यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ।। ८६२ ।। ऋ. ८.७०.५ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ।। ८६३ ।।
टिप्पणी
वैरूपाणि (आरण्यकम्)