सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.2 द्वितीयप्रपाठकः/2.2.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः


एत असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
विश्वान्यभि सौभगा ।। ८३० ।। ऋ. ९.६२.१
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
त्मना कृण्वन्तो अर्वतः ।। ८३१ ।।
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिं ।
इडामस्मभ्यं संयतं ।। ८३२ ।।

टिप्पणी

एते असृग्रम् इन्दवः इति बहूनां संयजमानानां प्रतिपदं कुर्यात्। एते इत्य् एवैनान् ज्यैष्ठयायाभिवदति छन्दसैवैनान् रूपिणा समावद्भाजः करोति। समावत्य् एनान् यज्ञस्याशीर् आगच्छति। प्रजापतिर् यत् प्रजा असृजत ता एनयैव प्रतिपदासृजत। एते इत्य् एव देवान् असृजत असृग्रम् इति मनुष्यान् इन्दवः इति पितृन् तिरः पवित्रम् इति ग्रहान् आशवः इति स्तोमान् विश्वानि इत्य् उक्थानि अभि सौभगा इत्य् एवैनान् जातान् सौभाग्येनाभ्यानक्। प्रजापतिर् एव भूतः प्रजास् सृजते य एवं विद्वान् एतया प्रतिपदोद्गायति। अथो हैनास् तत् सौभाग्येनैवाभ्यानक्ति॥ - जै.ब्रा. १.९४



राजा मेधाभिरीयते पवमानो मनावधि ।
अन्तरिक्षेण यातवे ।। ८३३ ।।
आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
सुष्वाणो देववीतये ।। ८३४ ।।
आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यं ।
वहा भगत्तिमूतये ।। ८३५ ।।



तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
चारुं सुकृत्ययेमहे ।। ८३६ ।।
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदं ।
शतं पुरो रुरुक्षणिं ।। ८३७ ।।
अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः ।
सुपर्णो अव्यथी भरत् ।।८३८ ।।
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
अभिष्टिकृद्विचर्षणिः ।। ८३९ ।।
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरं ।
गोपामृतस्य विर्भरत् ।।८४० ।।


इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
इन्दो रुचाभि गा इहि ।। ८४१ ।।
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
हरे सृजान आशिरं ।। ८४२ ।।
पुनानो देववीतय इन्द्रस्य याहि निष्कृतं ।
द्युतानो वाजिभिर्हितः ।। ८४३ ।।


अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
हव्यवाड्जुह्वास्यः ।। ८४४ ।।
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
तस्य स्म प्राविता भव ।। ८४५ ।।
यो अग्निं देववीतये हविष्मां आविवासति ।
तस्मै पावक मृडय ।। ८४६ ।।


मित्रं हुवे पूतदक्षं वरुणं च रिशादसं ।
धियं घृताचीं साधन्ता ।। ८४७ ।। ऋ. १.२.७
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ।। ८४८ ।।
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसं ।। ८४९ ।।

टिप्पणी

प्रक्षेपितलोष्टस्य ऋजु एवं अनृजु पथः - अल्पतमक्रियासिद्धान्तः

दशरात्रे तृतीये अहनि मैत्रावरुणस्य आज्यं - मित्रं हुवे पूतदक्षमिति राथन्तरं मैत्रावरुणम्। हुव इति वै राथन्तरं रूपम्। रथन्तरमेतत् परोक्षं यद्वैरूपं राथन्तरमेव तद्रूपं निर्द्योतयति। - पञ्च.ब्रा. १२.२.३

दशरात्रे नवमेअहनि मैत्रावरुणस्य आज्यम् - मित्रं हुवे पूतदक्षम्"इति राथन्तरं मैत्रावरुणम् - पञ्च.ब्रा. १५.२.५

दशरात्रे तृतीये अहनि मैत्रावरुणस्य आज्यम् - मित्रं हुवे पूतदक्षम् इति मैत्रावरुणं भवति। हु इति वै रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। वरुणं च रिशादसं धियं घृताचीं साधन्तेति सिद्धया एव। ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा। क्रतुं बृहन्तम् आशाथे॥ कवी नो मित्रावरुणा इति वीति भवत्य् अन्तरिक्षस्य रूपम्। अन्तरिक्षभाजनम् एतद् अहः। - जैब्रा ३.३८



इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्च्चसा ।। ८५० ।।
आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
दधाना नाम यज्ञियं ।। ८५१ ।।
वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ।। ८५२ ।।


ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतं ।
इन्द्राग्नी न मर्धतः ।। ८५३ ।। ऋ. ६.६०.४
उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
ता नो मृडात ईदृशे ।। ८५४ ।।
हथो वृत्राण्यार्या हथो दासानि सत्पती ।
हथो विश्वा अप द्विषः ।। ८५५ ।।

टिप्पणी

ता हुवे ययोर् इदम् इत्य् ऐन्द्राग्नं भवति। वाचम् एवैतद् यज्ञम् ऊहिषीमन्त त उपह्वयन्ते पप्ने विश्वं पुरा कृतम् इति। पुरेव ह्य् एतद् एतर्हि कृतं भवति। इन्द्राग्नी न मर्धतः। उग्रा विघनिना मृध इति। वीति भवत्य् अन्तरिक्षस्य रूपम् अन्तरिक्षभाजनम् एतद् अहः। हथो वृत्राण्य् आर्या हथो दासानि सत्पती। हथो विश्वा अप द्विषः॥ इति वार्त्रघ्नं भवत्य् अन्ततो विजित्यै। एतेन वै त्र्यहेण देवा अग्रे व्यजयन्त। तद् यद् एतद् वार्त्रघ्नम् अन्तत आज्यं क्रियते, विजित्या एव भ्रातृव्यस्यैव वधाय। विजयते, हन्ति द्विषन्तं भ्रातृव्यं, य एवं वेद। सप्तदश स्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एवैतत् प्रतितिष्ठन्तो यन्ति॥जैब्रा ३.३९



अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।।
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।
पौरुमद्गं साम
उभयस्तोभं गौतमम्
अन्तरिक्षम्
आष्कारणिधनं काण्वं
द्विहिङ्कारवामदेव्यम्
गायत्रपार्श्वम्
पौरुहन्मनम्
द्वैगतम्
हारायणम्
अच्छिद्रम्
आनूपम्

नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः।।८५८।।
बार्हदुक्थम्

१०
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां ।
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ।। ८५९ ।।
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ।। ८६० ।।
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिं ।। ८६१ ।।
अङ्गिरसां संक्रोशः
अग्निर्वैश्वानरः


११
यद्याव इन्द्र ते शतंशतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ।। ८६२ ।।
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ।। ८६३ ।।
वैरूपम्
महावैष्टम्भे

१२
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ।। ८६४ ।।
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ।। ८६५ ।।
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं ।
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ।। ८६६ ।।
महावैष्टम्भम्


१३
तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं ।। ८६७ ।।
न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् ।
सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि ।। ८६८ ।।
रौरवम्


१४
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
हरिरेति कनिक्रदत् ।।८६९ ।।
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः ।
मर्जयन्तीर्दिवः शिशुं ।। ८७० ।।
रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणः ।। ८७१ ।।
पाष्ठौहम्


१५
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ।। ८७२ ।।
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः ।। ८७३ ।।
सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे ।। ८७४ ।।
त्र्यन्तं त्वाष्ट्रीसाम
गौरीवितम्


१६
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ।। ८७५ ।।
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् ।
अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ।। ८७६ ।।
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ।। ८७७ ।।
अरिष्टम्
षडिडपदस्तोभः


१७
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ।। ८७८ ।।
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ।।८७९ ।।
प्रमंहिष्ठीयम्

१८
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं ।
उ लोककृत्नुमद्रिवो हरिश्रियं ।। ८८० ।।
येन ज्योतींष्यायवे मनवे च विवेदिथ ।
मन्दानो अस्य बर्हिषो वि राजसि ।। ८८१ ।।
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
वृषपत्नीरपो जया दिवेदिवे ।। ८८२ ।।
हारिवर्णम्


१९
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ।। ८८३ ।।
यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् ।
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीं ।। ८८४ ।।
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ।। ८८५ ।।
तैरश्च्यम्