ऋग्वेदः सूक्तं ५.१६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.१५ ऋग्वेदः - मण्डल ५
सूक्तं ५.१६
पूरुरात्रेयः
सूक्तं ५.१७ →
दे. अग्निः। अनुष्टुप्, ५ पङ्क्तिः।


बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।
यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥१॥
स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः ।
वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥२॥
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥३॥
अधा ह्यग्न एषां सुवीर्यस्य मंहना ।
तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥४॥
नू न एहि वार्यमग्ने गृणान आ भर ।
ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥५॥


सायणभाष्यम्

बृहद्वयः' इति पञ्चर्चं द्वितीयं सूक्तमात्रेयस्य पूरोरार्षम् । अन्त्या पङ्क्तिः शिष्टा अनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं - बृहत्पूरुः पङ्क्त्यन्तं हि ' इति । प्रातरनुवाके आग्नेये क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चेदमादीनि दश सूक्तानि चतुर्थनवमवर्जितानि । आदितस्त्रिषु सूक्तेष्वन्त्यामुद्धरेत् । तथा च सूत्रितं-- बृहद्वय इति दशानां चतुर्थनवमे उद्धरेदुत्तमामुत्तमां चादितस्त्रयाणाम् । ( आश्व. श्रौ. ४. १३ ) इति ॥


बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥१

बृ॒हत् । वयः॑ । हि । भा॒नवे॑ । अर्च॑ । दे॒वाय॑ । अ॒ग्नये॑ ।

यम् । मि॒त्रम् । न । प्रश॑स्तिऽभिः । मर्ता॑सः । द॒धि॒रे । पु॒रः ॥१

बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये ।

यम् । मित्रम् । न । प्रशस्तिऽभिः । मर्तासः । दधिरे । पुरः ॥१

यज्ञे "भानवे दीप्तिमते अग्नये "बृहद्वयः हवीरूपमन्नं दीयते "हि । अतस्त्वमपि “देवाय द्योतमानाय “अग्नये वयः “अर्च प्रयच्छ । "मर्तासः मनुष्याः "यम् अग्निं "मित्रं "न सखायमिव “प्रशस्तिभिः प्रकृष्टाभिः स्तुतिभिः "पुरः "दधिरे पुरस्कुर्वन्ति ।।


स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।

वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥२

सः । हि । द्युऽभिः॑ । जना॑नाम् । होता॑ । दक्ष॑स्य । बा॒ह्वोः ।

वि । ह॒व्यम् । अ॒ग्निः । आ॒नु॒षक् । भगः॑ । न । वार॑म् । ऋ॒ण्व॒ति॒ ॥२

सः । हि । द्युऽभिः । जनानाम् । होता । दक्षस्य । बाह्वोः ।

वि । हव्यम् । अग्निः । आनुषक् । भगः । न । वारम् । ऋण्वति ॥२

यः "अग्निः "हव्यं हविः “आनुषक् देवेष्वनुषक्तं करोति “बाह्रोः भुजयोः "दक्षस्य बलस्य "द्युभिः द्युतिभिर्युक्तः "सः अग्निः “जनानां यजमानानां “होता देवानामाह्वाता भवति । "भगो "न सूर्य इव "वारं वरणीयं धनं "वि “ऋण्वति विशेषेण प्रयच्छति मनुष्येषु ॥


अ॒स्य स्तोमे॑ म॒घोन॑ः स॒ख्ये वृ॒द्धशो॑चिषः ।

विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥३

अ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः ।

विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वनि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥३

अस्य । स्तोमे । मघोनः । सख्ये । वृद्धऽशोचिषः ।

विश्वा । यस्मिन् । तुविऽस्वनि । सम् । अर्ये । शुष्मम् । आऽदधुः ॥३

“मघोनः मघवतो धनवतः "वृद्धशोचिषः । वृद्धानि प्रवृद्धानि शोचींषि तेजांसि यस्यासौ बृद्धशोचिः । तस्यैवंविधस्याग्नेः "स्तोमे स्तोत्रे "सख्ये च स्याम। "तुविष्वणि बहुशब्दे “अर्ये स्वामिनि "यस्मिन् अग्नौ “विश्वा ॥ ‘ सुपां सुलुक्° ' इति डादेशः ॥ विश्वे सर्वे ऋत्विजः “शुष्मं बलं हविर्भिः स्तोत्रैश्च "सम् "आदधुः सम्यगादधति ॥


अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।

तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥४

अध॑ । हि । अ॒ग्ने॒ । ए॒षा॒म् । सु॒ऽवीर्य॑स्य । मं॒हना॑ ।

तम् । इत् । य॒ह्वम् । न । रोद॑सी॒ इति॑ । परि॑ । श्रवः॑ । ब॒भू॒व॒तुः॒ ॥४

अध । हि । अग्ने । एषाम् । सुऽवीर्यस्य । मंहना ।

तम् । इत् । यह्वम् । न । रोदसी इति । परि । श्रवः । बभूवतुः ॥४

हे "अग्ने "अध अथ “एषाम् अस्माकं यजमानानां "सुवीर्यस्य सर्वैः स्पृहणीयस्य बलस्य “मंहना मंहनायै दानाय भव ॥ मंहतिर्दानकर्मा ॥ “रोदसी द्यावापृथिव्यौ "यह्वं “न महान्तं सूर्यमिव “श्रवः सर्वैः श्रवणीयं "तमित् तमग्निमेव "परि “बभूवतुः परिगृह्णीतः ॥


नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।

ये व॒यं ये च॑ सू॒रय॑ः स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥५

नु । नः॒ । आ । इ॒हि॒ । वार्य॑म् । अग्ने॑ । गृ॒णा॒नः । आ । भ॒र॒ ।

ये । व॒यम् । ये । च॒ । सू॒रयः॑ । स्व॒स्ति । धाम॑हे । सचा॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥५

नु । नः । आ । इहि । वार्यम् । अग्ने । गृणानः । आ । भर ।

ये । वयम् । ये । च । सूरयः । स्वस्ति । धामहे । सचा । उत । एधि । पृत्ऽसु । नः । वृधे ॥५

हे "अग्ने "गृणानः स्तूयमानः सन् “नु क्षिप्रम् “एहि । यज्ञं प्रत्यागच्छ । अगत्य च "नः अस्मभ्यं “वार्यं वरणीयं धनम् “आ “भर संपादय । "ये “वयं यजमानाः "ये “च "सूरयः स्तोतारः "सचा हविर्भिः सहिता उभे ये वयं "स्वस्ति स्तोत्रं “धामहे कुर्मः । “उत अपि च "पृत्सु पृतनासु "नः अस्माकं "वृधे समृद्धये “एधि भव ॥ ॥ ८ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१६&oldid=199395" इत्यस्माद् प्रतिप्राप्तम्