सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/द्वितीयादशतिः/षडिडपदस्तोभः

विकिस्रोतः तः
षडिडस्पदस्तोभः.
षडिडस्पदस्तोभः

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ।। ८७५ ।।
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् ।
अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ।। ८७६ ।।
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ।। ८७७ ।। ऋ. ९.८३.१

९. षडिडपदस्तोभः ॥ प्रजापतिः। जगती। पवमानस्सोमः॥
पवित्रन्तेवित । इडा । तंब्रह्मणस्पते ।। ईडा। प्रभुर्गात्राणिपरियेषिविश्वतः । ईडा ॥ अतप्ततनूर्न । ईडा। तदामोअश्नुते ॥ ईडा । शृतासइद्वहन्तस्सन्तदाशताऽ२३४५ ॥ ईडा ॥श्रीः।। तपोष्पवित्रंवि । ईडा । ततंदिवस्पदे ॥ ईडा । अर्चन्तोअस्यतन्तवोव्यस्थिरन् । ईडा ॥ अवन्तियस्यप । ईडा । वितारमाशवः ईडा । दिवᳲपृष्ठमधिरोहन्तितेजसाऽ१ । ईडा ॥श्रीः।। अरूरुचदुष। ईडा । सᳲपृश्निरग्रियः ॥ ईडा । उक्षामिमेतिभुवनेषुवाजयुः। ईडा । मायाविनोममि। ईडा।। रेअस्यमायया ॥ ईडा । नृचक्षसᳲपितरोगर्भमादधूऽ२३४५ः ॥ ईडा ।।
दी. ६८. उ. ९. मा. १०. ढौ. ॥१०८॥

[सम्पाद्यताम्]

टिप्पणी