ऋग्वेदः सूक्तं ५.८७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.८६ ऋग्वेदः - मण्डल ५
सूक्तं ५.८७
एवयामरुदात्रेयः
सूक्तं ६.१ →
दे. मरुतः। अतिजगती


प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥१॥
प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत् ।
क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥२॥
प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् ।
न येषामिरी सधस्थ ईष्ट आँ अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥३॥
स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् ।
यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥४॥
स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत् ।
येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥५॥
अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत् ।
स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥६॥
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत् ।
दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥७॥
अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् ।
विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥८॥
गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् ।
ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥९॥

सायणभाष्यम्

‘ प्र वो महे' इति नवर्चं पञ्चदशं सूक्तम् एवयामरुदाख्यस्य आत्रेयस्य मुनेरार्षं मरुद्देवताकमतिजगतीच्छन्दस्कम् । तथा चानुक्रमणिका--' प्र वो नवैवयामरुन्मारुतमतिजागतम्' इति । दशरात्रे षष्ठेऽहनि तृतीयसवनेऽच्छावाकशस्त्रे इदं सूक्तम् । सूत्रितं च-- एवयामरुदुक्तो वृषाकपिना' ( आश्व. श्रौ. ८. ४) इति ।


प्र वो॑ म॒हे म॒तयो॑ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् ।

प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भ॒न्ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥१

प्र । वः॒ । म॒हे । म॒तयः॑ । य॒न्तु॒ । विष्ण॑वे । म॒रुत्व॑ते । गि॒रि॒ऽजाः । ए॒व॒याम॑रुत् ।

प्र । शर्धा॑य । प्रऽय॑ज्यवे । सु॒ऽखा॒दये॑ । त॒वसे॑ । भ॒न्दत्ऽइ॑ष्टये । धुनि॑ऽव्रताय । शव॑से ॥१

प्र। वः । महे । मतयः । यन्तु । विष्णवे ! मरुत्वते । गिरिऽजाः । एवयामरुत् ।

प्र । शर्धाय । प्रऽयज्यते । सुऽखादये । तवसे । भन्दत्ऽइष्टये । धुनिऽव्रताय । शवसे ॥१॥

“प्र “यन्तु प्रगच्छन्तु “गिरिजाः वाचि निष्पन्नाः “मतयः स्तुतयः । कस्मै । "वः तुभ्यम् । वचनव्यत्ययः । “विष्णवे व्याप्तायेन्द्राय विष्णवे वा "मरुत्वते मरुद्भिस्तद्वते । कस्य स्तुतय इत्युच्यते । “एवयामरुत् एतन्नामकस्य ऋषेः ॥ षष्ठ्या लुक् ॥ अथवा अयमृषिर्गिरिजाः स्तुतेर्जनयिता भवति । उत्तरार्धे मरुत्स्तुतिः। किंच “प्र यन्तु स्तुतयः । कस्मै । "शर्धाय बलाय मारुताय । इतरत् सर्वं बलविशेषणम् । “प्रयज्यवे प्रकर्षेण यष्टव्याय "सुखादये शोभनाभरणाय । खादिः आभरणविशेषः । ‘हस्तेषु खादिश्च' ( ऋ. सं. १. १६८. ३); ‘ पत्सु खादयः' (ऋ. सं. ५. ५४, ११) इति च श्रुतेः । “तवसे बलवते “भन्ददिष्टये । स्तुतिरूपा इष्टिर्यस्य तद्धन्ददिष्टि । तस्मै “धुनिव्रताय मेघानां चालनं कर्म यस्य तादृशाय “शवसे गमनवते ॥


प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् ।

क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥२

प्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना॑ । ब्रु॒वते॑ । ए॒व॒याम॑रुत् ।

क्रत्वा॑ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒ऽधृषे॑ । शवः॑ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ॑ष्टासः । न । अद्र॑यः ॥२

प्र । ये । जाताः । महिना । ये । च । नु । स्वयम् । प्र । विद्मना । ब्रुवते । एवयामरुत् ।

क्रत्वा । तत् । वः । मरुतः । न । आऽधृषे । शवः । दाना । मह्ना । तत् । एषाम् । अधृष्टासः । न । अद्रयः ॥२

