सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/प्रथमादशतिः/अग्निर्वैश्वानरः

विकिस्रोतः तः
अग्निर्वैश्वानरः.


तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां ।
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ।। ८५९ ।। ऋ. ९.९७.३४
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ।। ८६० ।।
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिं ।। ८६१

३. अग्निर्वैश्वानरः । त्रिष्टुप् । पवमानस्सोमः ॥
तिस्रोवाचाः । ईऽ३रय । तिप्रवह्नीः ॥ ऋतस्यधाइ । तीऽ३म्ब्रह्म ॥ णोमनीषाम् ॥ गावयन्ताइ । गोऽ३पतिम् । पृच्छमानाः ॥ सोमंयन्ताइ । मतयः । वावशानाः ॥ श्रीः ॥ सोमंगावो । धेऽ३नवः । वावशानाः ॥ सोमंविप्राः । मतिभिः । पृच्छमानाः ॥ सोमस्सुताः । ऋच्यते । पूयमानाः ॥ सोमेअर्काः । त्रिष्टुभः । सन्नवन्ताइ ॥श्रीः ॥ एवानस्सो । माऽ३परि । षिच्यमानाः ॥ आपवस्वा । पूऽ३यमा । नस्सुवस्ती ॥ इन्द्रमावाइ । शाऽ३ बृह । तामदेना ॥ वर्द्धयावा । चाऽ३ञ्जन । यापुरन्धिम् ॥ ए । आज्यदोहाऽ२३४५म् ॥

दी. ३४. उ. १७. मा. २५. धु. ॥ ९५ ॥