्मणः परिवृढस्य सोमस्य मनीषां मनसईशित्रीं कल्याणीं वाचं च प्रेरयति । किंच गोपतिं वृषभं यथा गावोभिगच्छन्ति तद्वत् । गवां स्वामिनं सोमं गावः पृच्छमानाः पृच्छंत्यः सत्यो यन्ति स्वपयसामिश्रयितुमभिगच्छन्ति । तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति ॥ ३४ ॥


सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभिः॑ पृ॒च्छमा॑नाः ।

सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑न॒ः सोमे॑ अ॒र्कास्त्रि॒ष्टुभ॒ः सं न॑वन्ते ॥३५

सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः ।

सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥

सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मतिऽभिः । पृच्छमानाः ।

सोमः । सुतः । पूयते । अज्यमानः। सोमे । अर्काः । त्रिऽस्तुभः । सम् । नवन्ते ॥ ३५॥ १७ ॥

धेनवः प्रीणयित्र्योगावः सोमं वावशानाः कामयमाना भवन्ति विप्रा मेधाविनः स्तोतारः मतिभिः पृच्छमानाः पृच्छन्तो भवन्ति । अज्यमानः गोभिः सिच्यमानः सुतोभिषुतः सोमः ऋत्विग्भिः परिपूयते । तथा त्रिष्टुभः त्रिष्टुब्रूपाः अर्काः अस्माभिः क्रियमाणाः एते मंत्राः सोमे संनवन्ते संगच्छन्ते ॥ ३५ ॥


ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति ।

इन्द्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिम् ॥३६

ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । आ । प॒व॒स्व॒ । पू॒यमा॑नः । स्व॒स्ति ।

इन्द्र॑म् । आ । वि॒श॒ । बृ॒ह॒ता । रवे॑ण । व॒र्धय॑ । वाच॑म् । ज॒नय॑ । पुर॑म्ऽधिम् ॥

एव । नः । सोम । परिऽसिच्यमानः । आ । पवस्व । पूयमानः । स्वस्ति ।

इन्द्रम् । आ । विश । बृहता । रवेण । वर्धय । वाचम् । जनय। पुरम्ऽधिम् ।। ३६ ॥

हे सोम परिषिच्यमानः परितः पात्रेषु सिच्यमानः पूयमानस्त्वं नोस्माकमेव स्वस्ति अविनाशमापवस्व आप्रापय । किंच बृहता महता रवेण शब्देन सह इन्द्रमाविश प्रविश तथा वाचं स्तुतिलक्षणां वर्धय । किंच पुरंधिं बहुधियं प्रज्ञानं जनय अस्मभ्यं उत्पादय । वाक्यभेदादनिघातः ॥ ३६॥


आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ ।

सप॑न्ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ताः॑ ॥३७

आ । जागृ॑विः । विप्रः॑ । ऋ॒ता । म॒ती॒नाम् । सोमः॑ । पु॒ना॒नः । अ॒स॒द॒त् । च॒मूषु॑ ।

सप॑न्ति । यम् । मि॒थु॒नासः॑ । निऽका॑माः । अ॒ध्व॒र्यवः॑ । र॒थि॒रासः॑ । सु॒ऽहस्ताः॑ ॥

आ। जागृविः । विप्रः । ऋता । मतीनाम् । सोमः । पुनानः। असदत् । चमूषु ।

सपन्ति । यम् । मिथुनासः । निऽकामाः ।। अध्वर्यवः । रथिरासः । सुऽहस्ताः ॥ ३७॥

जागृविर्जागरणशीलः ऋता सुपांसुलुगिति षठ्या आकारः । ऋतानां सत्यानां मतीनां स्तुतीनां विप्रो ज्ञाता स सोमः पुनानः पूयमानः सन् चमूषु चमसेष्वासदत् आसीदति । मिथुनासः परस्परं संगताः निकामाः नितरां कामयमानाः रथिरासः यज्ञस्य नेतारः सुहस्ताः कल्याणपाणयः अध्वर्यवः पवित्रे यं सोमं सपन्ति स्पृशन्ति । षष समवाये। सपतिःस्पृशतिकर्मेति नैरुक्ताः ॥३७॥


स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः ।

प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥३८

सः । पु॒ना॒नः । उप॑ । सूरे॑ । न । धाता॑ । आ । उ॒भे इति॑ । अ॒प्राः॒ । रोद॑सी॒ इति॑ । वि । सः । आ॒व॒रित्या॑वः ।

प्रि॒या । चि॒त् । यस्य॑ । प्रि॒य॒सासः॑ । ऊ॒ती । सः । तु । धन॑म् । का॒रिणे॑ । न । प्र । यं॒स॒त् ॥

