ऋग्वेदः सूक्तं ५.५५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.५४ ऋग्वेदः - मण्डल ५
सूक्तं ५.५५
श्यावाश्व आत्रेयः
सूक्तं ५.५६ →
दे. मरुतः। जगती, १० त्रिष्टुप्।


प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः ।
ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥१॥
स्वयं दधिध्वे तविषीं यथा विद बृहन्महान्त उर्विया वि राजथ ।
उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत ॥२॥
साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः ।
विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत ॥३॥
आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् ।
उतो अस्माँ अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत ॥४॥
उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।
न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत ॥५॥
यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वम् ।
विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥६॥
न पर्वता न नद्यो वरन्त वो यत्राचिध्वं मरुतो गच्छथेदु तत् ।
उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत ॥७॥
यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते ।
विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥८॥
मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन ।
अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत ॥९॥
यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः ।
जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥१०॥


सायणभाष्यम्

‘प्रयज्यवः' इति दशर्चमेकादशं सूक्तं श्यावाश्वस्यार्षं मारुतम् । दशमी त्रिष्टुप् शिष्टा जगत्यः। ‘ प्रयज्यवो दशान्त्या त्रिष्टुप् ' इत्यनुक्रमणिका । आभिप्लविके षष्ठेऽहन्याग्निमारुत इदं सूक्तं मारुतनिविद्धानीयम् । सूत्रितं च - ‘ प्रयज्यव इमं स्तोममित्याग्निमारुतम् ' ( आश्व. श्रौ. ७. ७ ) इति ॥


प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः ।

ईय॑न्ते॒ अश्वै॑ः सु॒यमे॑भिरा॒शुभि॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥१

प्रऽय॑ज्यवः । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः । बृ॒हत् । वयः॑ । द॒धि॒रे॒ । रु॒क्मऽव॑क्षसः ।

ईय॑न्ते । अश्वैः॑ । सु॒ऽयमे॑भिः । आ॒शुऽभिः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥१

प्रऽयज्यवः । मरुतः । भ्राजत्ऽऋष्टयः । बृहत् । वयः । दधिरे । रुक्मऽवक्षसः ।

ईयन्ते । अश्वैः । सुऽयमेभिः । आशुऽभिः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥१

“प्रयज्यवः प्रकर्षेण यष्टारः “भ्राजदृष्टयः दीप्तायुधाः “मरुतः “बृहत् प्रभूतं “वयः यौवनलक्षणं प्रभूतमन्नं वा “दधिरे धारयन्ति । “रुक्मवक्षसः हारयतवक्षस्काः । ते मरुतः “सुयमेभिः सुखेन नियमितुं शक्यैः "आशुभिः शीघ्रगैः “अश्वैः “ईयन्ते प्राप्यन्ते । “शुभं शोभनं यथा भवति तथा । यद्वा । उदकमभिलक्ष्य “यातां गच्छतां मरुतां “रथाः अपि “अनु “अवृत्सत अनुवर्तन्ते ॥


स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा॑जथ ।

उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥२

स्व॒यम् । द॒धि॒ध्वे॒ । तवि॑षीम् । यथा॑ । वि॒द । बृ॒हत् । म॒हा॒न्तः॒ । उ॒र्वि॒या । वि । रा॒ज॒थ॒ ।

उ॒त । अ॒न्तरि॑क्षम् । म॒मि॒रे॒ । वि । ओज॑सा । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥२

स्वयम् । दधिध्वे । तविषीम् । यथा । विद । बृहत् । महान्तः । उर्विया । वि । राजथ ।

उत । अन्तरिक्षम् । ममिरे । वि । ओजसा । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥२

हे मरुतो यूयं “स्वयम् असहायेनैव “दधिध्वे धारयध्वे कुरुध्व इत्यर्थः । किम् । “तविषीं बलं सामर्थ्यम् । “यथा “विद जानीथ । अप्रतिबद्धसामर्थ्या इत्यर्थः । हे 'महान्तः यूयम् "उर्विया उरवः सन्तः “वि राजथ। “उत अपि च "अन्तरिक्षम् “ओजसा बलेन “वि “ममिरे व्याप्नुथ । शुभमित्यादि गतम् ॥


सा॒कं जा॒ताः सु॒भ्व॑ः सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नर॑ः ।

वि॒रो॒किण॒ः सूर्य॑स्येव र॒श्मय॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥३

