सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/दाशस्पत्यम्

विकिस्रोतः तः
दाशस्पत्यम्
दाशस्पत्यम्

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ।। १०१९ ।। ऋ. ९.९७.१०
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ।। १०२० ।।
अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ।। १०२१ ।।

[सम्पाद्यताम्]

टिप्पणी

इन्दुर्वाजी पवते गोन्योघा"इति सिमानां रूपं स्वेनैवैनास्तद्रूपेण समर्धयति त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते - तांब्रा १३.५

दाशस्पत्यानि