ऋग्वेदः सूक्तं ५.१४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.१३ ऋग्वेदः - मण्डल ५
सूक्तं ५.१४
सुतंभर आत्रेयः
सूक्तं ५.१५ →
दे. अग्निः। गायत्री ।


अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् ।
हव्या देवेषु नो दधत् ॥१॥
तमध्वरेष्वीळते देवं मर्ता अमर्त्यम् ।
यजिष्ठं मानुषे जने ॥२॥
तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता ।
अग्निं हव्याय वोळ्हवे ॥३॥
अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः ।
अविन्दद्गा अपः स्वः ॥४॥
अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत ।
वेतु मे शृणवद्धवम् ॥५॥
अग्निं घृतेन वावृधु स्तोमेभिर्विश्वचर्षणिम् ।
स्वाधीभिर्वचस्युभिः ॥६॥


सायणभाष्यम्

‘अग्निं स्तोमेन' इति षड़ृचं चतुर्दशं सूक्तं सुतंभरस्य आर्षं गायत्रमाग्नेयम् । ‘अग्निं स्तोमेन' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥


अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् ।

ह॒व्या दे॒वेषु॑ नो दधत् ॥१

अ॒ग्निम् । स्तोमे॑न । बो॒ध॒य॒ । स॒म्ऽइ॒धा॒नः । अम॑र्त्यम् ।

ह॒व्या । दे॒वेषु॑ । नः॒ । द॒ध॒त् ॥१

अग्निम् । स्तोमेन । बोधय । सम्ऽइधानः । अमर्त्यम् ।

हव्या । देवेषु । नः । दधत् ॥१

हे स्तोतः “अमर्त्यम् अमरणधर्माणम् “अग्निं “स्तोमेन स्तोत्रेण “बोधय। स्वाभिलषितार्थसिद्धये प्रबोधय । योऽग्निः “समिधानः स्तोत्रैः सम्यक् प्रकाशमानः सः “नः “हव्या अस्मदीयानि हव्यानि हवींषि “देवेषु “दधत् निदधातु ॥ ।।


तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम् ।

यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥२

तम् । अ॒ध्व॒रेषु॑ । ई॒ळ॒ते॒ । दे॒वम् । मर्ताः॑ । अम॑र्त्यम् ।

यजि॑ष्ठम् । मानु॑षे । जने॑ ॥२

तम् । अध्वरेषु । ईळते । देवम् । मर्ताः । अमर्त्यम् ।

यजिष्ठम् । मानुषे । जने ॥२

“मर्ताः मनुष्याः “देवं द्योतमानम् “अमर्त्यम् अमरणधर्माणं “मानुषे मनुष्याणां संबन्धिनि “जने लोके “यजिष्ठं यष्टृतमं “तम् अग्निम् “अध्वरेषु सप्ततन्तुषु “ईळते स्तुवन्ति ॥


तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ ।

अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ॥३

तम् । हि । शश्व॑न्तः । ईळ॑ते । स्रु॒चा । दे॒वम् । घृ॒त॒ऽश्चुता॑ ।

अ॒ग्निम् । ह॒व्याय॑ । वोळ्ह॑वे ॥३

तम् । हि । शश्वन्तः । ईळते । स्रुचा । देवम् । घृतऽश्चुता ।

अग्निम् । हव्याय । वोळ्हवे ॥३

“शश्वन्तः बहवः स्तोतारः “तं “देवम् “अग्निम् “ईळते स्तुवन्ति । कीदृशास्ते । “घृतश्चुता घृतं क्षरन्त्या “स्रुचा सहिताः । किमर्थं स्तुवन्ति । “हव्याय हव्यवहनार्थं चरुपुरोडाशादिलक्षणं हविः “वोढवे वोढुम् ॥


अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन्दस्यू॒ञ्ज्योति॑षा॒ तम॑ः ।

अवि॑न्द॒द्गा अ॒पः स्व॑ः ॥४

अ॒ग्निः । जा॒तः । अ॒रो॒च॒त॒ । घ्नन् । दस्यू॑न् । ज्योति॑षा । तमः॑ ।

अवि॑न्दत् । गाः । अ॒पः । स्वः॑ ॥४

अग्निः । जातः । अरोचत । घ्नन् । दस्यून् । ज्योतिषा । तमः ।

अविन्दत् । गाः । अपः । स्वः ॥४

“जातः अरण्योर्मथनेन प्रादुर्भूतः “अग्निः “दस्यून् यज्ञविघ्नकारिणः शत्रून् “घ्नन् हिंसन् “ज्योतिषा स्वेन तेजसा “तमः घ्नन् “अरोचत अदीप्यत । किंच “गा “अपः उदकानि “स्वः सूर्यं च “अविन्दत् अवेदयत् ॥


अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत ।

वेतु॑ मे शृ॒णव॒द्धव॑म् ॥५

अ॒ग्निम् । ई॒ळेन्य॑म् । क॒विम् । घृ॒तऽपृ॑ष्ठम् । स॒प॒र्य॒त॒ ।

वेतु॑ । मे॒ । शृ॒णव॑त् । हव॑म् ॥५

अग्निम् । ईळेन्यम् । कविम् । घृतऽपृष्ठम् । सपर्यत ।

वेतु । मे । शृणवत् । हवम् ॥५

हे जनाः “ईळेन्यं स्तुत्यं “कविं क्रान्तदर्शिनं “घृतपृष्ठं दीप्तोपरिभागम् “अग्निं “सपर्यत पूजयत । सोऽग्निः “मे “हवं मदीयमाह्वानं "वेतु कामयताम् । “शृणवत् शृणोतु च ॥


अ॒ग्निं घृ॒तेन॑ वावृधु॒ः स्तोमे॑भिर्वि॒श्वच॑र्षणिम् ।

स्वा॒धीभि॑र्वच॒स्युभि॑ः ॥६

अ॒ग्निम् । घृ॒तेन॑ । व॒वृ॒धुः॒ । स्तोमे॑भिः । वि॒श्वऽच॑र्षणिम् ।

सु॒ऽआ॒धीभिः॑ । व॒च॒स्युऽभिः॑ ॥६

अग्निम् । घृतेन । ववृधुः । स्तोमेभिः । विश्वऽचर्षणिम् ।

सुऽआधीभिः । वचस्युऽभिः ॥६

ऋत्विजः “विश्वचर्षणिं विश्वस्य द्रष्टारं “स्वाधीभिः शोभनाध्यानैः “वचस्युभिः स्तुतिकामैर्देवैः समेतम् “अग्निं “घृतेन “स्तोमेभिः स्तोमैः स्तोत्रैः “ववृधुः अवर्धयन् ॥ ॥ ६ ॥ ॥ १ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१४&oldid=199237" इत्यस्माद् पुनः प्राप्तिः