सः। पुनानः । उप । सूरे । न । धाता । आ । उभे इति । अप्राः । रोदसी इति । वि । सः । आवरित्यावः ।

प्रिया । चित् । यस्य । प्रियसासः । ऊती । सः । तु । धनम् । कारिणे । न । प्र ।यंसत् ॥३८॥

पुनानः पूयमानः स सोमः इन्द्रे उपगच्छति । तत्र दृष्टान्तः–सूरेन यथा सूर्ये धाता संवत्सर उपगच्छति । ससंवत्सरोविधातारं । संवत्सरेणैवास्मै प्रजाः प्रजनयतीत्याम्नानात् । किंचोभे रोदसी द्यावापृथिव्यौ आप्राः स्वमहिम्ना आपूरयति । तथा स सोमः व्यावः स्वतेजसा तमांसि विवृणोति । वृणोतेर्मंत्रेघसेतिच्लेर्लुक् छन्दस्यपि दृश्यते इत्यडागमः पूर्वपदादिति स इत्यस्य सांहितिकंषत्वं । प्रिया षष्ठ्याआकारः पियस्य यस्य सोमस्य यद्वा प्रियाणि प्रयच्छतः यस्य सोमस्य प्रियसासः अत्यन्तं प्रियतमाधाराः ऊती ऊत्यै रक्षणाय भवन्ति स तु क्षिप्रं अस्मभ्यं धनं प्रयंसत् प्रयच्छतु । यच्छतेर्लेटिसिप्यडागमः । तत्र दृष्टान्तः–कारिणेन यथा कारिणे च कृतकाय भृतिं प्रयच्छन्ति तद्वत् ॥३८॥


स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑न॒ः सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् ।

येना॑ न॒ः पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥३९

सः । व॒र्धि॒ता । वर्ध॑नः । पू॒यमा॑नः । सोमः॑ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति॑षा । आ॒वी॒त् ।

येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । स्वः॒ऽविदः॑ । अ॒भि । गाः । अद्रि॑म् । उ॒ष्णन् ॥

सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः। ज्योतिषा। आवीत् ।

येन । नः । पूर्वे । पितरः । पदऽज्ञाः । स्वःऽविदः। अभि । गाः । अद्रिम् । उष्णन् ॥ ३९ ॥

वर्धिता देवानां स्वकलाप्रदानेन वर्धयिता वर्धनः स्वयं वर्धमानः पवित्रेण पूयमानः मीढ्वान् कामानां सेक्ता स सोमः नोस्माकं ज्योतिषा स्वतेजसा अभ्यावीत् अभिरक्षतु । येन सोमेन पदज्ञाः पणिभिरपहतानां गवां पदानि जानन्तः स्वर्विदः सर्वज्ञाः सूर्यं जानन्तो वा नोस्माकं पूर्वे चिरन्तनाः पितरोंगिरसः गाः पशूनभिलक्ष्य अद्रिमुष्णन् शिलोच्चयमुष्णन् सोमतेजसा अंधकारावृतं शिलोच्चयं गत्वा पशूनाहरन्नित्यर्थः । उषिरिहमुष्णातिसमानकर्मा । यद्वा मुष्णातेर्लङि वर्णलोपः ॥ ३९ ॥


अक्रा॑न्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।

वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥४०

अक्रा॑न् । स॒मु॒द्रः । प्र॒थ॒मे । विऽध॑र्मन् । ज॒नय॑न् । प्र॒ऽजाः । भुव॑नस्य । राजा॑ ।

वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अव्ये॑ । बृ॒हत् । सोमः॑ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः॑ ॥

अक्रान् । समुद्रः । प्रथमे । विधर्मन् । जनयन् । प्रऽजाः । भुवनस्य । राजा ।

वृषा । पवित्रे । अधि। सानौ । अव्ये। बृहत् । सोमः । ववृधे । सुवानः । इन्दुः ॥ ४० ॥ १८ ॥

समुद्रः यस्मादापः समुद्रवन्ति स समुद्रः अपां वर्षको राजा सोमः प्रथमे विस्तृते भुवनस्योदकस्य विधर्मन् विधारकेन्तरिक्षे प्रजा जनयन् । उत्पादयन् अक्रान् सर्वमतिक्रामति । क्रमतेर्लुङि तिपीडभावे वृद्धौ च कृतायां सिज्लोपे मकारस्य मोनोधातोरिति नकाररूपं । वृषा कामानां वर्षिता सुवानोभिषूयमाणः इन्दुर्दीप्तः स सोमः अधि अधिकं सानौ समुच्छिते अव्ये अविमये पवित्रे बृहत् प्रभूतं ववृधे वर्धते ॥ ४० ॥


