सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/उभयतस्तोभं गौतमम्
अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.२३.४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।
१५. उभयतस्तोभं गौतमम् ।। गोतमः । बृहती। पवमानः सोमः।
हावभिसोमासआयवोहाउ ॥ पावन्तेम । दियाम्मदाऽ२३४म् । हाहोइ। समुद्रस्याधिविष्टपे। मानीषिणाऽ३४ः । हाहोइ ॥ मात्सरासाऽ३४: । हाहोऽ३॥ मदोऽ२३४वा । च्यूऽ५तोऽ६"हाइ ॥ श्रीः ॥ हाउ । मत्सरासोमदच्युतोहाउ॥ मात्सरासः । मदाच्युताऽ२३४ः। हाहोइ। तरत्समुद्रम्पवमा । नाऊर्मिणाऽ३४ । हाहोई || राजादाइवाऽ३४ः । हाहोऽ३इ ॥ ऋतोऽ२३४वा। बृऽ५होऽ६"हाइ ॥ श्रीः ॥ हाउराजादेवऋतंबृहद्धाउ ।। राजादेवः । ऋतांबृहाऽ२३४त् । हाहोइ । अर्षामित्रस्यवरुण। स्याधर्मणाऽ३४ । हाहोइ ॥ प्राहिन्वानाऽ३४ः । हाहोऽ३इ ॥ ऋतोऽ२३४वा । बॄऽ५होऽ६"हाइ
दी. ३३. उत् . ७. मा. २९. ठो. ॥५५॥
टिप्पणी
अथ गौतमम्। उभौ वर्णौ समृद्धयै बार्हतं प्रस्तावेन राथन्तरम् ऊर्ध्वम्। गोतमो वै राहूगणो ऽकामयत सातसनि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सातसनिर् अभवत्। सातसनयो ऽसामेति सत्रम् आसते। सातसनय एव भवन्ति। तद् ये च ह वै गोतमाद् ऋषयः पराञ्चो ये चार्वाञ्चस् ते गोतमम् एवर्षिम् उभय उपासते। एतं हि स महिमानम् अपश्यत्। ये च हास्मात् पराञ्चः पितरो भवन्ति, ये चार्वाञ्चस् त एनम् उभय उपासते य एवं वेद। यद् उ गोतमो राहूगणो ऽपश्यत् तस्माद् गौतमम् इत्य् आख्यायते॥जैब्रा ३.४४॥