"ये "महिना महता विष्णुना इन्द्रेण वा सह “प्र “जाताः प्रादुर्भूतास्तान् ब्रुवते । "ये “च “नु क्षिप्रं "स्वयम् एव "विद्मना यज्ञगमनविषयज्ञानेन सह "प्र जाताः प्रादुर्भूतास्तान् मरुतः “एवयामरुत् “ब्रुवते स्तौति ॥ प्रेत्ययमाख्यातेन वा संबन्धनीयः । ब्रुवते इति व्यत्ययेन बहुवचनम् । एकवचने वा छान्दसः शः । निघाताभावश्छान्दसः ।। अथ प्रत्यक्षवादः । हे “मरुतः “वः युष्माकं "तत् प्रसिद्धं “शवः बलं "क्रत्वा चालनादिरूपेण कर्मणा युक्तं "न “आधृषे कैश्चिदपि आधर्षणीयं न भवति । अन्येषामसुरादीनां क्रत्वा कर्मणा वा अनभिभाव्यं भवति ॥ कृत्यार्थे केन् ॥ किंच “एषां वः “तत् बलं "दाना अभिमतदानेन "मह्ना महत्त्वेन च उपेतम् । यूयं प्रबलाः। "अधृष्टासः अधर्षणीयाः । तत्र दृष्टान्तः। "अद्रयः “न। ते यथा अधृष्यास्तद्वत् यूयमपि ॥


प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् ।

न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युत॒ः प्र स्य॒न्द्रासो॒ धुनी॑नाम् ॥३

प्र । ये । दि॒वः । बृ॒ह॒तः । शृ॒ण्वि॒रे । गि॒रा । सु॒ऽशुक्वा॑नः । सु॒ऽभ्वः॑ । ए॒व॒याम॑रुत् ।

न । येषा॑म् । इरी॑ । स॒धऽस्थे॑ । ईष्टे॑ । आ । अ॒ग्नयः॑ । न । स्वऽवि॑द्युतः । प्र । स्य॒न्द्रासः॑ । धुनी॑नाम् ॥३

प्र । ये । दिवः । बृहतः । शृण्विरे । गिरा । सुऽशुक्वानः । सुऽभ्वः । एवयामरुत् ।

न । येषाम् । इरी । सधऽस्थे । ईष्टे । आ । अग्नयः । न । स्वऽविद्युतः । प्र । स्यन्द्रासः । धुनीनाम् ॥३

“ये मरुतः "बृहतः महत: “दिवः द्युलोकादागच्छन्तः “प्र “शृण्विरे शृण्वन्ति तान् मरुतः “गिरा “एवयामरुत् स्तुतवान्। कीदृशास्ते । "शुशुक्वानः दीप्ताः "सुभ्वः सुष्ठु भवन्तः । "येषां मरुतां “सधस्थे सहस्थाने स्वकीये निवासे तिष्ठताम् “इरी ईरिता प्रेरित “न “ईष्टे “आ न ईशते च चालयितुम् । इति चार्थे। “अग्नयो "न अग्नय इव “स्वविद्युतः स्वयमेव विद्योतमानाः “धुनीनां नदीनां "स्पन्द्रासः वर्षणेन चालयितारश्च ॥


स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् ।

य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥४

सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒ऽक्र॒मः । स॒मा॒नस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् ।

य॒दा । अयु॑क्त । त्मना॑ । स्वात् । अधि॑ । स्नुऽभिः॑ । विऽस्प॑र्धसः । विऽम॑हसः । जिगा॑ति । शेऽवृ॑धः । नृऽभिः॑ ॥४

सः । चक्रमे । महतः । निः । उरुऽक्रमः । समानस्मात् । सदसः । एवयामरुत् ।

यदा । अयुक्त । त्मना । स्वात् । अधि । स्नुऽभिः । विऽस्पर्धसः । विऽमहसः । जिगाति । शेऽवृधः । नृऽभिः ॥४

“सः मरुद्गणः "महतः प्रवृद्धात् "समानस्मात् सर्वेषां साधारणात् "सदसः स्थानात् अन्तरिक्षात् 'उरुक्रमः विस्तीर्णक्रमणः सन् "निः "चक्रमे निरगच्छत् । "एवयामरुत् ऋषिः "यदा "स्वात् स्वकीयस्थानात् । “अधि इति पञ्चम्यर्थानुवादी । “त्मना आत्मनैव "स्नुभिः गन्तृभिः "नृभिः स्वनेतृभिरश्वैः “अयुक्त युक्तोऽभवत् आगमनप्रार्थनाय । अथ बहुवदुच्यते । तदानीं "विस्पर्धसः विविधस्पर्धाः । अहं पुरतो गच्छाम्यहं पुरतो गच्छामीति तेषां स्पर्धा । अथवा विगतस्पर्धाः । न ह्येषां सार्धं स्पर्धकाः सन्ति । "विमहसः विशिष्टबलाः "शेवृधः शेवस्य सुखस्य वर्धयितारः "जिगाति निर्गच्छन्ति । व्यत्ययेन एकवचनम् ॥


