सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः १/महावैष्टम्भे(यद्द्याव)

विकिस्रोतः तः
महावैष्टम्भे.
महावैष्टम्भे.

यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ।। ८६२ ।। ऋ. ८.७०.५
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ।। ८६३ ।।

[सम्पाद्यताम्]

टिप्पणी

वैरूपाणि (आरण्यकम्)