ऋग्वेदः सूक्तं ५.१

विकिस्रोतः तः
Jump to navigation Jump to search
ऋग्वेदः - मण्डल ५
सूक्तं ५.१
बुधगविष्ठिरावात्रेयौ
सूक्तं ५.२ →
दे. अग्निः। त्रिष्टुप् ।


अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥१॥
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥२॥
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥३॥
अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति ।
यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥४॥
जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।
दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् ॥५॥
अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके ।
युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥६॥
प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः ।
आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥७॥
मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥८॥
प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ ।
ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम् ॥९॥
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥१०॥
आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् ।
विद्वान्पथीनामुर्वन्तरिक्षमेह देवान्हविरद्याय वक्षि ॥११॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत् ॥१२॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

॥ अथ पञ्चमं मण्डलम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥


आत्रेये पञ्चमे मण्डले षडनुवाकाः । तत्र प्रथमेऽनुवाके चतुर्दश सूक्तानि । तत्र ‘ अबोध्यग्निः ' इति द्वादशर्चं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका–’ अबोधि द्वादश बुधगविष्ठिरौ ' इति । पञ्चमे मण्डलेऽनुक्तगोत्रमात्रेयं विद्यादिति परिभाषितत्वादात्रेयौ बुधगविष्ठिरावृषी । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता । प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चैतदादिचत्वारि सूक्तानि । तथा च सूत्रितम्- अबोध्यग्निः समिधेति चत्वारि ' ( आश्व.श्रौ. ४. १३ ) इति ॥ अध्यायोत्सर्जनोपाकरणयोर्धामन्ते विश्वमिति द्वृचत्वेन विनियोग उक्तः ॥


अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षासं॑ ।

य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥१

अबो॑धि । अ॒ग्निः । स॒म्ऽइधा॑ । जना॑नाम् । प्रति॑ । धे॒नुम्ऽइ॑व । आ॒ऽय॒तीम् । उ॒षस॑म् ।

य॒ह्वाःऽइ॑व । प्र । व॒याम् । उ॒त्ऽजिहा॑नाः । प्र । भा॒नवः॑ । सि॒स्र॒ते॒ । नाक॑म् । अच्छ॑ ॥१

अबोधि । अग्निः । सम्ऽइधा । जनानाम् । प्रति । धेनुम्ऽइव । आऽयतीम् । उषसम् ।

यह्वाःऽइव । प्र । वयाम् । उत्ऽजिहानाः । प्र । भानवः । सिस्रते । नाकम् । अच्छ ॥१

अयं “अग्निः “जनानाम् अध्वर्य्वादीनां “समिधा समिद्भिः “अबोधि प्रबुद्धोऽभूत् । “धेनुमिव । अग्निहोत्रार्थधेनुं प्रति यथा प्रातर्बुध्यते तद्वत् “आयतीम् आगच्छन्तीम् “उषसं "प्रति । उषःकाले इत्यर्थः । अथ प्रबुद्धस्याग्नेः “भानवः ज्वालाः "यह्वाः महान्तः “वयां शाखां “प्र “उज्जिहानाः प्रोद्गमयन्तो वृक्षाः इव प्रोज्जिहानाः स्वाधिष्ठानं त्यजन्तः “नाकम् अन्तरिक्षम् “अच्छ आभिमुख्येन “प्र “सिस्रते प्रसरन्ति ।


अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः॑ प्रा॒तर॑स्थात् ।

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हांदे॒वस्तम॑सो॒ निर॑मोचि ॥२

अबो॑धि । होता॑ । य॒जथा॑य । दे॒वान् । ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽमनाः॑ । प्रा॒तः । अ॒स्था॒त् ।

सम्ऽइ॑द्धस्य । रुश॑त् । अ॒द॒र्शि॒ । पाजः॑ । म॒हान् । दे॒वः । तम॑सः । निः । अ॒मो॒चि॒ ॥२

