ऋग्वेदः सूक्तं ५.७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.६ ऋग्वेदः - मण्डल ५
सूक्तं ५.७
इष आत्रेयः
सूक्तं ५.८ →
दे. अग्निः। अनुष्टुप्, १० पङ्क्तिः


सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥१॥
कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने ।
अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥२॥
सं यदिषो वनामहे सं हव्या मानुषाणाम् ।
उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥३॥
स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते ।
पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥४॥
अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति ।
अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः ॥५॥
यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे ।
प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥६॥
स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ।
हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः ॥७॥
शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते ।
सुषूरसूत माता क्राणा यदानशे भगम् ॥८॥
आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे ।
ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥९॥
इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे ।
आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥१०॥


सायणभाष्यम्

‘ सखायः सं वः' इति दशर्चं सप्तमं सूक्तम् । आत्रेय इष ऋषिः । अन्त्या पङ्क्तिः शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । तथा चानुक्रान्तं — ' सखाय इषः पङ्क्त्यन्तम्' इति । प्रातरनुवाके आग्नेये क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चोत्तमावर्जमिदं सूक्तम् । सूत्रितं च --सखायः सं वस्त्वामग्ने हविष्मन्त इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति ।।


सखा॑य॒ः सं व॑ः स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।

वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥१

सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ ।

वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥१

सखायः । सम् । वः । सम्यञ्चम् । इषम् । स्तोमम् । च । अग्नये ।

वर्षिष्ठाय । क्षितीनाम् । ऊर्जः । नप्त्रे । सहस्वते ॥१

हे "सखायः सखिभूता ऋत्विजः "वः यूयं “सं संस्कुरुत । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । किंच "सम्यञ्चम् "इषम् अन्नं "स्तोमं स्तोत्रं "चाग्नये वर्षिष्ठाय अतिशयेन प्रवृद्धाय “क्षितीनां यजमानानामर्थाय वर्षिष्ठाय प्रवृद्धतमाय “ऊर्जो "नप्त्रे बलस्य न पातयित्रे तत्पुत्राय वा “सहस्वते बलवते संस्कुरुतेति ॥


कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।

अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तव॑ः ॥२

कुत्र॑ । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । र॒ण्वाः । नरः॑ । नृ॒ऽसद॑ने ।

अर्ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्ऽज॒नय॑न्ति । ज॒न्तवः॑ ॥२

कुत्र । चित् । यस्य । सम्ऽऋतौ । रण्वाः । नरः । नृऽसदने ।

अर्हन्तः । चित् । यम् । इन्धते । सम्ऽजनयन्ति । जन्तवः ॥२

सोऽग्निः “कुत्र “चित् वर्तते इति शेषः । कुत्रास्ते । "यस्य अग्नेः "समृतौ संप्राप्तौ “रण्वाः रममाणाः "नरः नेतार ऋत्विजः । "नृषदने यागगृहे "अर्हन्तश्चित् । चिदिति पूजायाम् । अर्हन्तः पूज्याः पूजयन्तो वा सन्तः “यमिन्धते दीपयन्ति । तदर्थं “संजनयन्ति च अरण्यां "जन्तवः प्राणिनः । स कुत्रेति संबन्धः ॥


सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् ।

उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥३

सम् । यत् । इ॒षः । वना॑महे । सम् । ह॒व्या । मानु॑षाणाम् ।

उ॒त । द्यु॒म्नस्य॑ । शव॑सा । ऋ॒तस्य॑ । र॒श्मिम् । आ । द॒दे॒ ॥३

सम् । यत् । इषः । वनामहे । सम् । हव्या । मानुषाणाम् ।

उत । द्युम्नस्य । शवसा । ऋतस्य । रश्मिम् । आ । ददे ॥३

"यत् यदा "इषः अन्नानि “सं "वनामहे संभजामहे । यदी च "मानुषाणां मनुष्याणाम् अस्माकं "हव्या हवींषि अग्निः “सं सेवते “उत तदानीं “द्युम्नस्य द्योतमानस्यान्नस्य “शवसा बलेन सामर्थ्येन “ऋतस्य उदकस्य ग्राहकं "रश्मिमा "ददे आदत्तेऽग्निः । फलजनकं तेजः स्वीकृतवान् इत्यर्थः । यद्वा । "ऋतस्य यज्ञस्य रश्मिं रश्मिवत् ग्राहकं स्तवम् आ ददे स्वीकरोति ॥


