सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/अङ्गिरसां संक्रोशः

विकिस्रोतः तः
अङ्गिरसांसंक्रोशः
अंगिरसां संक्रोशः.

१०
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां ।
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ ८५९ ॥ ऋ. ९.९७.३४
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥ ८६० ॥
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिं ॥ ८६१ ॥


१७ अङ्गिरसां संक्रोशः ।। अङ्गिरसः । त्रिष्टुप् । पवमानः सोमः ।
होइ । हो । हाऽ३होइ । तिस्रोवाचाः । ईऽ३रय । तिप्रवह्नीः ।। ऋतस्यधाइ । तीऽ३म्ब्रह्म । णोमनीषाम् ।। गावोयन्ताइ । गोऽ३पतिम् । पृच्छमानाः ।। सोमंयन्ताइ । मतयः । वाऽ३४३ । वाऽ३शाऽ५”ना६५६ः ।। श्रीः ।। सोमङ्गावो । धेऽ३नवः । वावशानाः ।। सोमंविप्राः । मतिभिः । पृच्छमानाः ।। सोमस्सुताः । ऋच्यते । पूयमानाः ।। सोमो अर्काः । त्रिष्टुभः । साऽ३४३म् । नाऽ३वाऽ५”न्ताऽ६५६इ ।। श्रीः ।। एवानस्सो । माऽ३परि । षिच्यमानाः ।। आपवस्वा । पूऽ३यमा । नस्सुवस्ती ।। इन्द्रमावाइ । शाऽ३बृह । तामदेना ।। होइ । हो । हाऽ३होई। । वर्धयावा । चाऽ३ञ्जन । याऽ३४३ । पूऽ३राऽ५”न्धाऽ६५६इम् ।। दी. १८ उत् १६ मा. ३०. टौम ।।५७।।

[सम्पाद्यताम्]

टिप्पणी

तासु संक्रोशः। संक्रोशेन वै देवास् संक्रोशमाना स्वर्गं लोकम् आयन्। यत् संक्रोशमाना स्वर्गं लोकम् आयंस् तत् संक्रोशस्य संक्रोशत्वम्। तद् एतत् स्वर्ग्यं साम। संक्रोशमान एवैतेन स्वर्गं लोकम् एति य एवं वेद। तद् व एवाचक्षते ऽङ्गिरसां संक्रोश इति। अंगिरसो वा अकामयन्त - संविदाना एव संक्रोशमाना स्वर्गं लोकम् इयामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते संविदाना एव संक्रोशमाना स्वर्गं लोकम् आयन्। यत् संक्रोशमाना स्वर्गं लोकम् आयंस् तद् व् एव संक्रोशस्य संकोशत्वम्। तद् एतत् स्वर्ग्यं साम। संविदान एवैतेन संक्रोशमान स्वर्गं लोकम् एति य एवं वेद। तच् छ्रीर् वै स्वर्गो लोकः। अश्नुते श्रियं, गच्छति स्वर्गं लोकं, य एवं वेद। यद् व् अङ्गिरसो ऽपश्यंस् तस्माद् अङ्गिरसां संक्रोश इत्य आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च हे ये हो वा हा हो इत्य् एवानेनाङ्गिरसो ऽह्वयन्। हा वा ओ वा इत्य् एतेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्यं, स्वर्गस्य लोकस्य समष्टयै॥जैब्रा ३.४७

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्। चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव।। महाभारतम् १.१४.२

अङ्गिरसोपरि टिप्पणी