सा॒कम् । जा॒ताः । सु॒ऽभ्वः॑ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒ऽत॒रम् । व॒वृ॒धुः॒ । नरः॑ ।

वि॒ऽरो॒किणः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥३

साकम् । जाताः । सुऽभ्वः । साकम् । उक्षिताः । श्रिये । चित् । आ । प्रऽतरम् । ववृधुः । नरः ।

विऽरोकिणः । सूर्यस्यऽइव । रश्मयः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥३

“साकं सहैव “जाताः उत्पन्नाः "सुभ्वः सुष्ठु भवन्तः । महान्त इत्यर्थः । तथैव "साकं सहैव "उक्षिताः सेक्तारो वर्षकाः “श्रिये “चित् शोभाया एव “प्रतरं प्रकृष्टतरम् “आ सर्वतः “ववृधुः अवर्धयन् । “नरः कर्मणां नेतारः “विरोकिणः विरोचमानाः “सूर्यस्येव “रश्मयः सूर्यरश्मय इव । शुभमित्यादि गतम् ॥


आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् ।

उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥४

आ॒ऽभू॒षेण्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दि॒दृ॒क्षेण्य॑म् । सूर्य॑स्यऽइव । चक्ष॑णम् ।

उ॒तो इति॑ । अ॒स्मान् । अ॒मृ॒त॒ऽत्वे । द॒धा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥४

आऽभूषेण्यम् । वः । मरुतः । महिऽत्वनम् । दिदृक्षेण्यम् । सूर्यस्यऽइव । चक्षणम् ।

उतो इति । अस्मान् । अमृतऽत्वे । दधातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥४

हे "मरुतः “वः युष्माकं “महित्वनं महत्त्वम् “आभूषेण्यं स्तुत्यम् । किंच "सूर्यस्येव “चक्षणं रूपमिव “दिदृक्षेण्यं दर्शनीयम् । "उतो अपि च “अस्मान् अमृतत्वे मोक्षे स्वर्ग इत्यर्थः । तत्र “दधातन धारयत । शिष्टं गतम् ॥


कारीर्यां प्रथमस्याः पिण्ड्याः ‘ उदीरयथा ' इत्यनुवाक्या । सूत्रितं च - उदीरयथा मरुतः समुद्रतः प्र वो मरुतस्तविषा उदन्यवः ' ( आश्व. श्रौ. २. १३ ) इति ॥

उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः ।

न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥५

उत् । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ।

न । वः॒ । द॒स्राः॒ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥५

उत् । ईरयथ । मरुतः । समुद्रतः । यूयम् । वृष्टिम् । वर्षयथ । पुरीषिणः ।

न । वः । दस्राः । उप । दस्यन्ति । धेनवः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥५

हे “मरुतः “यूयं “समुद्रतः समुद्द्रवणसाधनादन्तरिक्षात् "उदीरयथ प्रेरयथ “वृष्टिम् । अयमेवार्थः पुनरुच्यते । हे “पुरीषिणः । पृणतेः प्रीणातेर्वा पुरीषमुदकम् । हे तद्वन्तो यूयं वृष्टिं “वर्षयथ । हे “दस्राः दर्शनीयाः शत्रूणामुपक्षपयितारो वा “वः युष्माकं “धेनवः प्रीणयितारो मेघाः “न “उप "दस्यन्ति न शुष्यन्ति ॥ ॥ १७ ॥


यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् ।

विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥६

यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् ।

विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥६

यत् । अश्वान् । धूःऽसु । पृषतीः । अयुग्ध्वम् । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वम् ।

विश्वाः । इत् । स्पृधः । मरुतः । वि । अस्यथ । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥६

हे मरुतो यूयं “यत् यदा “अश्वान् “धूर्षु रथसंबन्धिनीषु “अयुग्ध्वं योजितवन्तः स्थ । कीदृशानश्वान् । "पृषतीः । पृषत्यो मरुतामित्युक्तत्वात् पृषद्वर्णा वडवाः । सारङ्गी वात्राश्वशब्दवाच्या । “हिरण्ययान् हिरण्यवर्णान् “अत्कान् कवचान “प्रति "अमुग्ध्वं प्रत्यमुञ्चत । एवं कृत्वा “विश्वा “इत् “स्पृधः सर्वानपि संग्रामान् हे “मरुतः “व्यस्यथ विक्षिपथ । शुभमित्यादि गतम् ॥