अबोधि । होता । यजथाय । देवान् । ऊर्ध्वः । अग्निः । सुऽमनाः । प्रातः । अस्थात् ।

सम्ऽइद्धस्य । रुशत् । अदर्शि । पाजः । महान् । देवः । तमसः । निः । अमोचि ॥२

अयं “होता होमनिष्पादकः “अग्निः “देवान् यष्टव्यान् “यजथाय यष्टुम् "अबोधि बुध्यते । सोऽग्निः प्रातःकाले “सुमनाः शोभनमनस्को यजमानानुग्रहबुद्धिः सन् “ऊर्ध्वः “अस्थात् उत्तिष्ठति । “समिद्धस्य अस्य “रुशत् रोचमानं “पाजः बलं ज्वालालक्षणम् “अदर्शि दृश्यते । एवंभूतः “महान् “देवः “तमसः अन्धकारात् “निरमोचि निर्मुक्तोऽभूत् ॥


यदीं॑ ग॒णस्य॑ रश॒नामजी॑गः॒ शुचि॑रंक्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः ।

आद्दक्षि॑णा युज्यते वाज॒यंत्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ॥३

यत् । ई॒म् । ग॒णस्य॑ । र॒श॒नाम् । अजी॑ग॒रिति॑ । शुचिः॑ । अ॒ङ्क्ते॒ । शुचि॑ऽभिः । गोभिः॑ । अ॒ग्निः ।

आत् । दक्षि॑णा । यु॒ज्य॒ते॒ । वा॒ज॒ऽयन्ती॑ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः॑ ॥३

यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिऽभिः । गोभिः । अग्निः ।

आत् । दक्षिणा । युज्यते । वाजऽयन्ती । उत्तानाम् । ऊर्ध्वः । अधयत् । जुहूभिः ॥३

“यत् यदा “ईम् अयमग्निः “गणस्य संघात्मकस्य जगतः “रशनां रज्जुमिव व्यापारप्रतिबन्धकं तमः "अजीगः । गिरति गृह्णाति वा । समिद्धो भवतीत्यर्थः । तदा “शुचिः दीप्तः “अग्निः शुचिभिर्गोभिः दीप्तैः रश्मिभिः “अङ्क्ते व्यनक्ति विश्वं जगत् । “आत् अनन्तरमेव “दक्षिणा प्रवृद्धा “वाजयन्ती अन्नमिच्छन्त्याज्यधारा "युज्यते युक्ता भवति । अथवा दक्षिणा प्रवृद्धाज्यधारा युज्यते । तां च धाराम् “उत्तानाम् ऊर्ध्वतानामुपरि विस्तृताम् “ऊर्ध्वः उन्नतः सन् “जुहूभिः “अधयत् पिबति ॥


अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रंति ।

यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्नां॑ ॥४

अ॒ग्निम् । अच्छ॑ । दे॒व॒ऽय॒ताम् । मनां॑सि । चक्षूं॑षिऽइव । सूर्ये॑ । सम् । च॒र॒न्ति॒ ।

यत् । ई॒म् । सुवा॑ते॒ इति॑ । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । श्वे॒तः । वा॒जी । जा॒य॒ते॒ । अग्रे॑ । अह्ना॑म् ॥४

अग्निम् । अच्छ । देवऽयताम् । मनांसि । चक्षूंषिऽइव । सूर्ये । सम् । चरन्ति ।

यत् । ईम् । सुवाते इति । उषसा । विरूपे इति विऽरूपे । श्वेतः । वाजी । जायते । अग्रे । अह्नाम् ॥४

“अग्निं देवम् "अच्छ आभिमुख्येन “देवयतां देवानात्मन इच्छतां यजमानानां "मनांसि “सं “चरन्ति । देवा यष्टव्यास्तदर्थं कदायं वर्धिष्यतीति ध्यायन्तीत्यर्थः । "चक्षूंषीव सर्वेषां प्राणिनां यथा "सूर्ये संचरन्ति तद्वत् । "यत् यदा “ईम् एनमग्निम् "उषसा सह "विरूपे नानारूपे द्यावापृथिव्यौ "सुवाते जनयतः । तदानीं "श्वेतः प्रकृष्टवर्णोपेतः “वाजी वेजनवानग्निः "अह्नाम् "अग्रे उदयकाले “जायते प्रवर्धत इत्यर्थः ॥


जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।

दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥५

जनि॑ष्ट । हि । जेन्यः॑ । अग्रे॑ । अह्ना॑म् । हि॒तः । हि॒तेषु॑ । अ॒रु॒षः । वने॑षु ।

दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नः । अ॒ग्निः । होता॑ । नि । स॒सा॒द॒ । यजी॑यान् ॥५

जनिष्ट । हि । जेन्यः । अग्रे । अह्नाम् । हितः । हितेषु । अरुषः । वनेषु ।

दमेऽदमे । सप्त । रत्ना । दधानः । अग्निः । होता । नि । ससाद । यजीयान् ॥५

अयमग्निः "जेन्यः उत्पादनीयः "अह्नां "अग्रे उदयकाले “जनिष्ट प्रादुरभूत् । पश्चात् "हितेषु "वनेषु वनोत्थेषु काष्ठेषु "अरुषः आरोचमानः सन् “हितः स्थापितः । पश्चात् "दमेदमे तत्तद्यागगृहे “सप्त "रत्ना रमणीयाः सप्त ज्वालाः दधानः धारयमाणः । अथवा यजमानेभ्यः सप्तविधानि रत्नानि दधानः "अग्निः "होता होमनिष्पादकः सन् "यजीयान् यष्टव्यः सन् “नि "षसाद नषण्णो भवति ॥


जीवति यजमाने मृत इति शब्दो यदि स्यात्तदानीं सुरभिमतीष्टिः कार्या । तत्रेयमनुवाक्या। सूत्रितं च-- अग्निर्होता न्यसीदद्यजीयान्साध्वीमकर्देववीतिं नो अद्य ' (ऐ.ब्रा. ७. ९) इति ॥

अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के ।

युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥६

अ॒ग्निः । होता॑ । नि । अ॒सी॒द॒त् । यजी॑यान् । उ॒पऽस्थे॑ । मा॒तुः । सु॒र॒भौ । ऊं॒ इति॑ । लो॒के ।

युवा॑ । क॒विः । पु॒रु॒निः॒ऽस्थः । ऋ॒तऽवा॑ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये॑ । इ॒द्धः ॥६

अग्निः । होता । नि । असीदत् । यजीयान् । उपऽस्थे । मातुः । सुरभौ । ऊं इति । लोके ।

युवा । कविः । पुरुनिःऽस्थः । ऋतऽवा । धर्ता । कृष्टीनाम् । उत । मध्ये । इद्धः ॥६

अयम् "अग्निः "होता होमनिष्पादकः सन् "यजीयान् यष्टव्यश्च सन् "न्यसीदत् निषसाद । कुत्रेति तदुच्यते । "मातुः सर्वस्य निर्मातुर्भूम्याः “उपस्थे उत्संगे तत्रापि “सुरभौ आज्यादिसौरभ्ययुक्ते "लोके सर्वैर्द्रष्टव्ये स्थाने वेदिलक्षणे । “उत अपि च "युवा नित्यतरुणः सर्वत्र मिश्रितो वा “कविः मेधावी “पुरुनिःष्ठः बहुस्थानः “ऋतावा यज्ञवान् “धर्ता सर्वस्य धारक एवंभूतः सन् "कृष्टीनाम् ऋत्विग्यजमानानां "मध्ये "इद्धः समिद्धः सन् । वर्तत इति शेषः ॥ ॥ १२ ॥


प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः ।

आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजंति वा॒जिनं॑ घृ॒तेन॑ ॥७

प्र । नु । त्यम् । विप्र॑म् । अ॒ध्व॒रेषु॑ । सा॒धुम् । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । नमः॑ऽभिः ।

आ । यः । त॒तान॑ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । नित्य॑म् । मृ॒ज॒न्ति॒ । वा॒जिन॑म् । घृ॒तेन॑ ॥७

प्र । नु । त्यम् । विप्रम् । अध्वरेषु । साधुम् । अग्निम् । होतारम् । ईळते । नमःऽभिः ।

