ऋग्वेदः सूक्तं ५.८३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.८२ ऋग्वेदः - मण्डल ५
सूक्तं ५.८३
भौमोऽत्रिः
सूक्तं ५.८४ →
दे. पर्जन्यः। त्रिष्टुप्, २-४ जगती, ९ अनुष्टुप्।
पर्जन्यः

अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास ।
कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥१॥
वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः ॥२॥
रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह ।
दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥३॥
प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।
इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥४॥
यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति ।
यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥५॥
दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः ।
अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥६॥
अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन ।
दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥७॥
महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् ।
घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥८॥
यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः ।
प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥९॥
अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।
अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥१०॥


सायणभाष्यम्

‘अच्छा वद' इति दशर्चमेकादशं सूक्तं भौमस्यात्रेरार्षम् । अत्रेयमनुक्रमणिका-- ‘अच्छ दशात्रिः पार्जन्यमुपाद्यास्तिस्रो जगत्य उपान्त्यानुष्टुप् ' इति । ‘यत्पर्जन्य' इत्येषा नवम्यनुष्टुप् ‘वि वृक्षान्' इत्याद्यास्तिस्रो जगत्यः शिष्टाः षट् त्रिष्टुभः । पर्जन्यो देवता । अनेन सूक्तेन प्रत्यृचं वा दिशः उपस्थेयाः । सूत्रितं च-’संस्थितायां सर्वा दिश उपतिष्ठेताच्छा वद तवसं गीर्भिराभिरिति चतसृभिः प्रत्यृचं सूक्तेन वा ' (आश्व. श्रौ. २. १३) इति ॥


अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।

कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥१

अच्छ॑ । व॒द॒ । त॒वस॑म् । गीः॒ऽभिः । आ॒भिः । स्तु॒हि । प॒र्जन्य॑म् । नम॑सा । आ । वि॒वा॒स॒ ।

कनि॑क्रदत् । वृ॒ष॒भः । जी॒रऽदा॑नुः । रेतः॑ । द॒धा॒ति॒ । ओष॑धीषु । गर्भ॑म् ॥१

अच्छ । वद । तवसम् । गीःऽभिः । आभिः । स्तुहि । पर्जन्यम् । नमसा । आ । विवास ।

कनिक्रदत् । वृषभः । जीरऽदानुः । रेतः । दधाति । ओषधीषु । गर्भम् ॥ १ ॥

हे स्तोतः "तवसं बलवन्तं "पर्जन्यम् "अच्छ अभिप्राप्य "वद प्रार्थय । पर्जन्यशब्दो यास्केन बहुधा निरुक्तः -- पर्जन्यस्तृपेराद्यन्तविपरीतस्य तर्पयिता जन्यः परो जेता वा जनयिता वा प्रार्जयिता वा रसानाम् ' ( निरु. १०. १० ) इति । "आभिः “गीर्भिः स्तुतिवाग्भिः "स्तुहि । "नमसा अन्नेन हविर्लक्षणेन "आ "विवास सर्वतः परिचर । यः पर्जन्यः "वृषभः अपां वर्षिता "जीरदानुः क्षिप्रदानः "कनिक्रदत् गर्जनशब्दं कुर्वन् “ओषधीषु "गर्भं गर्भस्थानीयं "रेतः उदकं "दधाति स्थापयति तं स्तुहि ॥


वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।

उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ॥२

वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः॑ । विश्व॑म् । बि॒भा॒य॒ । भुव॑नम् । म॒हाऽव॑धात् ।

उ॒त । अना॑गाः । ई॒ष॒ते॒ । वृष्ण्य॑ऽवतः । यत् । प॒र्जन्यः॑ । स्त॒नय॑न् । हन्ति॑ । दुः॒ऽकृतः॑ ॥२

वि । वृक्षान् । हन्ति । उत । हन्ति । रक्षसः । विश्वम् । बिभाय । भुवनम् । महाऽवधात् ।

उत । अनागाः । ईषते । वृष्ण्यऽवतः। यत् । पर्जन्यः । स्तनयन् । हन्ति । दुःऽकृतः ॥२॥