स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते ।

पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जर॑ः ॥४

सः । स्म॒ । कृ॒णो॒ति॒ । के॒तुम् । आ । नक्त॑म् । चि॒त् । दू॒रे । आ । स॒ते ।

पा॒व॒कः । यत् । वन॒स्पती॑न् । प्र । स्म॒ । मि॒नाति॑ । अ॒जरः॑ ॥४

सः । स्म । कृणोति । केतुम् । आ । नक्तम् । चित् । दूरे । आ । सते ।

पावकः । यत् । वनस्पतीन् । प्र । स्म । मिनाति । अजरः ॥४

”स "स्म स खल्वग्निः "कृणोति करोति "केतुं प्रज्ञानम् "आ सर्वतः । कस्येत्युच्यते । चिदप्यर्थे । "नक्तं "चित् रात्रावपि "दूरे “आ “सते । आ इति चार्थे । दूरेऽपि वर्तमानाय मनुष्याय । कदा । "यत् यदा "पावकः अयमग्निः "अजरः अजीर्णोऽनभिभाव्यः सन् “वनस्पतीन् एधांसि “प्र “स्म “मिनाति प्रकर्षेण दहति । स्मेति पूरणः ॥


अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।

अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥५

अव॑ । स्म॒ । यस्य॑ । वेष॑णे । स्वेद॑म् । प॒थिषु॑ । जुह्व॑ति ।

अ॒भि । ई॒म् । अह॑ । स्वऽजे॑न्यम् । भूम॑ । पृ॒ष्ठाऽइ॑व । रु॒रु॒हुः॒ ॥५

अव । स्म । यस्य । वेषणे । स्वेदम् । पथिषु । जुह्वति ।

अभि । ईम् । अह । स्वऽजेन्यम् । भूम । पृष्ठाऽइव । रुरुहुः ॥५

"यस्य अग्नेः "वेषणे परिचर्यायां "पथिषु होममार्गेषु रश्मिषु "स्वेदं स्रवदाज्यम् "अव अधोमुखं "जुह्वति अध्वर्यवः तदानीम् "ईम् एनमग्निम् “अभि "रुरुहुः "अह । अभ्यारोहन्त्येवाज्यधाराः । अह इति विनिग्रहार्थीयः । "स्वजेन्यं स्वोत्पन्नं “भूम । बहु भवतीति भूमापत्यम् । तत् “पृष्ठेव पितुः पृष्ठदेशानिव । पुत्राः यथा पितुरङ्कम् आरोहन्ति तद्वत् ॥ ॥ २४ ॥


यं मर्त्य॑ः पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से ।

प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥६

यम् । मर्त्यः॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् । विश्व॑स्य । धाय॑से ।

प्र । स्वाद॑नम् । पि॒तू॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥६

यम् । मर्त्यः । पुरुऽस्पृहम् । विदत् । विश्वस्य । धायसे ।

प्र । स्वादनम् । पितूनाम् । अस्तऽतातिम् । चित् । आयवे ॥६

“यम् अग्निं "पुरुस्पृहं बहुभिः स्पृहणीयं “विदत् वेत्ति । "मर्त्यः यजमानः “विश्वस्य “धायसे सर्वस्य व्यापारार्थं "पितूनाम् अन्नानां “प्र “स्वादनं प्रकर्षेण स्वादूकर्तारम् "अस्ततातिम् अस्ते गृहे निवासकर्तारम् "आयवे अन्नार्थं यजमानार्थं वा । "चित् पूरण:॥


स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।

हिरि॑श्मश्रु॒ः शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥७

सः । हि । स्म॒ । धन्व॑ । आऽक्षि॑तम् । दाता॑ । न । दाति॑ । आ । प॒शुः ।

हिरि॑ऽश्मश्रुः । शुचि॑ऽदन् । ऋ॒भुः । अनि॑भृष्टऽतविषिः ॥७

सः । हि । स्म । धन्व । आऽक्षितम् । दाता । न । दाति । आ । पशुः ।

हिरिऽश्मश्रुः । शुचिऽदन् । ऋभुः । अनिभृष्टऽतविषिः ॥७

“स “हि “ष्म स खल्वग्निः “धन्व निरुदकप्रदेशम् "आक्षितं तृणकाष्ठादिभिराक्षितम् "आ “दाति सर्वतः खण्डयति दहतीत्यर्थः । "दाता तृणादिखण्डयिता "पशुः “न पशुरिव । पशुर्यथा तृणजातं क्रमेण भक्षयति तद्वत् । "हिरिश्मश्रुः हिरण्यश्मश्रुः "शुचिदन् दीप्तदन्तः “ऋभुः उरु भवन् । महानित्यर्थः । "अनिभृष्टतविषिः अपीडितबलः ॥


