ऋग्वेदः सूक्तं ५.२३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.२२ ऋग्वेदः - मण्डल ५
सूक्तं ५.२३
द्युम्नो विश्वचर्षणिरात्रेयः
सूक्तं ५.२४ →
दे. अग्निः। अनुष्टुप्, ४ पङ्क्तिः।


अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् ।
विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥१॥
तमग्ने पृतनाषहं रयिं सहस्व आ भर ।
त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥२॥
विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।
होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥३॥
स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे ।
अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥४॥


सायणभाष्यम्

‘ अग्ने सहन्तम्' इति चतुर्ऋचं नवमं सूक्तम् । अत्रानुक्रमणिका - अग्ने द्युम्नो विश्वचर्षणिः ' इति । द्युम्न ऋषिः । चतुर्थी पङ्क्तिः । आद्यास्तिस्रोऽनुष्टुभः । अग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तान्तःपातित्वादुक्तो विनियोगः ॥


अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् ।

विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥१

अग्ने॑ । सह॑न्तम् । आ । भ॒र॒ । द्यु॒म्नस्य॑ । प्र॒ऽसहा॑ । र॒यिम् ।

विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । आ॒सा । वाजे॑षु । स॒सह॑त् ॥१

अग्ने । सहन्तम् । आ । भर । द्युम्नस्य । प्रऽसहा । रयिम् ।

विश्वाः । यः । चर्षणीः । अभि । आसा । वाजेषु । ससहत् ॥१

हे "अग्ने "प्रासहा प्रकृष्टेन बलेन "सहन्तं शत्रूनभिभवन्तं "रयिं पुत्रं "द्युम्नस्य द्युम्नाय मह्यं ऋषये “आ “भर आहर ॥ चतुर्थ्यर्थे षष्ठी ॥ एतदेव विवृणोति । "यः पुत्रः "आसा आस्येन स्तोत्रेण युक्तः सन् "वाजेषु युद्धेषु “अभि आभिमुख्येन गतान् "विश्वाः सर्वान् "चर्षणीः मनुष्यान् शत्रून् “सासहत् अभिभवति ॥


तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र ।

त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥२

तम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽसह॑म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।

त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोऽम॑तः ॥२

तम् । अग्ने । पृतनाऽसहम् । रयिम् । सहस्वः । आ । भर ।

त्वम् । हि । सत्यः । अद्भुतः । दाता । वाजस्य । गोऽमतः ॥२

हे "अग्ने "सहस्वः बलवन् "पृतनासहं पृतनाः सेना अभिभवितारं "रयिं पुत्रं त्वम् “आ “भर आहर । “त्वं "हि "सत्यः सत्यभूतः "अद्भुतः महान् "गोमतः गोभिर्युक्तस्य “वाजस्य अन्नस्य "दाता ॥


विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः ।

होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥३

विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः ।

होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥३

विश्वे । हि । त्वा । सऽजोषसः । जनासः । वृक्तऽबर्हिषः ।

होतारम् । सद्मऽसु । प्रियम् । व्यन्ति । वार्या । पुरु ॥३

हे अग्ने “सजोषसः सह प्रीयमाणाः “वृक्तबर्हिषः लूनबर्हिषः “विश्वे सर्वे “जनासः जना ऋत्विजः “सद्मसु यज्ञगृहेषु “होतारं देवानामाह्वातारं “प्रियं सर्वेषां प्रीतिकरं “त्वा त्वां “पुरु पुरूणि बहूनि “वार्या वरणीयानि धनानि "व्यन्ति याचन्ते ॥


स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे ।

अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्न॑ः शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥४

सः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे ।

अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥४

सः । हि । स्म । विश्वऽचर्षणिः । अभिऽमाति । सहः । दधे ।

अग्ने । एषु । क्षयेषु । आ । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पावक । दीदिहि ॥४

हे "अग्ने “सः लोकेषु प्रसिद्धः “विश्वचर्षणिः ऋषिः “अभिमाति शत्रूणां हिंसकं “सहः बलं “दधे धारयतु । “हि “ष्म इति पूरणौ । हे "शुक्र शोचिष्मन् त्वं “नः अस्मदीयेषु “एषु “क्षयेषु गृहेषु “रेवत् धनयुक्तं यथा भवति तथा “आ “दीदिहि आदीप्यस्व । हे “पावक पापानां शोधकाग्ने त्वं “द्युमत् दीप्तियुक्तं यशोयुक्तं च “दीदिहि दीप्यस्व ॥ ॥ १५ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२३&oldid=199408" इत्यस्माद् प्रतिप्राप्तम्