अयं मन्त्रो निरुक्ते स्पष्टं व्याख्यातः । तदेवात्र लिख्यते---- पर्जन्यो विहन्ति वृक्षान्विहन्ति च रक्षांसि सर्वाणि चास्माद्भूतानि बिभ्यति महावधात् महान् ह्यस्य वधः । अप्यनपराधो भीतः पलायते वर्षकर्मवतो यत्पर्जन्यः स्तनयन् हन्ति दुष्कृतः पापकृतः ' ( निरु. १० . ११ ) इति ॥


र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।

दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥३

र॒थीऽइ॑व । कश॑या । अश्वा॑न् । अ॒भि॒ऽक्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या॑न् । अह॑ ।

दू॒रात् । सिं॒हस्य॑ । स्त॒नथाः॑ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः॑ । कृ॒णु॒ते । व॒र्ष्य॑म् । नभः॑ ॥३

रथीऽइव । कशया । अश्वान् । अभिऽक्षिपन् । आविः । दूतान् । कृणुते । वर्ष्यान् । अह।

दूरात् । सिंहस्य । स्तनथाः । उत्। ईरते । यत् । पर्जन्यः । कृणुते । वर्ष्यम् । नभः ॥३॥

"रथीव रथस्वामीव। स यथा कशया अश्वान अभिक्षिपन् दूतान् भटान् आविष्करोति तद्वदसौ पजन्योऽपि "कशया “अश्वान् मेघान् "अभिक्षिपन् अभिप्रेरयन् 'वर्ष्यान् वर्षकान् "दूतान् दूतवत् वृष्टिप्रेरकान् मेघान् मरुतो वा "आविः "कृणुते प्रकटयति । "अह इति पूरणः । एवं सति “सिंहस्य। सहतेर्हिंसतेर्वा शब्दकर्मणः सिंहशब्दः । अवर्षणेनाभिभवितुः शब्दयितुर्वा मेघस्य “स्तनथाः गर्जनशब्दाः "दूरात् "उदीरते उद्गच्छन्ति । कदा। "यत् यदा “पर्जन्यः “नभः अन्तरिक्षं "वर्ष्यं वर्षोपेतं "कृणुते करोति तदा ।।


‘प्र वाताः' इति चतुर्थी पर्जन्यस्य चरोर्याज्या । सूत्रितं च--- प्र वाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभृति ' ( आश्व. श्रौ. २ . १५) इति ॥

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥४

प्र । वाताः॑ । वान्ति॑ । प॒तय॑न्ति । वि॒ऽद्युतः॑ । उत् । ओष॑धीः । जिह॑ते । पिन्व॑ते । स्वः॑ ।

इरा॑ । विश्व॑स्मै । भुव॑नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः॑ । पृ॒थि॒वीम् । रेत॑सा । अव॑ति ॥४

प्र । वाताः । वान्ति। पतयन्ति । विऽद्युतः । उत् । ओषधीः । जिहते । पिन्वते । स्वरिति स्वः ।

इरा । विश्वस्मै । भुवनाय । जायते । यत् । पर्जन्यः । पृथिवीम् । रेतसा । अवति ॥ ४ ॥

“प्र “वान्ति "वाता: वृष्ट्यर्थम् । "पतयन्ति गच्छन्ति समन्तात् संचरन्ति "विद्युतः । “ओषधीः ओषधयः "उत् "जिहते उद्गच्छन्ति प्रवर्धन्ते । "स्वः अन्तरिक्षं "पिन्वते क्षरति । "इरा भूमिः "विश्वस्मै सर्वस्मै "भुवनाय सर्वजगद्धितीय "जायते समर्था भवति । कदैवमिति । “यत् यदा “पर्जन्यः देवः "पृथिवीं "रेतसा उदकेन "अवति रक्षति अभिगच्छति वा तदैवं भवति ।


यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।

यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पा॒ः स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥५