न पर्व॑ता॒ न न॒द्यो॑ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।

उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥७

न । पर्व॑ताः । न । न॒द्यः॑ । व॒र॒न्त॒ । वः॒ । यत्र॑ । अचि॑ध्वम् । म॒रु॒तः॒ । गच्छ॑थ । इत् । ऊं॒ इति॑ । तत् ।

उ॒त । द्यावा॑पृथि॒वी इति॑ । या॒थ॒न॒ । परि॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥७

न । पर्वताः । न । नद्यः । वरन्त । वः । यत्र । अचिध्वम् । मरुतः । गच्छथ । इत् । ऊं इति । तत् ।

उत । द्यावापृथिवी इति । याथन । परि । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥७

हे “मरुतः “वः युष्मान् “पर्वताः शिलोच्चयाः “न “वरन्त न वारयन्तु तथा “नद्यः च “न वारयन्तु । किंतु “यत्र यस्मिन् यज्ञादिस्थाने “अचिध्वं जानीथ संकल्पयथ “तत् स्थानं “गच्छथेदु गच्छथैव । "उत अपि च “द्यावापृथिवी च "परि परितः “याथन याथ वृष्ट्यर्थमिति ॥


यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।

विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दस॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥८

यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ ।

विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥८

यत् । पूर्व्यम् । मरुतः । यत् । च । नूतनम् । यत् । उद्यते । वसवः । यत् । च । शस्यते ।

विश्वस्य । तस्य । भवथ । नवेदसः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥८

हे "मरुतः यूयं “यत् "पूर्व्यं पूर्वतनं पूर्वमनुष्ठितं “यत् कर्मास्ति तदित्यर्थः । “यच्च “नूतनं कर्मास्ति । “यत् च “उद्यते ऊर्ध्वं प्राप्यते स्तूयते इत्यर्थः । हे “वसवः वासका: “यच्च “शस्यते शंसनं क्रियते “तस्य “विश्वस्य उक्तस्य “नवेदसः जानन्तः “भवथ ॥


मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्तन ।

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥९

मृ॒ळत॑ । नः॒ । म॒रु॒तः॒ । मा । व॒धि॒ष्ट॒न॒ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒न॒ ।

अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥९

मृळत । नः । मरुतः । मा । वधिष्टन । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्तन ।

अधि । स्तोत्रस्य । सख्यस्य । गातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥९

हे “मरुतः “नः अस्मान् “मृळत सुखयत । “मा “वधिष्टन । असम्यक्करणादिजनितेन कोपेन मा वधिध्वम् । किंतु “अस्मभ्यं “शर्म सुखं “बहुलम् अत्यधिकं “वि “यन्तन कुरुत । किंच “स्तोत्रस्य स्तोत्रं “सख्यस्य सख्यम् “अधि “गातन अधिगच्छत । स्तुतिमनुभूयास्मासु सख्यं कुरुतेत्यर्थः ॥


यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः ।

जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१०

यू॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्यः॑ । अच्छ॑ । निः । अं॒ह॒तिऽभ्यः॑ । म॒रु॒तः॒ । गृ॒णा॒नाः ।

जु॒षध्व॑म् । नः॒ । ह॒व्यऽदा॑तिम् । य॒ज॒त्राः॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥१०

यूयम् । अस्मान् । नयत । वस्यः । अच्छ । निः । अंहतिऽभ्यः । मरुतः । गृणानाः ।

जुषध्वम् । नः । हव्यऽदातिम् । यजत्राः । वयम् । स्याम । पतयः । रयीणाम् ॥१०

हे "मरुतः “यूयमस्मान् “वस्यः वसीयो धनं स्वर्गादिलक्षणं स्थानं वा "अच्छ अभिलक्ष्य “नयत प्रापयत । किंच “अंहतिभ्यः पापेभ्यः “निः नयत निर्गमयत “गृणानाः स्तूयमानाः ॥ कर्मणि कर्तृप्रत्ययः ॥ "जुषध्वं सेवध्वं “नः अस्माकं "हव्यदातिं हविर्दानवन्तं यज्ञं हे “यजत्राः यष्टव्या यूयम् । “वयं च “रयीणां बहुविधानां धनानां “पतयः “स्याम भवेम ॥ ॥ १८ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५५&oldid=199633" इत्यस्माद् पुनः प्राप्तिः