आ । यः । ततान । रोदसी इति । ऋतेन । नित्यम् । मृजन्ति । वाजिनम् । घृतेन ॥७

“त्यं तम् "अग्निं "नमोभिः स्तुतिभिः "नु क्षिप्रं “प्र “ईळते स्तुवन्ति। कीदृशं तम् । "विप्रं मेधाविनम् "अध्वरेषु "साधुं फलसाधकं "होतारं होमनिष्पादकम् । "यः देवः "रोदसी द्यावापृथिव्यौ “ऋतेन उदकेन “आ “ततान विस्तारितवान् । अग्नौ प्रास्ताहुतेरादित्यद्वारा वृष्ट्युत्पादकत्वात् । अथवा ऋतेन सत्यभूतेन हविषा दिवं तथाभूतेन वृष्ट्यादिफलेन भुवं च आततान । “वाजिनम् अन्नवन्तं देवं यजमानाः "नित्यं "घृतेन उदकेनाज्येन वा "मृजन्ति परिचरन्ति ॥


मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ ।

स॒हस्र॑शृंगो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥८

मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ ।

स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जाः । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥८

मार्जाल्यः । मृज्यते । स्वे । दमूनाः । कविऽप्रशस्तः । अतिथिः । शिवः । नः ।

सहस्रऽशृङ्गः । वृषभः । तत्ऽओजाः । विश्वान् । अग्ने । सहसा । प्र । असि । अन्यान् ॥८

मार्जाल्यः संमार्जनीयोऽयमग्निः "मृज्यते परिचर्यते । "स्वे स्वकीये स्थाने । कीदृशोऽयम् । “दमूनाः दानमना दान्तमना वा "कविप्रशस्तः कविभिर्मेधाविभिः प्रशस्तः प्रकर्षेण स्तुत्यः "नः अस्माकम् "अतिथिः अतिथिवत् पूज्यः "शिवः सुखकरश्च । "सहस्रशृङ्गः अपरिमितज्वालः "वृषभः वर्षिता फलानां “तदोजाः । यत्प्रसिद्धं बलं तेजो वास्ति तदेवौजो यस्य तादृशः । सर्वबलस्वरूप इत्यर्थः । अथ प्रत्यक्षवादः । हे "अग्ने "विश्वान् “अन्यान् स्वव्यतिरिक्तान् सर्वान् "सहसा बलेन “प्रासि । प्रेति परेत्यर्थे । पराभवसि । व्याप्तुं वा प्रभवसि ॥


प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ ।

ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणां ॥९

प्र । स॒द्यः । अ॒ग्ने॒ । अति॑ । ए॒षि॒ । अ॒न्यान् । आ॒विः । यस्मै॑ । चारु॑ऽतमः । ब॒भूथ॑ ।

ई॒ळेन्यः॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । प्रि॒यः । वि॒शाम् । अति॑थिः । मानु॑षीणाम् ॥९

प्र । सद्यः । अग्ने । अति । एषि । अन्यान् । आविः । यस्मै । चारुऽतमः । बभूथ ।

ईळेन्यः । वपुष्यः । विभाऽवा । प्रियः । विशाम् । अतिथिः । मानुषीणाम् ॥९

हे "अग्ने त्वं यज्ञमासाद्य "सद्यः तदानीमेव "अन्यान् स्वसमानान् "अत्येषि अतिक्रामसि । "यस्मै यज्ञाय "चारुतमः सन् "अविः “बभूथ । किंच त्वम् "ईळेन्यः स्तुत्यः “वपुष्यः वपुष्करो दीप्तिकरो वा “विभावा विशिष्टदीप्तिमान "प्रियः प्रियभूतः "विशां सर्वेषां प्राणिनां तथा "अतिथिः पूज्यः "मानुषीणां प्रजानां भवसि ॥


तुभ्यं॑ भरंति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अंति॑त॒ ओत दू॒रात् ।

आ भंदि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रं ॥१०

तुभ्य॑म् । भ॒र॒न्ति॒ । क्षि॒तयः॑ । य॒वि॒ष्ठ॒ । ब॒लिम् । अ॒ग्ने॒ । अन्ति॑तः । आ । उ॒त । दू॒रात् ।

आ । भन्दि॑ष्ठस्य । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि॑ । शर्म॑ । भ॒द्रम् ॥१०

तुभ्यम् । भरन्ति । क्षितयः । यविष्ठ । बलिम् । अग्ने । अन्तितः । आ । उत । दूरात् ।