स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् ।

येना॒ सह॑न्त ऋ॒ञ्जत॒ स्वरो॑चिष॒ः स्थार॑श्मानो हिर॒ण्ययाः॑ स्वायु॒धास॑ इ॒ष्मिणः॑ ॥५

स्व॒नः । न । वः॒ । अम॑ऽवान् । रे॒ज॒य॒त् । वृषा॑ । त्वे॒षः । य॒यिः । त॒वि॒षः । ए॒व॒याम॑रुत् ।

येन॑ । सह॑न्तः । ऋ॒ञ्जत॑ । स्वऽरो॑चिषः । स्थाःऽर॑श्मानः । हि॒र॒ण्ययाः॑ । सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ ॥५

स्वनः । न । वः । अमऽवान् । रेजयत् । वृषा । त्वेषः । ययिः । तविषः । एवयामरुत् ।

येन । सहन्तः । ऋञ्जत । स्वऽरोचिषः । स्थाःऽरश्मानः । हिरण्ययाः । सुऽआयुधासः । इष्मिणः ॥५

हे मरुतः "वः युष्माकं "स्वनः वेगजनितः शब्दः “न “रेजयत् न कम्पयत्वेवयामरुतं माम् ॥ ‘ सुपां सुलुक्' इति द्वितीयायाः लुक् ॥ स्वनो विशेष्यते । "अमवान् बलवान् "वृषा वर्षिता वृष्टेः “त्वेषः दीप्तः "ययिः गन्ता "तविषः प्रवृद्ध: । "येन स्वनेन "सहन्तः शत्रूनभिभवन्तो यूयम् "ऋञ्जत प्रसाधयथ ॥ लडर्थे लोट् ॥ कीदृशा यूयम् । "स्वरोचिषः स्वायत्तरश्मयः "स्थारश्मानः स्थिररश्मयः । “हिरण्ययाः हिरण्याभरणाः "स्वायुधासः स्वायत्तायुधाः “इष्मिणः अन्नवन्तो गमनवन्तो वा ॥ ॥३३॥


अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् ।

स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥६

अ॒पा॒रः । वः॒ । म॒हि॒मा । वृ॒द्ध॒ऽश॒व॒सः॒ । त्वे॒षम् । शवः॑ । अ॒व॒तु॒ । ए॒व॒याम॑रुत् ।

स्थाता॑रः । हि । प्रऽसि॑तौ । स॒म्ऽदृशि॑ । स्थन॑ । ते । नः॒ । उ॒रु॒ष्य॒त॒ । नि॒दः । शु॒शु॒क्वांसः॑ । न । अ॒ग्नयः॑ ॥६

अपारः । वः । महिमा । वृद्धऽशवसः । त्वेषम् । शवः । अवतु । एवयामरुत् ।

स्थातारः । हि । प्रऽसितौ । सम्ऽदृशि । स्थन । ते । नः । उरुष्यत । निदः । शुशुक्वांसः । न । अग्नयः ॥६

हे मरुतः "वः युष्माकं “महिमा "अपारः अनवधिकः । हे "वृद्धशवसः प्रवृद्धबलाः "त्वेषं दीप्तं “शवः युष्माकं बलम् "अवतु रक्षतु एवयामरुतं माम् ॥ द्वितीयैकवचनस्य लुक् ॥ यूयं "प्रसितौ प्रबलबन्धने नियमनवति यज्ञे "संदृशि संदर्शने निमित्ते "स्थातारो "हि स्थाननियमेन तिष्ठन्तो भवथ खलु। “ते “नः अस्मान् "निदः निन्दकात् शत्रोः सकाशात् "उरुष्यत रक्षत । "अग्नयः इव “शशुक्वांसः यूयमिति ॥


ते रु॒द्रास॒ः सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् ।

दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥७

ते । रु॒द्रासः॑ । सुऽम॑खाः । अ॒ग्नयः॑ । य॒था॒ । तु॒वि॒ऽद्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम॑रुत् ।

दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म॑ । पार्थि॑वम् । येषा॑म् । अज्मे॑षु । आ । म॒हः । शर्धां॑सि । अद्भु॑तऽएनसाम् ॥७

ते । रुद्रासः । सुऽमखाः । अग्नयः । यथा । तुविऽद्युम्नाः । अवन्तु । एवयामरुत् ।

दीर्घम् । पृथु । पप्रथे । सद्म । पार्थिवम् । येषाम् । अज्मेषु । आ । महः । शर्धांसि । अद्भुतऽएनसाम् ॥७