म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् ।

अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ॥४१

म॒हत् । तत् । सोमः॑ । म॒हि॒षः । च॒का॒र॒ । अ॒पाम् । यत् । गर्भः॑ । अवृ॑णीत । दे॒वान् ।

अद॑धात् । इन्द्रे॑ । पव॑मानः । ओजः॑ । अज॑नयत् । सूर्ये॑ । ज्योतिः॑ । इन्दुः॑ ॥

महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अलृणीत । देवान् ।

अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥ ४१ ।।

महिषो महान् पूज्यो वा सोमो महत्प्रभूतं तत्कर्म चकार अकरोत् । किं तत् अपां गर्भः उदकानां गर्भभूतः जनयितृत्वाज्जन्यत्वाच्च स सोमः देवानवृणीत समभजतेति यत् तत्कृतवानिति ।। किंच पवमानः पूयमानः सोमः ओजः सोमपानेन जन्यं बलं इन्द्रे अधात् व्यधात् । तथा इन्दुः सोमः सूर्ये ज्योतिस्तेजः अजनयत् ॥ ११ ॥


मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः ।

मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥४२

मत्सि॑ । वा॒युम् । इ॒ष्टये॑ । राध॑से । च॒ । मत्सि॑ । मि॒त्रावरु॑णा । पू॒यमा॑नः ।

मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । द्यावा॑पृथि॒वी इति॑ । दे॒व॒ । सो॒म॒ ॥

मत्सि । वायुम् । इष्टये। राधसे । च । मत्सि । मित्रावरुणा। पूयमानः ।

मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि। द्यावापृथिवी इति । देव । सोम ॥ ४२ ।।

हे सोम त्वं वायुं मत्सि मादय । किमर्थं इष्टये अस्माकमेषणाय अन्नाय राधसे धनाय च । तथा पूयमानः पवित्रेण त्वं मित्रावरुणा मित्रावरुणौ च मत्सि तर्पयसि । किंच मारुतं मरुतां स्वभूतं शर्धो बलं च मत्सि। तथा देवानिन्द्रादीन् मत्सि हर्षयसि । हे देव स्तोतव्य हे सोम द्यावापृथिवी द्यावापृथिव्यौ च मत्सि मादय एतान् हर्षयुक्तान् कृत्वास्मभ्यं धनं प्रयच्छेत्यर्थः ॥४२॥ ।


ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।

अ॒भि॒श्री॒णन्पय॒ः पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥४३

ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य॑ । ह॒न्ता । अप॑ । अमी॑वाम् । बाध॑मानः । मृधः॑ । च॒ ।

अ॒भि॒ऽश्री॒णन् । पयः॑ । पय॑सा । अ॒भि । गोना॑म् । इन्द्र॑स्य । त्वम् । तव॑ । व॒यम् । सखा॑यः ॥

ऋजुः । पवस्व । वृज़िनस्य । हन्ता । अपं । अमीवाम् । बाधमानः । मृधः । च ।

अभिऽश्रीणन् । पयः । पयसा । अभि । गोनाम् । इन्द्रस्य । त्वम् । तव । वयम् । सखायः ॥ ४३ ॥

हे सोम ऋजुः ऋजुगमनः सन् पवस्व क्षर। किं कुर्वन् वृजिनस्य उपद्रवस्य हन्ता अमीवां रोगरूपं राक्षसं अपबाधमानः तथा अस्मदीयान् मृधोर्हिसकान् शत्रूंश्च बाधमानः सन् पवस्व ततः पयआत्मीयंरसं गोनां गवां पयसा क्षीरेण अभिश्रीणन् अभिसंयोजयन् पात्राण्यभिगच्छसि । अपि च त्वं इन्द्रस्य सखासि हे सोम तव वयं सखायः स्तुत्यस्तोतृत्वयष्टृयष्टव्यत्वलक्षणेन सखिभूताः स्मः ॥ ४३ ॥


मध्व॒ः सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च ।

स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥४४

मध्वः॑ । सूद॑म् । प॒व॒स्व॒ । वस्वः॑ । उत्स॑म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग॑म् । च॒ ।

स्वद॑स्व । इन्द्रा॑य । पव॑मानः । इ॒न्दो॒ इति॑ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥

मध्वः । सूदम् । पवस्व । वस्वः । उत्सम् । वीरम् । च। नः । आ । पवस्व । भगम् । च ।

स्वदस्व । इन्द्राय । पवमानः । इन्दो इति । रयिम् । च । नः । आ । पवस्व । समुद्रात् ॥ ४४ ॥

