ऋग्वेदः सूक्तं ५.७४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.७३ ऋग्वेदः - मण्डल ५
सूक्तं ५.७४
पौर आत्रेयः
सूक्तं ५.७५ →
दे. अश्विनौ। अनुष्टुप्, ८ निचृत् ।


कूष्ठो देवावश्विनाद्या दिवो मनावसू ।
तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥१॥
कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।
कस्मिन्ना यतथो जने को वां नदीनां सचा ॥२॥
कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् ।
कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥३॥
पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः ।
यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥४॥
प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः ।
युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥५॥
अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये ।
नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥६॥
को वामद्य पुरूणामा वव्ने मर्त्यानाम् ।
को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥७॥
आ वां रथो रथानां येष्ठो यात्वश्विना ।
पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा ॥८॥
शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः ।
अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥९॥
अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम् ।
वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः ॥१०॥

सायणभाष्यम्

कूष्ठः' इति दशर्चं द्वितीयं सूक्तं पौरस्यार्षम् । कूष्ठः' इत्यनुक्रमणिका । पूर्वत्र तुशब्दात् इदमप्यानुष्टुभम् । आश्विनं तत्' इति पूर्वोक्तत्वात् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥


कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू ।

तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥१

कूऽस्थः॑ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति॑ ।

तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अत्रिः॑ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥१

कूऽस्थः । देवौ । अश्विना । अद्य । दिवः । मनावसू इति ।

तत् । श्रवथः । वृषण्वसू इति वृषण्ऽवसू । अत्रिः । वाम् । आ । विवासति ॥१

हे "देवौ हे "मनावसू स्तुतिधनौ "अश्विना "अद्य अस्मिन् यागदिने "दिवः द्युलोकात् आगत्य "कूष्ठः । व्यत्ययेनैकवचनम् । कौ भूमौ तिष्ठन्तौ सन्तौ "तत् स्तोत्रं "श्रवथः शृणुथः । हे "वृषण्वसू वर्षकधनौ “वाम् "अत्रिः अत्रेः पुत्रः “आ “विवासति सर्वतः परिचरति ॥ अथवा कू इत्यस्य निपातस्य स्थ इत्याख्यातेन 'सह' इति योगविभागात् समासः । ऐकस्वर्यं चाध्येतृसमयप्राप्तम् । ‘अराइव' (ऋ. सं. ५. ५८. ५) इत्यत्र यथेवशब्दः , • कूचिज्जायते ' ( ऋ. सं. १०. ४.५), ‘कूचिस्सन्तम्' (ऋ. सं. १०. ९३. ११ ) इत्यादिवदत्रापि द्रष्टव्यम् ॥ क्व स्थितौ भवथः । अत्रिर्युवां स्तौति तं श्रुणुथ इत्यर्थः ॥


कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या ।

कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥२

कुह॑ । त्या । कुह॑ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास॑त्या ।

कस्मि॑न् । आ । य॒त॒थः॒ । जने॑ । कः । वा॒म् । न॒दीना॑म् । सचा॑ ॥२

कुह । त्या । कुह । नु । श्रुता । दिवि । देवा । नासत्या ।

कस्मिन् । आ । यतथः । जने । कः । वाम् । नदीनाम् । सचा ॥२

“त्या तौ “देवा देवौ "नासत्या अश्विनौ “कुह कुत्र तिष्ठतः । “नु अद्य "कुह "श्रुता कुत्र श्रुतौ “दिवि द्युलोके निवसत इति शेषः । अथ प्रत्यक्षकृतः । हे देवौ युवां “कस्मिन् “जने यजमाने “आ “यतथः आगच्छथः । “कः स्तोता “वां युवयोः “नदीनां स्तुतीनां “सचा सहायः स्यात् ॥


कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युंजाथे॒ रथं॑ ।

कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥३

कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ॑ । यु॒ञ्जा॒थे॒ इति॑ । रथ॑म् ।

कस्य॑ । ब्रह्मा॑णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ ॥३

कम् । याथः । कम् । ह । गच्छथः । कम् । अच्छ । युञ्जाथे इति । रथम् ।

कस्य । ब्रह्माणि । रण्यथः । वयम् । वाम् । उश्मसि । इष्टये ॥३

हे अश्विनौ युवां “कं यजमानं यज्ञं वा प्रति “याथः । अध्वानमुल्लङ्घ्य' याथः । “कं “ह कं च प्रति “गच्छथः । गत्वा च केन सह संगतौ भवथः । "कं च “अच्छ अभिप्राप्तुं “युञ्जाथे योजयथः “रथम् अश्वैः । “कस्य “ब्रह्माणि परिवृढानि स्तोत्राणि “रण्यथः रमेथे। “वयं च “वां युवाम् “इष्टये गमनायैषणाय वा “उश्मसि कामयामहे तस्मात् कस्य चन यागं प्रति न गन्तव्यमित्यर्थः ॥


पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः ।

यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥४

पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः ।

यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥४

पौरम् । चित् । हि । उदऽप्रुतम् । पौर । पौराय । जिन्वथः ।

यत् । ईम् । गृभीतऽतातये । सिंहम्ऽइव । द्रुहः । पदे ॥४

हे “पौर। इदमश्विनोः संबोधनम् । पौरेण स्तुत्यत्वेन संबन्धात् अश्विनावपि पौरौ । उभयोः छान्दसमेकवचनम् । हे पौरसंबन्धिनावश्विनौ युवां “पौरम् । “चित् इति पूरणः । पौरेण वृष्ट्यर्थं प्रार्थ्यमानत्वेन संबन्धात् मेघोऽपि पौरः । तम् "उदप्रुतम् उदकप्लावकं मेघं पौराय ऋषये मह्यं “जिन्वथः प्रेरयथः । "यत् यौ युवां “गृभीततातये गृहीतयज्ञसंतानाय पौराय "ईम् एनं मेघं प्रति गच्छथः “द्रुहः द्रोहस्य “पदे स्थानेऽरण्यदेशे “सिंहमिव गर्जन्तं प्रबलं सिंह यथा बलात् च्यावयन्ति शूरास्तद्वत् जिन्वथ इति ॥


प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मुं॑चथः ।

युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥५

प्र । च्यवा॑नात् । जु॒जु॒रुषः॑ । व॒व्रिम् । अत्क॑म् । न । मु॒ञ्च॒थः॒ ।

युवा॑ । यदि॑ । कृ॒थः । पुनः॑ । आ । काम॑म् । ऋ॒ण्वे॒ । व॒ध्वः॑ ॥५

प्र । च्यवानात् । जुजुरुषः । वव्रिम् । अत्कम् । न । मुञ्चथः ।

युवा । यदि । कृथः । पुनः । आ । कामम् । ऋण्वे । वध्वः ॥५

“च्यवानात् ऋषेः “जुजुरुषः जरसा जीर्णात् सकाशात् “वव्रिं हेयं पुराणं रूपम् “अत्कं “न कवचमिव “प्र “मुञ्चथः प्रमुञ्चतम् । ‘प्रामुञ्चतं द्रापिमिव च्यवानात् ' ( ऋ. सं. १. ११६. १०) इत्यादि मन्त्रान्तरम् । “यदि यदा “पुनः "युवा “कृथः । युवानं कुरुथ इत्यर्थः । तदा “वध्वः सुरूपायाः स्त्रियः “कामं कमनीयं रूपम् “आ “ऋण्वे प्राप्तवान् ॥ ॥ १३ ॥


अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये ।

नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥६

अस्ति॑ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि॑ । वा॒म् । स॒म्ऽदृशि॑ । श्रि॒ये ।

नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः॑ऽभिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥६

अस्ति । हि । वाम् । इह । स्तोता । स्मसि । वाम् । सम्ऽदृशि । श्रिये ।

नु । श्रुतम् । मे । आ । गतम् । अवःऽभिः । वाजिनीवसू इति वाजिनीऽवसू ॥६

हे अश्विनौ "वां “स्तोता पौरः “अस्ति “हि वर्तते खलु । हे देवौ “वां संदृशि संदर्शने संनिधाने “स्मसि स्मः भवेम । किमर्थम् । “श्रिये । “नु अद्य “मे मदीयमाह्वानं “श्रुतं शृणुतम् । श्रुत्वा “आ “गतम् आगच्छतम् । किं तूष्णीं नेत्याह । “अवोभिः रक्षणैः सह “वाजिनीवसू अन्नवसूः ॥


को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नां ।

को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥७

कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या॑नाम् ।

कः । विप्रः॑ । वि॒प्र॒ऽवा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥७

कः । वाम् । अद्य । पुरूणाम् । आ । वव्ने । मर्त्यानाम् ।

कः । विप्रः । विप्रऽवाहसा । कः । यज्ञैः । वाजिनीवसू इति वाजिनीऽवसू ॥७

हे वाजिनीवसू अन्नवसू “वां युवाम् “अद्य अस्मिन् दिने “पुरूणां “मर्त्यानां मध्ये “कः “आ “वव्ने सर्वतो भजति । हे "विप्रवाहसा विप्रैर्मेधाविभिर्वहनीयौ “को “विप्रः मेधावी वव्ने । “कः यजमानः “यज्ञैः वव्ने । अत्यन्तविलम्बमसहमानः पुनःपुनर्ब्रूते ॥


आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना ।

पु॒रू चि॑दस्म॒युस्ति॒र आं॑गू॒षो मर्त्ये॒ष्वा ॥८

आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ ।

पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥८

आ । वाम् । रथः । रथानाम् । येष्ठः । यातु । अश्विना ।

पुरु । चित् । अस्मऽयुः । तिरः । आङ्गूषः । मर्त्येषु । आ ॥८

हे “अश्विना अश्विनौ “वां युवयोः “रथः एको रथः “रथानां “येष्ठः इतरदेवरथानां मध्ये अतिशयेन गन्ता सन् “आ “यातु । कीदृशः सन् । “पुरू “चित् बहूनपि अस्मद्विरोधिनः “तिरः हिंसकः तिरस्कर्ता वा “अस्मयुः अस्मान् कामयमानः “मर्त्येषु सर्वेषु यजमानेषु मध्ये “आङ्गूषः स्तुत्यः। आकारः पूरणः । अथवा आङ्गूषः स्तोमः । स्तवोऽस्मयुरस्मान् बलैर्योक्तुं कामयमानो मर्त्येषु मर्त्यैरस्मदीयैर्ऋत्विग्भिः प्रेरितः सन् । उक्तलक्षणाश्विनो रथस्य वा स्तुतिः आ सर्वतः पुरू चित् पुरूण्यपि शत्रुबलानि तिरः तिरस्करोति ॥


शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः ।

अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतं ॥९

शम् । ऊं॒ इति॑ । सु । वा॒म् । म॒धु॒ऽयु॒वा॒ । अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृ॒तिः ।

अ॒र्वा॒ची॒ना । वि॒ऽचे॒त॒सा॒ । विऽभिः॑ । श्ये॒नाऽइ॑व । दी॒य॒त॒म् ॥९

शम् । ऊं इति । सु । वाम् । मधुऽयुवा । अस्माकम् । अस्तु । चर्कृतिः ।

अर्वाचीना । विऽचेतसा । विऽभिः । श्येनाऽइव । दीयतम् ॥९

हे “मधूयुवा मधुमन्तौ “वां युवाभ्यां “चर्कृतिः पुनःपुनः करणं युवाभ्यामर्थाय पुनः पुनः क्रियमाणं स्तोत्रं युवयोरागमनस्याभ्यासो वा “अस्माकं "सु सुष्ठु “शमु सुखकरमेव "अस्तु भवतु । हे "अर्वाचीना अर्वागस्मदभिमुखाञ्चनौ हे “विचेतसा विशिष्टप्रज्ञौ “श्येनेव श्येनाविव “विभिः गन्तृभिरश्वैः “दीयतं गच्छतम् ॥


अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।

वस्वी॑रू॒ षु वां॒ भुजः॑ पृं॒चंति॒ सु वां॒ पृचः॑ ॥१०

अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।

वस्वीः॑ । ऊं॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥१०

अश्विना । यत् । ह । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।

वस्वीः । ऊं इति । सु । वाम् । भुजः । पृञ्चन्ति । सु । वाम् । पृचः ॥१०

हे “अश्विना युवां “यद्ध यत्र “कर्हि “चित् स्थितवन्तौ भवथः तत्र “इमं मे “हवम् आह्वानं "शुश्रुयातं शृणुतम् । श्रुत्वागच्छतमित्यर्थः । किमर्थमित्युच्यते । "वस्वीः प्रशस्याः “भुजः धनानि हविर्लक्षणानि 'सु सुष्ठु "वां युवां “पृञ्चन्ति मिश्रयन्ति प्राप्नुवन्ति । “उ इति पूरणः । कीदृश्यो भुजः । “वां युवां “सु सुष्ठु "पृचः संपर्चनाः । युवां प्राप्तुं कामयमाना इत्यर्थः । अथवा सु पृचः सुसंपर्चनाः स्तोतारो वस्वीर्भुजो वां सुष्ठु पृञ्चन्ति संपर्चयन्ति ॥ ॥ १४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७४&oldid=209185" इत्यस्माद् पुनः प्राप्तिः