सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ३/उशनाः(इदंश्रे)

विकिस्रोतः तः
उशनाः

इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥१७४९ ॥ ऋ. १.११३.१
रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ १७५० ॥
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ १७५१ ॥


९. उशनाः। त्रिष्टुप् । उषाः॥

आइदाम् ॥ श्रेष्ठञ्ज्योतिषाञ्ज्यो । तिराऽऽगात् । चित्रᳲप्रकाइ । तोऽ३अज । निष्टविभ्वा । यथाप्रसूतासवितूः । सवाऽ२३या ॥ एवारात्राइ । उषसे । योऽ३४३ । नाऽ३इमाऽ५”राऽ६५६इक् ॥श्रीः।। रूशात् ।। वत्सारुशतीश्वे । तियाऽगात् । आरैगुका। ष्णाऽ३सद । नानियस्याः । समानबन्धूअमृते । अनूऽ२३ची ॥ द्यावावर्णाम् ॥ चरतः । आऽ३४३ । माऽइनाऽ५”नाऽ६५६इ ॥ श्रीः ॥ सामा॥ नोअध्वास्वस्रोः। अनाऽ३न्ताः। तमन्यान्या । चरतः । देवशिष्टाइ । नमेथतेनतस्थतूः । सुमेऽ२३काइ ॥ नक्तोषासा ।। समन । साऽ३४३ । वाऽ३इरूऽ५"पाऽ६५६इ ।।

दी. २६. उ. १०. मा. २७. ङे. ॥७२७।।

[सम्पाद्यताम्]

टिप्पणी

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४