शुचि॑ः ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते ।

सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥८

शुचिः॑ । स्म॒ । यस्मै॑ । अ॒त्रि॒ऽवत् । प्र । स्वधि॑तिःऽइव । रीय॑ते ।

सु॒ऽसूः । अ॒सू॒त॒ । मा॒ता । क्रा॒णा । यत् । आ॒न॒शे । भग॑म् ॥८

शुचिः । स्म । यस्मै । अत्रिऽवत् । प्र । स्वधितिःऽइव । रीयते ।

सुऽसूः । असूत । माता । क्राणा । यत् । आनशे । भगम् ॥८

अयमग्निः "शुचिः “ष्म दीप्तः खलु । "यस्मै अग्नये "अत्रिवत् अत्रिरिव यजमानो हविर्दातुं “प्र “रीयते प्रगच्छति । यद्वा । स्मेति पूरणः । शुचिर्यस्मै ॥ प्रथमार्थे चतुर्थी । दीप्तो योऽत्रिवत् । अत्ति तृणमित्यत्रिः पशुः । स इव । स यथा तृणानि खादमानो गच्छति तद्वद्दहतीत्यर्थः । "स्वधितिरिव परशुरिव छिन्दन् । "सुषूः सुप्रसवा “माता अरणिः “असूत “क्राणा कुर्वाणं जगदुपकारकम् । "यत् यस्मात् य इति वा । योऽग्निः “भगम् अन्नम् "आनशे अश्नुते ।।


आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।

ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥९

आ । यः । ते॒ । स॒र्पिः॒ऽआ॒सु॒ते॒ । अग्ने॑ । शम् । अस्ति॑ । धाय॑से ।

आ । ए॒षु॒ । द्यु॒म्नम् । उ॒त । श्रवः॑ । आ । चि॒त्तम् । मर्त्ये॑षु । धाः॒ ॥९

आ । यः । ते । सर्पिःऽआसुते । अग्ने । शम् । अस्ति । धायसे ।

आ । एषु । द्युम्नम् । उत । श्रवः । आ । चित्तम् । मर्त्येषु । धाः ॥९

हे "सर्पिरासुते घृताख्यान्न "अग्ने "यः त्वम् "आ सर्वतो भवसि तादृशाय “धायसे सर्वस्य धात्रे “ते तुभ्यं “शमस्ति सुखमस्ति । स्तुतेः सकाशात् । तथा चेत् "एषु "मर्त्येषु स्तोतृष्वात्रेयेषु “द्युम्नं यशः “आ “धाः आधेहि। "उत अपि च “श्रवः अन्नम् आ धाः । "चित्तं त्वदीयामनुग्रहबुद्धिमपि “आ धाः ॥


इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।

आद॑ग्ने॒ अपृ॑ण॒तोऽत्रि॑ः सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥१०

इति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ ।

आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥१०

इति । चित् । मन्युम् । अध्रिजः । त्वाऽदातम् । आ । पशुम् । ददे ।

आत् । अग्ने । अपृणतः । अत्रिः । ससह्यात् । दस्यून् । इषः । ससह्यात् । नॄन् ॥१०

"इति “चित् इत्थं कृतप्रकारेण "मन्युं मननसाधनं स्तोत्रम् "अध्रिजः । अधृतम् अन्यैरग्निव्यतिरिक्तैः अधृष्यं वा जनयिता ऋषिः “त्वादातं त्वया दातव्यं "पशुम् "आ "ददे आदत्ते । आददीत वा । “आत् अनन्तरमेव अग्नेः "अपृणतः अददतः “दस्यून् "अत्रिः तद्गोत्रः “इषः “सासह्यात् भृशमभिभवेत् । इषः एष्टॄन् “नॄन् विरोधिनः “सासह्यात् । पुनरुक्तिरादरार्था ॥ ॥ २५ ॥


टिप्पणी

ऋषिः - इष आत्रेयः

इषोपरि टिप्पणी


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७&oldid=214631" इत्यस्माद् पुनः प्राप्तिः