यस्य॑ । व्र॒ते । पृ॒थि॒वी । नम्न॑मीति । यस्य॑ । व्र॒ते । श॒फऽव॑त् । जर्भु॑रीति ।

यस्य॑ । व्र॒ते । ओष॑धीः । वि॒श्वऽरू॑पाः । सः । नः॒ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥५

यस्य । व्रते । पृथिवी । नन्नमीति । यस्य । व्रते । शफऽवत् । जर्भुरीति ।

यस्य । व्रते । ओषधीः । विश्वऽरूपाः । सः । नः । पर्जन्य । महि । शर्म । यच्छ ॥ ५ ॥

“यस्य पर्जन्यस्य व्रते कर्मणि "पृथिवी "नन्नमीति अत्यर्थं नमति सर्वेषामधो भवति । "यस्य “व्रते “शफवत् पादोपेतं गवादिकं "जर्भुरीति भ्रियते पूर्यते गच्छतीति वा । "यस्य "व्रते कर्मणि “ओषधीः ओषध्यः "विश्वरूपाः नानारूपा भवन्ति हे "पर्जन्य "सः महांस्त्वं “नः अस्मभ्यं "महि “शर्म महत् सुखं "यच्छ प्रयच्छ ॥ ॥ २७ ॥


दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥६

दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः॑ ।

अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒ । अ॒पः । नि॒ऽसि॒ञ्चन् । असु॑रः । पि॒ता । नः॒ ॥६

दिवः । नः । वृष्टिम् । मरुतः । ररीध्वम् । प्र । पिन्वत । वृष्णः । अश्वस्य । धाराः ।

अर्वाङ्। एतेन । स्तनयित्नुना। आ । इहि। अपः । निऽसिञ्चन् । असुरः। पिता। नः ॥६॥

हे “मरुतः यूयं "दिवः अन्तरिक्षसकाशात् "नः अस्मदर्थं "वृष्टिं "ररीध्वं दत्त । "वृष्णः वर्षकस्य "अश्वस्य व्यापकस्य मेघस्य संबन्धिन्यः “धाराः उदकधाराः “प्र “पिन्वत प्रक्षरत । हे पर्जन्य त्वम् "एतेन "स्तनयित्नुना गर्जता मेघेन सह "अर्वाङ् अस्मदभिमुखम् “एहि आगच्छ। किं कुर्वन् । “अपः अम्भांसि "निषिञ्चन् स देवः "असुरः उदकानां निरसितापि सन् "नः अस्माकं “पिता पालकश्च ॥


अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥७

अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । गर्भ॑म् । आ । धाः॒ । उ॒द॒न्ऽवता॑ । परि॑ । दी॒य॒ । रथे॑न ।

दृति॑म् । सु । क॒र्ष॒ । विऽसि॑तम् । न्य॑ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒त्ऽवतः॑ । नि॒ऽपा॒दाः ॥७

अभि । क्रन्द । स्तनय । गर्भम् । आ । धाः । उदन्ऽवता । परि । दीय । रथेन ।

दृतिम् । सु । कर्ष । विऽसितम् । न्यञ्चम् । समाः । भवन्तु । उत्ऽवतः । निऽपादाः ॥७॥

"अभि भूम्यभिमुखं "क्रन्द शब्दय । तदेव पुनरुच्यते दार्ढ्याय । "स्तनय गर्ज। "गर्भं गर्भस्थानीयमुदकम् ओषधीषु “आ “धाः आधेहि । तदर्थम् "उदन्वता उदकवता "रथेन “परि “दीय परितो गच्छ। "दृतिं दृतिवदुदकधारकं मेघं "विषितं विशेषेण सितं बद्धं “न्यच्चं न्यक् अधोमुखं “सु सुष्टु "कर्ष आकर्ष वृष्ट्यर्थम् । यद्वा । विषितं विमुक्तबन्धनमेवं कर्ष । एवं कृते उद्वतः ऊर्ध्ववन्तः उन्नतप्रदेशाः "निपादाः न्यग्भूतपादा निकृष्टपादा वा निम्नोन्नतप्रदेशाः समाः एकस्थाः "भवन्तु उदकपूर्णा भवन्त्वित्यर्थः ॥


