सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ८/औशनम्(आजागृ)

विकिस्रोतः तः
औशनम्

आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु ।
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ १३५७ ॥ ऋ. ९.९७.३७
स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः ।
प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ॥१३५८ ॥
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।
यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९ ॥


५. औशनम् ॥ उशनाः। त्रिष्टुप् । पवमानस्सोमः॥

आजा ॥ गृविर्विप्रऋताम् । मतीऽ३नाम् । सोमᳲपुना । नोऽ३अस । दच्चमूषू । सपन्तियंमिथुनासो। निकाऽ२३माः ॥ अध्वर्यवो । रथिरा । साऽ३४३: । सूऽ३हाऽ५”स्ताऽ६५६ः ॥ श्रीः ॥ सापू ॥ नानउपसूरे। दधाऽ३नाः। ओभेअप्राः । रोऽ३दसी। वीषआवाः । प्रियाचिद्यस्यप्रियसा। सऊऽ२३ती ॥ सतोधनाम् ॥ कारिणे । नाऽ३४३ । प्राऽ३याऽ५ꣲ”साऽ६५६त् ॥श्रीः।। सावा ॥ धितावर्द्धनᳲपू । यमाऽ३नाः । सोमोमीढ्वꣲ । अभिनः । ज्योतिषावीत् । यत्रनᳲपूर्वेपितराः । पदा२३ज्ञाः॥ सुवर्विदो ॥ अभिगाः । आऽ३४३ । द्राऽ३इमाऽ५इ”ष्णाऽ६५६न् ।।

दी. १९. उ. १०. मा. २५. नु. ॥६७७।।

[सम्पाद्यताम्]

टिप्पणी

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४