सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ३/औशनानि(अबोधि)

विकिस्रोतः तः


औशनानि

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ १७४६ ॥ ऋ. ५.१.१
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ १७४७ ॥
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ १७४८ ॥


८. औशनानि ।। उशनाः । त्रिष्टुप् । अग्निः ॥

आबो ॥ धियग्निस्समिधा । जनाऽ३नाम् । प्रतिधेनूम् । इवाय । तीमुषासाम् । यह्वाइवप्रवयामूत् । जिहाऽ२३नाः ॥ प्रभानवाः ॥ सस्रते । नाऽ३४३ । काऽ३माऽ५"च्छाऽ६५६ ॥ श्रीः ।। आबो । घिहोतायजथा । यदाऽ३इवान् । ऊर्ध्वोअग्नाइः । सुमनाः । प्रातरस्थात् । समिद्धस्यरुशददा। शिपाऽ२३जाः ॥ महान्देवाः ॥ तमसः । नाऽ३४३इः । आऽ३मोऽ५"चाऽ६५६इ ॥श्रीः।। यादीम् ।। गणस्यरशनाम् । अजाऽ३इगाः । शुचिरङ्क्ताइ । शुचिभिः । गोभिरग्नाइः । आद्दक्षिणायुज्यतेवा । जयाऽ२३न्ती ॥ उत्तानामू ॥ ध्वोऽ३अध। याऽ३४३त् । जूऽ३हूऽ५"भाऽ६५६इः॥

दी. १९. उ. ११. मा. ३२. ता. ॥७२६॥


[सम्पाद्यताम्]

टिप्पणी

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४