म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।

घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥८

म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द॑न्ताम् । कु॒ल्याः । विऽसि॑ताः । पु॒रस्ता॑त् ।

घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । वि । उ॒न्धि॒ । सु॒ऽप्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः॑ ॥८

महान्तम् । कोशम्। उत् । अच । नि । सिञ्च । स्यन्दन्ताम् । कुल्याः । विऽसिता: । पुरस्तात् ।

घृतेन । द्यावापृथिवी इति । वि। उन्धि । सुऽप्रपानम् । भवतु । अघ्न्याभ्यः ॥ ८ ॥

हे पर्जन्य त्वं "महान्तं प्रवृद्धं "कोशं कोशस्थानीयं मेघम् "उदच उद्गच्छ । उद्गमय वा । तथा कृत्वा "नि "षिञ्च नीचैः क्षारय । “कुल्या: नद्यः “विषिताः विष्यूताः सत्यः "स्यन्दन्तां प्रवहन्तु "पुरस्तात् पूर्वाभिमुखम् । प्रायेण नद्यः प्राच्यः स्यन्दन्ते। "घृतेन उदकेन "द्यावापृथिवी दिवं च पृथिवीं च "व्युन्धि क्लेदय अत्यधिकम् । "अघ्न्याभ्यः गोभ्यः "सुप्रपाणं सुष्टु प्रकर्षेण पातव्यमुदकं "भवतु ॥


यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ ।

प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥९

यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ ।

प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥९

यत् । पर्जन्य । कनिक्रदत् । स्तनयन् । हंसि । दुःऽकृतः ।

प्रति । इदम् । विश्वम्। मोदते । यत् । किम् । च । पृथिव्याम् । अधि ॥ ९॥

हे "पर्जन्य "यत् यदा त्वं "कनिक्रदत् अत्यर्थं शब्दयन् "स्तनयन् "दुष्कृतः पापकृतो मेघान् "हंसि विदारयसि तदानीम् "इदं "विश्वं जगत् "प्रति मोदते । विश्वं विशेष्यते । "यत्किं “च "पृथिव्यामधि भूम्यामधिष्ठितं यच्चराचरात्मकं तदिदं विश्वं मोदते हृष्यति । वृष्टेः सर्वजगत्प्रीतिकारणत्वं प्रसिद्धम् ।।


अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।

अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥१०

अव॑र्षीः । व॒र्षम् । उत् । ऊं॒ इति॑ । सु । गृ॒भा॒य॒ । अकः॑ । धन्वा॑नि । अति॑ऽए॒त॒वै । ऊं॒ इति॑ ।

अजी॑जनः । ओष॑धीः । भोज॑नाय । कम् । उ॒त । प्र॒ऽजाभ्यः॑ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥१०

अवर्षीः । वर्षम् । उत् । ऊँ इति । सु । गृभाय । अकः । धन्वानि । अतिऽएतवै । ऊँ इति ।

अजीजनः । ओषधीः । भोजनाय । कम् । उत । प्रऽजाभ्यः । अविदः । मनीषाम् ॥१०॥

इयमतिवृष्टिविमोचनी । हे पर्जन्य त्वम् "अवर्षीः वृष्टवानसि । "वर्षमुदु “षू "गृभाय उत्कृष्टं सु सुष्ठु गृभाय गृहाण । परिहरेत्यर्थः। “धन्वानि निरुदकप्रदेशान् "अकः जलवतः कृतवानसि । किमर्थम् । "अत्येतवा "उ अतिक्रम्य गन्तुम् । "ओषधीः "अजीजनः उदपादयः । किमर्थम् । “भोजनाय धनाय भोगाय वा । "कम् इत्ययं ‘शिशिरं जीवनाय कम्' इतिवत्पादपूरणः ( निरु. १. १० )। "उत अपि च "प्रजाभ्यः सकाशात् "मनीषां स्तुतिम् "अविदः प्राप्तवानसि ॥ ॥ २८ ॥


[सम्पाद्यताम्]

पर्जन्योपरि संदर्भाः


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८३&oldid=209190" इत्यस्माद् पुनः प्राप्तिः