हे सोम मध्वो माधुर्यस्य सूदं क्षारयितारं घनीभूतं आपवस्व । वस्वो वसु धनस्य उत्सं उत्स्यन्दकं रसं पवस्व । किंच नोस्मभ्यं वीरं पुत्रं आपवस्व आप्रापय । तथा भगं भजनीयं धनं च देहि । हे इन्दो पवमानः पूयमानः सन् इन्द्राय स्वदस्व रुचितो भव । ततस्त्वं नोस्मभ्यं समुद्रादन्तरिक्षात् रयिं धनं पुत्रं वा राति ददाति क्षीरमिति रयिर्गौर्वा तां वा पवस्व देहि ॥४४॥


सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः ।

आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥४५

सोमः॑ । सु॒तः । धार॑या । अत्यः॑ । न । हित्वा॑ । सिन्धुः॑ । न । नि॒म्नम् । अ॒भि । वा॒जी । अ॒क्षा॒रिति॑ ।

आ । योनि॑म् । वन्य॑म् । अ॒स॒द॒त् । पु॒ना॒नः । सम् । इन्दुः॑ । गोभिः॑ । अ॒स॒र॒त् । सम् । अ॒त्ऽभिः ॥

सोमः । सुतः । धारया। अत्यः । न । हित्वा । सिन्धुः । न । निम्नम् । अभि ।वाजी । अक्षारिति ।

आ । योनिम्। वन्यम् । असदत् । पुनानः । सम् । इन्दुः । गोभिः । असरत् । सम् । अत्ऽभिः ।। ४५ ॥ १९ ॥

सुतोभिषुतः सोमो धारया स्वीयया अत्यो न अतनशीलोश्व इव हित्वा गत्वा हिनोतेः क्वनिपिरूपं । किंच वाजी बलवान् सोमः सिन्धुर्न यथा सिन्धुः स्यन्दमाना नदी निम्नं प्रदेशमभिगच्छति तद्वत् निम्नमधरभाविनं कलशमभ्यक्षाः अभिक्षरति । ततः पुनानः पूयमानः सोमः वन्यं वृक्षभवं योनिं योनिस्थानं कलशं आसदत् आसीदति । सोयमिन्दुः सोमः गीर्भिर्गोविकारैः क्षीरादिभिः श्रयणैः सं असरत संसरति तथा अद्भिर्वसतीवरीभिश्च संगच्छते ॥ ४५ ॥

इति सप्तमस्य चतुर्थे एकोनविंशोवर्गः ॥ १९ ॥


ए॒ष स्य ते॑ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् ।

स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्म॒ः कामो॒ न यो दे॑वय॒तामस॑र्जि ॥४६

ए॒षः । स्यः । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । सोमः॑ । च॒मूषु॑ । धीरः॑ । उ॒श॒ते । तव॑स्वान् ।

स्वः॑ऽचक्षाः । र॒थि॒रः । स॒त्यऽशु॑ष्मः । कामः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ॥

एषः । स्यः । ते । पवते । इन्द्र। सोमः । चमूषु । धीरः । उशते । तवस्वान् ।

स्वःऽचक्षाः । रथिरः । सत्यऽशुष्मः । कामः । न । यः । देवऽयताम् । असर्जि ॥ ४६॥

हे इन्द्र उशते कामयमानाय ते तुभ्यं त्वदर्थं धीरः प्राज्ञः तवस्वान् वेगवान् स्यः स एष सोमः चमूषु चमसेषु पवते क्षरति स्वर्चक्षाः सर्वदर्शिनः रथिरो रथवान् सत्यशुष्मः यथार्थबलो यः सोमः देवयतां देवानिच्छतां यजमानानां कामो न कामदइवासर्जि असृज्यत अदीयत इत्यर्थः ॥ ४६॥


ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः ।

वसा॑न॒ः शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥४७

ए॒षः । प्र॒त्नेन॑ । वय॑सा । पु॒ना॒नः । ति॒रः । वर्पां॑सि । दु॒हि॒तुः । दधा॑नः ।

वसा॑नः । शर्म॑ । त्रि॒ऽवरू॑थम् । अ॒प्ऽसु । होता॑ऽइव । या॒ति॒ । सम॑नेषु । रेभ॑न् ॥

