ऋग्वेदः सूक्तं ५.४९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.४८ ऋग्वेदः - मण्डल ५
सूक्तं ५.४९
प्रतिप्रभ आत्रेयः ( ५ तृणपाणिः)।
सूक्तं ५.५० →
दे. विश्वे देवाः। त्रिष्टुप्


देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः ।
आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥१॥
प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य ।
उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥२॥
अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः ।
इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥३॥
तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् ।
उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥४॥
प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः ।
अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥५॥


सायणभाष्यम्

“ देवं वः' इति पञ्चर्चं पञ्चमं सूक्तमात्रेयस्य प्रतिप्रभस्यार्षम् । त्रैष्टुभं वैश्वदेवम् । “ देवं वः प्रतिप्रभोऽन्त्या तृणपाणिः' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।

आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥१

दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार॑म् । आ । ई॒षे॒ । भग॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ।

आ । वा॒म् । न॒रा॒ । पु॒रु॒ऽभु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वेऽदि॑वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒ऽयन् ॥१

देवम् । वः । अद्य । सवितारम् । आ । ईषे । भगम् । च । रत्नम् । विऽभजन्तम् । आयोः ।

आ । वाम् । नरा । पुरुऽभुजा । ववृत्याम् । दिवेऽदिवे । चित् । अश्विना । सखिऽयन् ॥१

“देवं द्योतमानं "सवितारं सर्वस्याभ्यनुज्ञातारं "वः । त्वामित्यर्थः । यद्वा होतुरिदं वाक्यम् । वः यजमानेभ्यो युष्मभ्यमर्थाय "अद्य इदानीम् "एषे उपगच्छामि । "भगं "च भजनीयं देवम् "आयोः मनुष्यस्य यजमानस्य "रत्नं रमणीयं हविः “विभजन्तम् । ‘भगो वां विभजतु ' इति हि भगस्य विभजनं प्रसिद्धम् । ‘रायो विभक्ता संभरश्च वस्वः' ( ऋ. सं. ४. १७. ११ ), ‘ भगो विभक्ता शवसा ' (ऋ. सं. ५. ४६. ६ ) इति च श्रुतिः । यद्वा । चतुर्थ्यर्थे षष्ठी । यजमानार्थं रत्नं रमणीयं धनं विभजन्तम् । हे "नरा नेतारौ हे "पुरुभुजा । पुरु भुञ्जाते इति पुरुभुजौ। हे “अश्विना अश्विनौ "वां युवां "दिवेदिवे प्रतिदिनम् “आ “ववृत्याम् आवर्तयाम्यस्मदभिमुखम् । “सखीयन् युवयोः सखित्वमिच्छन् । “चित् इति पूरणः ॥


प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।

उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥२

प्रति॑ । प्र॒ऽयान॑म् । असु॑रस्य । वि॒द्वान् । सु॒ऽउ॒क्तैः । दे॒वम् । स॒वि॒तार॑म् । दु॒व॒स्य॒ ।

उप॑ । ब्रु॒वी॒त॒ । नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ॥२

प्रति । प्रऽयानम् । असुरस्य । विद्वान् । सुऽउक्तैः । देवम् । सवितारम् । दुवस्य ।

उप । ब्रुवीत । नमसा । विऽजानन् । ज्येष्ठम् । च । रत्नम् । विऽभजन्तम् । आयोः ॥२

“असुरस्य शत्रूणां निरसितुः सवितुः "प्रति "प्रयाणं प्रत्यागतिं "विद्वान् जानन् "सूक्तैः “सवितारं "देवं "दुवस्य परिचर हे अन्तरात्मन् । किंच "आयोः मनुष्याय “ज्येष्ठं "रत्नं धनं "च “विभजन्तम् । गमयन्तमित्यर्थः । "नमसा नमस्कारेण हविषा वा “विजानन् । विशेषेण भावयन्नित्यर्थः ॥ यद्वान्तर्णीतण्यर्थोऽयम् ॥ ज्ञापयन् "उप "ब्रुवीत स्तौतु भवान् ॥


अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।

इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥३

अ॒द॒त्र॒ऽया । द॒य॒ते॒ । वार्या॑णि । पू॒षा । भगः॑ । अदि॑तिः । वस्ते॑ । उ॒स्रः ।

इन्द्रः॑ । विष्णुः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । अहा॑नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥३