आ । भन्दिष्ठस्य । सुऽमतिम् । चिकिद्धि । बृहत् । ते । अग्ने । महि । शर्म । भद्रम् ॥१०

हे "यविष्ठ युवतम "अग्ने "क्षितयः मनुष्याः यजमानाः “तुभ्यं “भरन्ति संपादयन्ति। किम् । “बलिं पूजां हविर्लक्षणाम् "अन्तितः अन्तिकात् "उत अपि च दूरात् । “आ इति चार्थे । किंच “भन्दिष्ठस्य अतिशयेन स्तोतुः "सुमतिं स्तुतिम् "आ "चिकिद्धि आजानीहि । हे "अग्ने "ते तव “शर्म सुखम् अस्मभ्यं दातव्यं “बृहत् महत् 'भद्रं स्तुत्यं च ।।


आद्य रथं॑ भानुमो भानु॒मंत॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ समं॑तं ।

वि॒द्वान्प॑थी॒नामु॒र्वं१॒॑तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥११

आ । अ॒द्य । रथ॑म् । भा॒नु॒ऽमः॒ । भा॒नु॒ऽमन्त॑म् । अग्ने॑ । तिष्ठ॑ । य॒ज॒तेभिः॑ । सम्ऽअ॑न्तम् ।

वि॒द्वान् । प॒थी॒नाम् । उ॒रु । अ॒न्तरि॑क्षम् । आ । इ॒ह । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥११

आ । अद्य । रथम् । भानुऽमः । भानुऽमन्तम् । अग्ने । तिष्ठ । यजतेभिः । सम्ऽअन्तम् ।

विद्वान् । पथीनाम् । उरु । अन्तरिक्षम् । आ । इह । देवान् । हविःऽअद्याय । वक्षि ॥११

हे "भानुमः दीप्तिमन् "अग्ने "अद्य अस्मिन् यागदिने “भानुमन्तं दीप्तिमन्तं "समन्तं समीचीनप्रान्तोपेतं "रथं "यजतेभिः यष्टव्यैर्देवैः सह “आ “तिष्ठ आरोह। "विद्वान् यष्टव्यदेवपरिज्ञानवांस्त्वं “पथीनां देवयजनमार्गान् प्रति ॥ द्वितीयार्थे षष्ठी ॥ “उर्वन्तरिक्षं प्रभूतेऽन्तरिक्षे "देवान् यष्टव्यान् "हविरद्याय हविर्भक्षणाय “इह अस्मिन् यज्ञे “आ “वक्षि आवहसि ॥


अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ वं॒दारु॑ वृष॒भाय॒ वृष्णे॑ ।

गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यंच॑मश्रेत् ॥१२

अवो॑चाम । क॒वये॑ । मेध्या॑य । वचः॑ । व॒न्दारु॑ । वृ॒ष॒भाय॑ । वृष्णे॑ ।

गवि॑ष्ठिरः । नम॑सा । स्तोम॑म् । अ॒ग्नौ । दि॒विऽइ॑व । रु॒क्मम् । उ॒रु॒ऽव्यञ्च॑म् । अ॒श्रे॒त् ॥१२

अवोचाम । कवये । मेध्याय । वचः । वन्दारु । वृषभाय । वृष्णे ।

गविष्ठिरः । नमसा । स्तोमम् । अग्नौ । दिविऽइव । रुक्मम् । उरुऽव्यञ्चम् । अश्रेत् ॥१२

वयमात्रेयाः "कवये मेधाविने "मेध्याय मेधार्हाय “वृषभाय वर्षकाय फलानां "वृष्णे सेक्त्रे यूने "वृन्दारु वन्दनशीलं "वचः स्तोत्रम् "अवोचाम । अथ ऋषिरात्मानं परोक्षेणैव निर्दिश्य स्तुतिम् उपसंहरति । “गविष्ठिरः अयमृषिः "नमसा नमस्कारेण हविषा वा युक्तं "स्तोमं स्तोत्रम् "अग्नौ "अश्रेत् श्रयति स्म । "दिवि “रुक्मं रोचमानम् "उरुव्यञ्चम् उरुगमनमादित्यम् "इव ॥ ॥ १३ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१&oldid=209169" इत्यस्माद् पुनः प्राप्तिः