एषः । प्रत्नेन । वय॑सा । पुनानः । तिरः । वर्पांसि। दुहितुः ।। दधानः ।

वसानः । शर्मं । त्रिवरूथम् । अऽप्सु । होताऽइव । याति । समनेषु । रेभन् । ४७॥

प्रत्नेन पूर्वकालीनेन वयसा अन्नेन पुनानः पूयमानः अन्नात्मिकया धारया क्षरन्नित्यर्थः तादृशः दुहितुः सर्वस्यदोग्ध्र्याः पृथिव्यां वर्पांसि वर्प इति रूपनाम वृणोति शरीरमिति रूपाणि तिरोदधानः स्वतेजसा तिरस्कुर्वन् आच्छादयन् तथा त्रिवरूथं विभूमिकोपेतं यद्वा त्रयः शीतातपवर्षाः तेषां निवारकं शर्म यज्ञगृहं वसानः आच्छादयन् अप्सु वसतीवरीषुस्थितः एष सोमः होतेव यथा होता स्तुतिध्वनिं कुर्वन् यज्ञेषु याति तद्वत् रेभन् शब्दायमानः सन् समनेषु समन्ति कर्माणिधृष्टाः प्रगल्भायंत्यत्रेति समना यज्ञाः तेषु याति गच्छति ॥ १७ ॥


नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वोः॑ पू॒यमा॑नः ।

अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥४८

नु । नः॒ । त्वम् । र॒थि॒रः । दे॒व॒ । सो॒म॒ । परि॑ । स्र॒व॒ । च॒म्वोः॑ । पू॒यमा॑नः ।

अ॒प्ऽसु । स्वादि॑ष्ठः । मधु॑ऽमान् । ऋ॒तऽवा॑ । दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा ॥

नु । नः । त्वम् । रथिरः । देव । सोम । परि । स्रव। चम्वोः । पूयमानः ।

अप्सु । स्वादिष्ठः । मधुऽमान् ।। ऋतऽवा । देवः । न । यः । सविता । सत्यऽमन्मा ॥ ४८ ॥

हे देव काम्यमान हे सोम रथिरो रथवांस्त्वं नोस्माकं स्वभूते यज्ञे चम्वोरधिषवणफलकयोः पूयमानः सन् अप्सु वसतीवरीषु नु क्षिप्रं परिस्रव परितः क्षर । स्वादिष्ठः स्वादुतमः अतएव मधुमान् माधुर्ययुक्तः ऋतावा ऋतवान् यज्ञवान् सविता सर्वस्य प्रेरको यस्त्वं देवो न देव इव सत्यमन्मा सत्यस्तुतिको भवसि सत्वं परिस्रवेति ॥ १८ ॥


अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः ।

अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥४९

अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु॑णा । पू॒यमा॑नः ।

अ॒भि । नर॑म् । धी॒ऽजव॑नम् । र॒थे॒ऽस्थाम् । अ॒भि । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् ॥

अभि । वायुम् । वीती। अर्ष । गृणानः । अभि । मित्रावरुणा । पूयमानः ।

अभि । नरम् । धीऽजवनम् । रथेऽस्थाम् । अभि । इन्द्रम् । वृषणम् । वज्रबाहुम् ॥ ४९ ॥

हे सोम गृणानः स्तूयमानः त्वं वीती सुपांसुलुगिति चतुर्थ्या: पूर्वसवर्णदीर्घः । वीत्यै पानाय वायुमभ्यर्ष अभिगच्छ। तथा पवित्रेण पूयमानस्त्वं मित्रावरुणा मित्रावरुणौ च पानायाभिगच्छ । किंच नरं सर्वस्य नेतारं धीजवनं बुध्यासमंवेगं कुर्वाणं रथेष्ठां रथेस्थां रथे तिष्ठन्तं अनेनाश्विनावभिधीयेते । एकवचनं प्रत्येकविवक्षया समुदायविवक्षया वा। एतादृशावश्विनौ चाभिगच्छ। तथा वृषणं कामानां वर्षकं वज्रबाहुं वज्रयुक्तबाहुं इन्द्रं च त्वं पानायाभिगच्छ॥४९॥


अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः ।

अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥५०

अ॒भि । वस्त्रा॑ । सु॒ऽव॒स॒नानि॑ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒ऽदुघाः॑ । पू॒यमा॑नः ।

अ॒भि । च॒न्द्रा । भर्त॑वे । नः॒ । हिर॑ण्या । अ॒भि । अश्वा॑न् । र॒थिनः॑ । दे॒व॒ । सो॒म॒ ॥

अभि । वस्त्रा । सुऽवसनानि । अर्ष । अभि । धेनूः । सुऽदुघाः । पूयमानः ।

अभि । चन्द्रा । भर्तवे । नः । हिरण्या। अभि। अश्वान् । रथिनः । देव । सोम ॥ ५० ॥ २० ॥