“ते मरुतः "रुद्रासः रुद्रपुत्राः "सुमखाः शोभनयज्ञाः "अग्नयो "यथा अग्नय इव "तुविद्युम्नाः प्रभूतदीप्तयः । अथवा अग्निसदृशास्तुविद्युम्नाः प्रभूतधनाः "अवन्तु रक्षन्तु "एवयामरुत् एतन्नामानमृषिं माम् । "पार्थिवम् । पृथिव्यत्रान्तरिक्षम् । तत्संबन्धि “दीर्घम् आयतं "पृथु विस्तीर्णं "सद्म सदनं “पप्रथे मरुद्भिः प्रथितमभूत् । "अद्भुतैनसाम् अपापानां "येषाम् "अज्मेषु गमनेषु "महः महान्ति “शर्धांसि च “आ गच्छन्तीति शेषः ॥


अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् ।

विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥८

अ॒द्वे॒षः । नः॒ । म॒रु॒तः॒ । गा॒तुम् । आ । इ॒त॒न॒ । श्रोत॑ । हव॑म् । ज॒रि॒तुः । ए॒व॒याम॑रुत् ।

विष्णोः॑ । म॒हः । स॒ऽम॒न्य॒वः॒ । यु॒यो॒त॒न॒ । स्मत् । र॒थ्यः॑ । न । दं॒सना॑ । अप॑ । द्वेषां॑सि । स॒नु॒तरिति॑ ॥८

अद्वेषः । नः । मरुतः । गातुम् । आ । इतन । श्रोत । हवम् । जरितुः । एवयामरुत् ।

विष्णोः । महः । सऽमन्यवः । युयोतन । स्मत् । रथ्यः । न । दंसना । अप । द्वेषांसि । सनुतरिति ॥८

हे "मरुतः "अद्वेषः अद्वेषसो यूयं "नः अस्माकं "गातुं गमनस्वभावं स्तोत्रं प्रति "एतन आगच्छत । तदर्थं "जरितुः स्तोतुः “एवयामरुत् एवयामरुतो मम “हवं “श्रोत शृणुत । “विष्णोः व्यापकस्येन्द्रस्य "महः महतः हे "समन्यवः समानयज्ञा यूयं "स्मत् । अयं प्रशस्तनाम । प्रशस्ताः “रथ्यो “न रथिनो योद्धार इव । ते यथा शत्रूनपाकुर्वन्ति तद्वदस्माकं “दंसना कर्मणा “सनुतः । अन्तर्हितनामैतत् । अन्तर्हितान् द्वेषांसि द्वेष्टॄन् "अप "युयोतन दूरे वियोजयत पृथकुरुत ॥


गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् ।

ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतस॒ः स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥९

गन्त॑ । नः॒ । य॒ज्ञम् । य॒ज्ञि॒याः॒ । सु॒ऽशमि॑ । श्रोत॑ । हव॑म् । अ॒र॒क्षः । ए॒व॒याम॑रुत् ।

ज्येष्ठा॑सः । न । पर्व॑तासः । विऽओ॑मनि । यू॒यम् । तस्य॑ । प्र॒ऽचे॒त॒सः॒ । स्यात॑ । दुः॒ऽधर्त॑वः । नि॒दः ॥९

गन्त । नः । यज्ञम् । यज्ञियाः । सुऽशमि । श्रोत । हवम् । अरक्षः । एवयामरुत् ।

ज्येष्ठासः । न । पर्वतासः । विऽओमनि । यूयम् । तस्य । प्रऽचेतसः । स्यात । दुःऽधर्तवः । निदः ॥९

हे "यज्ञियाः मरुतः यूयं "नः अस्माकं "यज्ञं “गन्त आगच्छत । "सुशमि शोभनकर्म यथा भवति तथा । सुकर्मत्वायेत्यर्थः । तदर्थं नः “हवम् अस्मदीयमाह्वानं “श्रोत शृणुत । "अरक्षः रक्षोवर्जिता यूयम् । लिङ्गवचनयोर्व्यत्ययः ॥ “ज्येष्ठासो “न ज्येष्ठा इव “पर्वतासः विन्ध्यादय इवातिप्रवृद्धाः “व्योमनि अन्तरिक्षे वर्तमानाः "प्रचेतसः "यूयं "तस्य निदः निन्दकस्य “दुर्धर्तवः दुर्धराः “स्यात भवत ।। ।। ३४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८७&oldid=214830" इत्यस्माद् पुनः प्राप्तिः