अदत्रऽया । दयते । वार्याणि । पूषा । भगः । अदितिः । वस्ते । उस्रः ।

इन्द्रः । विष्णुः । वरुणः । मित्रः । अग्निः । अहानि । भद्रा । जनयन्त । दस्माः ॥३

अयमग्निः "अदत्रया अदनीयानि ॥ अदेरौणादिकोऽत्रप्रत्ययः । सुपां सुलुक् ' इति याजादेशः । अथवा अत्तीत्यदत्रा जिह्वा । तया “वार्याणि वरणीयानि काष्ठानि “दयते । दयतिरनेककर्मात्र दहने वर्तते । दहतीत्यर्थः । सामर्थ्यादग्निरिति गम्यते । यद्वा । अदनीयानि वरणीयान्यन्नानि दयते ।। ददाति यजमानाय ॥ ‘दय दानगतिहिंसाबलाख्यानेषु ' ॥ कीदृशोऽग्निः । "पूषा पोषकः "भगः भजनीयः "अदितिः अखण्डनीयः । यद्वा । पूषादयस्त्रयोऽपि प्रत्येकमदनीयानि वार्याणि चान्नानि दयते । “उस्रः सूर्यः “वस्ते आच्छादयति । सामर्थ्यात्तेजांसि । इन्द्रादयः पञ्चापि देवाः "दस्माः दर्शनीयाः "अहानि सर्वाण्यागन्तॄणि "भद्रा शोभनानि “जनयन्त जनयन्ति । दिवसानां यागदानादिविशिष्टत्वमेव भद्रत्वम् ॥


तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।

उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥४

तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू॑थम् । तत् । सिन्ध॑वः । इ॒षय॑न्तः । अनु॑ । ग्म॒न् ।

उप॑ । यत् । वोचे॑ । अ॒ध्व॒रस्य॑ । होता॑ । रा॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽरत्नाः ॥४

तत् । नः । अनर्वा । सविता । वरूथम् । तत् । सिन्धवः । इषयन्तः । अनु । ग्मन् ।

उप । यत् । वोचे । अध्वरस्य । होता । रायः । स्याम । पतयः । वाजऽरत्नाः ॥४

"तत् प्रसिद्धं "वरूथं वरणीयमस्मदभिमतं धनं “नः अस्मभ्यम् "अनर्वा अप्रत्यृतः केनाप्यतिरस्कृतः "सविता देवः प्रयच्छत्विति शेषः । “तत् : धनं "सिन्धवः स्यन्दनशीलाः "इषयन्तः गच्छन्त्यो नद्यः "अनु अनुसृत्य “ग्मन् गच्छन्तु । धनं दातुं गच्छन्त्वित्यर्थः । "यत् यस्मात् "अध्वरस्य यागस्य “होता होमनिष्पादकोऽहम् "उप “वोचे उपेत्य ब्रवीमि तस्मात्तत्प्रयच्छन्त्विति शेषः । वयं चात्रयः "रायः धनस्य बहुविधस्य “पतयः स्वामिनः "स्याम भवेम । “वाजरत्नाः अन्नेन बलेन वा रमणीयाः । अथवा यद्यस्माद्वोचे स्तौमि तस्मात् सविता नो वरूथमागच्छतु । तस्मान्नद्यश्च नो वरूथं यज्ञमनु ग्मन् अनुगच्छन्त्विति वा योज्यम् ॥


प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।

अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥५

प्र । ये । वसु॑ऽभ्यः । ईव॑त् । आ । नमः॑ । दुः । ये । मि॒त्रे । वरु॑णे । सू॒क्तऽवा॑चः ।

अव॑ । ए॒तु॒ । अभ्व॑म् । कृ॒णु॒त । वरी॑यः । दि॒वःपृ॑थि॒व्योः । अव॑सा । म॒दे॒म॒ ॥५

प्र । ये । वसुऽभ्यः । ईवत् । आ । नमः । दुः । ये । मित्रे । वरुणे । सूक्तऽवाचः ।

अव । एतु । अभ्वम् । कृणुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम ॥५

"ये यजमानाः “वसुभ्यः यज्ञनिवासेभ्यो देवेभ्यः “ईवत् गमनवत् "नमः अन्नं पश्वात्मकं "प्र “दुः प्रादुः । "ये च "मित्रे देवे "वरुणे च "सूक्तवाचः सूक्तवचसो भवन्ति तानस्मान् "अभ्वं महद्धनं तेजो वा "अवैतु अवगच्छतु । हे देवाः "कृणुत कुरुत चैतेभ्यः "वरीयः उरुतरं सुखम् । "दिवस्पृथिव्योः द्यावापृथिव्योः “अवसा रक्षणेन "मदेम हृष्येम ॥ ॥ ३ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४९&oldid=199511" इत्यस्माद् पुनः प्राप्तिः