हे सोम त्वमस्माकं सुवसनानि सुपरिधानानि वस्त्रा वस्त्राणि अभ्यर्ष अभिगमय । यद्वा सुवसनानि शोभनवस्त्रसहितानि वस्त्रा आच्छादकानि धनान्यभिगमय । किंच पूयमानः पवित्रेण त्वं सुदुघाः सुष्टुपयसोदोग्ध्रीः धेनूः नवप्रसूतिका गाः अभिप्रापय । अपि च चन्द्रा चन्द्राण्याह्लादकानि हिरण्या हिरण्यानि भर्तवे भरणाय पोषणाय नोस्माकमभिगमय । तथा हे देव स्तोतव्य हे सोम रथिनो रथवतोश्वान् अस्माकमभिप्रापय ॥ ५० ॥


अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः ।

अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्नः॑ ॥५१

अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू॑नि । अ॒भि । विश्वा॑ । पार्थि॑वा । पू॒यमा॑नः ।

अ॒भि । येन॑ । द्रवि॑णम् । अ॒श्नवा॑म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒ऽवत् । नः॒ ॥

अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा। पूयमानः ।

अभि । येन । द्रविणम् । अश्नवाम । अभि । आर्षेयम् । जमदग्निऽवत् । नः ॥ ५१ ॥

हे सोम पवित्रेण पूयमानस्त्वं दिव्या दिव्यानि दिविभवानि वसूनि धनानि नोस्माकमभ्यर्ष अभिगमय । तथा पार्थिवा पार्थिवानि पृथिव्यांभवानि विश्वा सर्वाणि धनान्यभिगमय। तथा येन त्वदीयेन सामर्थ्येन द्रविणं धनं वयमभ्यश्नवाम अभिव्याप्नुयाम तत्सामर्थ्यमभिगमय । किंच आर्षेयं आर्षाणामृषिपुत्राणां योग्यं धनं जमदग्निवत् जमदग्नेर्यथा त्वं प्रापयः एवं नोस्माकमपि अभ्यर्ष । यद्वा आर्षेयं आर्षाणां योग्यं मंत्रं जमदग्नेःस्वभूतमंत्रं यथा स्वादुतममकार्षीः एवमस्माकं तादृशं मंत्रं स्वादुतमं कुर्विति कुत्सो नाम ऋषिः प्रार्थयते ॥ ५१ ॥


अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इ॑न्दो॒ सर॑सि॒ प्र ध॑न्व ।

ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥५२

अ॒या । प॒वा । प॒व॒स्व॒ । ए॒ना । वसू॑नि । माँ॒श्च॒त्वे । इ॒न्दो॒ इति॑ । सर॑सि । प्र । ध॒न्व॒ ।

ब्र॒ध्नः । चि॒त् । अत्र॑ । वातः॑ । न । जू॒तः । पु॒रु॒ऽमेधः॑ । चि॒त् । तक॑वे । नर॑म् । दा॒त् ॥

अया। पवा । पवस्व । एना । वसूनि । मांश्चत्वे । इन्दो इति । सरसि । प्र। धन्व।

ब्रध्नः । चित् । अत्र । वातः । न । जूतः । पुरुमेधः । चित् । तकवे । नरम् । दात् ॥ ५२ ॥

हे सोम अया अनया पवा पवमानया धारया सह एना एनानि वसूनि धनानि पवस्व क्षर । पवा पूङ्पवने अन्येभ्यो दृश्यन्त इति विच्प्रत्ययः आर्धधातुकलक्षणोगुणः सावेका च इति तृतीयाया उदात्तत्वं । तथा हे इन्दो तथा त्वं मांश्चत्वे मन्यमानानां चातके सरसि उदके वसतीवर्याख्ये प्रधन्व प्रगच्छ । ततः अत्र अस्मिन्सोमे पूयमाने सति ब्रध्नः चित् सर्वेषां प्रज्ञापकः मूलभूतो वा आदित्योपि वातो न वात इव जूतः वेगितः सन् किं च पुरुमेधःचित बहुविधयज्ञइन्द्रश्चित् इन्द्रोपि तकवे तकतिर्गतिकर्मसुपठितः अस्मादौणादिकऊन्प्रत्ययः सोममभिगच्छते स्तुतिभिः मह्यं नरं कर्मनेतारं पुत्रं दात् प्रयच्छतु हे सोम त्वया तर्पितौ सन्ताविन्द्रादित्यौ मह्यं पुत्रं प्रयच्छतामित्यर्थः ॥ ५२ ।।


उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे ।

ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥५३

उ॒त । नः॒ । ए॒ना । प॒व॒या । प॒व॒स्व॒ । अधि॑ । श्रु॒ते । श्र॒वाय्य॑स्य । ती॒र्थे ।

ष॒ष्टिम् । स॒हस्रा॑ । नै॒गु॒तः । वसू॑नि । वृ॒क्षम् । न । प॒क्वम् । धू॒न॒व॒त् । रणा॑य ॥

उत । नः । एना। पवया । पवस्व । अधि। श्रुते । श्रवाय्य॑स्य । तीर्थे ।

षष्टिम् । सहस्रा । नैगुतः । वसूनि । वृक्षम् । न । पक्वम् । धूनवत् । रणाय ।। ५३ ॥

हे सोम उतापि च श्रवाय्यस्य सर्वैः श्रवणीयस्य सोमस्य तव श्रुते प्रसिद्धौ यद्वा षष्ठ्यर्थे चतुर्थी श्रुतः शब्दस्य तीर्थे स्थाने नोस्माकं स्वभूते यज्ञे एना अनया पवया पूयमानया धारया अधि अधिकं पवस्व क्षर। नैगुतः नीचीनं गवन्ते शब्दायन्त इति निगुतः शत्रवः । तेषां हन्तृत्वेन संबन्धी सोयं सोमः षष्टिं सहस्रा षष्टिसंख्याकानि सहस्राणि वसूनि धनानि रणाय शत्रूणां जयार्थं धूनवत् अस्माकमकंपयत् प्रायच्छदिति यावत् । कथमिव वृक्षं न पक्कं पक्कफलं वृक्षं यथा कंपयति फलार्थी तद्वत् ॥ ५३॥ ।


मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे ।

अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥५४

महि॑ । इ॒मे इति॑ । अ॒स्य॒ । वृष॒नाम॑ । शू॒षे इति॑ । माँ॒श्च॑त्वे । वा॒ । पृश॑ने । वा॒ । वध॑त्रे॒ इति॑ ।

अस्वा॑पयत् । नि॒ऽगुतः॑ । स्ने॒हय॑त् । च॒ । अप॑ । अ॒मित्रा॑न् । अप॑ । अ॒चितः॑ । अ॒च॒ । इ॒तः ॥

महिं । इमे इति । अस्य । वृषनाम । शूषे इति । मांश्चत्वे । वा। पृशने । वा। वधत्रे इति ।

अस्वापयत्। निगुतः ।। स्नेहयत् । च। अप । अमित्रान् । अप । अचितः । अच । इतः ॥५४॥

महि महती प्रभूते वृषनाम सुपांसुलुगिति सुपो लुक् वृषनामनी वर्षणनमने शराणां वर्षणं शत्रूणां नमनं इमे एते द्वे कर्मणी अस्य सोमस्य शूषे सुखकरेभवतः । ये च कर्मणी मांश्चत्वे अश्वनामैतत् । मक्षू चरतीति अश्वैः क्रियमाणे युद्धे तत्साध्यत्वात् युद्धमिह गृह्यते । वा अपि वा पृशने स्पर्शनसाध्ये बाहुयुद्धे वधवे शत्रूणां हिंसनशीले भवतः सोयं निगुतः नीचैः शब्दायमानान शत्रून् अस्वापयत् ताभ्यामसूषुपत् । अवधीदित्यर्थः । किंच स्नेहयत् प्राद्रवयत संग्रामाच्छत्रून् । अथ प्रत्यक्षतः हे सोम सत्वं अमित्रान् शत्रून् अपाच अपागमय । तथा अचितः अग्निचयनमकुर्वतो नास्तिकांश्च इतोस्मत्सकाशात् अपाच अपगमय अचतिर्गतिकर्मा ॥ ५४॥


सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः ।

असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इन्दो ॥५५

सम् । त्री । प॒वित्रा॑ । विऽत॑तानि । ए॒षि॒ । अनु॑ । एक॑म् । धा॒व॒सि॒ । पू॒यमा॑नः ।

असि॑ । भगः॑ । असि॑ । दा॒त्रस्य॑ । दा॒ता । असि॑ । म॒घऽवा॑ । म॒घव॑त्ऽभ्यः । इ॒न्दो॒ इति॑ ॥

सम् । त्री। पवित्रा । विऽततानि । एषि । अनु । एकम् । धावसि । पूयमानः ।

असि । भगः । असि । दात्रस्य । दाता । असि । मघऽवा । मघवत्भ्यः । इन्दो इति ॥ ५५ ॥ २१ ॥

हे सोम विततानि विस्तृतानि त्री त्रीणि पवित्रा अग्निवायुसूर्यात्मकानि पवित्राणि समेषि सम्यक्प्राप्नोषि । किंच पूयमानस्त्वं एकमविवालकृतंपवित्रं अनुधावसि अनुगच्छसि । किंच त्वं भगो भजनीयोसि तथा दात्रस्य देयस्य धनस्य दातासि । कथमस्य धनदत्वमिति चेत्तदुच्यते । हे इन्दो सोम मघवद्भ्योन्येभ्योपि त्वं मघवासि अतिशयेन धनवान्भवसि ॥ ५५ ॥


ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ।

द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥५६

ए॒षः । वि॒श्व॒ऽवित् । प॒व॒ते॒ । म॒नी॒षी । सोमः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ।

द्र॒प्सान् । ई॒रय॑न् । वि॒दथे॑षु । इन्दुः॑ । वि । वार॑म् । अव्य॑म् । स॒मया॑ । अति॑ । या॒ति॒ ॥

एषः । विश्वऽवित् । पवते । मनीषी । सोमः । विश्वस्य । भुव॑नस्थ । राजा ।

द्रप्सान् । ईरयन् । विदथेषु । इन्दुः । वि । वारम् । अव्यम् । समया अर्ति । याति ॥ ५६ ॥

विश्ववित् सर्वस्य वेत्ता अतएव मनीषी मेधावी विश्वस्य भुवनस्य सर्वस्य लोकस्य राजा स्वामी एष सोमः पवते क्षरति । एतदेव विवृणोति । विदथेषु विन्दन्ति जानंत्यत्र देवानिति । यद्वा विन्दन्ति लभन्ते विदथा यज्ञास्तेषु द्रप्सान् रसकणान् ईरयन् प्रेरयन् । इन्दुः सोमः अव्यं अविभवं वारं वालं पवित्रं समया उभयतः व्यतियाति व्यतीत्य गच्छति ॥५६॥


इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्राः॑ ।

हि॒न्वन्ति॒ धीरा॑ द॒शभि॒ः क्षिपा॑भि॒ः सम॑ञ्जते रू॒पम॒पां रसे॑न ॥५७

इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ ।

हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥

इन्दुम् । रिहन्ति । महिषाः । अदब्धाः । पदे । रेभन्ति । कवयः। न । गृध्राः ।

हिन्वन्ति । धीराः । दशभिः । क्षिपाभिः । सम् । अञ्जते । रूपम् । अपाम् । रसेन ॥ ५७ ॥

महिषा महान्तः पूज्या वा अतएवादब्धाः कैश्चिदप्यहिंसिता देवा इन्दुं सोमं रिहन्ति लिहंत्यास्वादयन्ति । किंच देवाः सोममुशन्तः सन्तः पदे तस्यास्य सोमस्य धारास्थाने रेभन्ति शब्दायन्ते । तत्र दृष्टान्तः कवयो न गृध्राः धनमभिकांक्षमाणाः कवयः स्तोतारो यथा स्तुवन्तः शब्दायन्ते तद्वत् धीराः कर्मणि कुशला ऋत्विजः दशभिः एतत्संख्याकाभिः क्षिपाभिरंगुलीभिः तमिमं सोमं हिन्वंति अभिषवार्थं प्रेरयन्ति । अपि च रूपं अंशु अपां वसतीवर्याख्यानां रसेन समंजते सम्यक्सेवयन्ति ॥ ५७ ॥


त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥५८

त्वया॑ । व॒यम् । पव॑मानेन । सो॒म॒ । भरे॑ । कृ॒तम् । वि । चि॒नु॒या॒म॒ । शश्व॑त् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

त्वया । वयम् । पवमानेन । सोम। भरे । कृतम् । वि । चिनुयाम् । शश्वत् ।

तत् । नः। मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥ ५८ ॥ २२ ॥

हे सोम पवमानेन पवित्रेण पूयमानेन त्वया सहायेन भरे संग्रामनाम संग्रामे शश्वद्बहु कृतं कर्तव्यं वयं विचिनुयाम विशेषेण कुर्याम । यस्मात्तवसहायेन कर्माणि कुर्मः तत्तस्मात् नोस्मान् मित्रो वरुणः अदितिः एतन्नामका सिंधुः एतदभिधाना च पृथिवी उतापि च द्यौः एते मित्रादयो नोस्मान् मामहंतां पूजयन्तु धनादिदानेन ॥ ५८ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९७&oldid=161992" इत्यस्माद् पुनः प्राप्तिः