ऋग्वेदः सूक्तं ५.८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.७ ऋग्वेदः - मण्डल ५
सूक्तं ५.८
इष आत्रेयः
सूक्तं ५.९ →
दे. अग्निः। जगती


त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥१॥
त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे ।
बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥२॥
त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम् ।
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥३॥
त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम ।
स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥४॥
त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत ।
पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥५॥
त्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् ।
उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥६॥
त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे ।
स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥७॥


सायणभाष्यम्

‘त्वामग्ने' इति सप्तर्चमष्टमं सूक्तमात्रेयस्य इषस्य आर्षं जागतमाग्नेयम् । ‘ त्वामग्ने सप्त जागतम् ' इत्यनुक्रमणिका । प्रातरनुवाके आग्नेये क्रतौ जागते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रं - जनस्य गोपास्त्वमग्न ऋतायवः' ( आश्व. श्रौ. ४. १३ ) इति ॥


त्वाम॑ग्न ऋता॒यव॒ः समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत ।

पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥१

त्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः॑ । ऊ॒तये॑ । स॒हः॒ऽकृ॒त॒ ।

पु॒रु॒ऽच॒न्द्रम् । य॒ज॒तम् । वि॒श्वऽधा॑यसम् । दमू॑नसम् । गृ॒हऽप॑तिम् । वरे॑ण्यम् ॥१

त्वाम् । अग्ने । ऋतऽयवः । सम् । ईधिरे । प्रत्नम् । प्रत्नासः । ऊतये । सहःऽकृत ।

पुरुऽचन्द्रम् । यजतम् । विश्वऽधायसम् । दमूनसम् । गृहऽपतिम् । वरेण्यम् ॥१

हे "सहस्कृत बलस्य कर्तः "अग्ने "प्रत्नं पुरातनं "त्वां "प्रत्नासः पुरातनाः “ऋतायवः यज्ञकामा ऋषयः “ऊतये स्वरक्षणाय "समीधिरे सम्यग्दीपितवन्तः । कीदृशं त्वाम् । "पुरुश्चन्द्रं बहुधनम् अतिशयेनाह्लादकं वा "यजतं यष्टव्यं “विश्वधायसं बह्वन्नं "दमूनसं दानमनसं “गृहपतिं यजमानगृहस्य पालकं "वरेण्यं वरणीयम् ॥


त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विश॑ः शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे ।

बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विष॑म् ॥२

त्वाम् । अ॒ग्ने॒ । अति॑थिम् । पू॒र्व्यम् । विशः॑ । शो॒चिःऽके॑शम् । गृ॒हऽप॑तिम् । नि । से॒दि॒रे॒ ।

बृ॒हत्ऽके॑तुम् । पु॒रु॒ऽरूप॑म् । ध॒न॒ऽस्पृत॑म् । सु॒ऽशर्मा॑णम् । सु॒ऽअव॑सम् । ज॒र॒त्ऽविष॑म् ॥२

त्वाम् । अग्ने । अतिथिम् । पूर्व्यम् । विशः । शोचिःऽकेशम् । गृहऽपतिम् । नि । सेदिरे ।

बृहत्ऽकेतुम् । पुरुऽरूपम् । धनऽस्पृतम् । सुऽशर्माणम् । सुऽअवसम् । जरत्ऽविषम् ॥२

हे "अग्ने “त्वां "विशः यजमानाः "गृहपतिं गृहस्वामिनं “नि “षेदिरे । गार्हपत्यरूपेण स्थापितवन्त इत्यर्थः । कीदृशं त्वाम् । “अतिथिम् अतिथिवत्पूज्यं “पूर्व्यं पुरातनं "शोचिष्केशं दीप्तज्वालं "बृहत्केतुं प्रभूतप्रज्ञानं "पुरुरूपम् आहवनीयादिरूपेण बहुरूपं “धनस्पृतं धनानां स्पर्तारं "सुशर्माणं शोभनसुखं "स्ववसं सुरक्षणं "जरद्विषं जरतां वृक्षाणां व्यापकं जीर्णोदकं वा ॥ ।


अग्नीनां परस्परं संसर्गे विविचयेऽग्नये काचिदिष्टिः । तत्र ‘ त्वामग्ने मानुषीः ' इति याज्या । सूत्रितं च - ‘ त्वामग्ने मानुषीरीळते विशोऽग्न आयाहि वीतये' (आश्व. श्रौ. ३. १३ ) इति ॥

त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् ।

गुहा॒ सन्तं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रिय॑म् ॥३

त्वाम् । अ॒ग्ने॒ । मानु॑षीः । ई॒ळ॒ते॒ । विशः॑ । हो॒त्रा॒ऽविद॑म् । विवि॑चिम् । र॒त्न॒ऽधात॑मम् ।

गुहा॑ । सन्त॑म् । सु॒ऽभ॒ग॒ । वि॒श्वऽद॑र्शतम् । तु॒वि॒ऽस्व॒नस॑म् । सु॒ऽयज॑म् । घृ॒त॒ऽश्रिय॑म् ॥३

त्वाम् । अग्ने । मानुषीः । ईळते । विशः । होत्राऽविदम् । विविचिम् । रत्नऽधातमम् ।

गुहा । सन्तम् । सुऽभग । विश्वऽदर्शतम् । तुविऽस्वनसम् । सुऽयजम् । घृतऽश्रियम् ॥३

हे "अग्ने “सुभग शोभनधन “त्वां "मानुषीः "विशः मानुषसंबन्धिन्यः सर्वाः प्रजाः “ईळते स्तुवन्ति । कीदृशं त्वाम् । "होत्राविदं होत्राणां होमानां सप्तहोत्रकाणां वा वेत्तारं "विविचिं विवेचकं सदसतोः "रत्नधातमं रमणीयानां धनानां दातृतमं "गुहा गुहायामरण्यां हृदयेषु वा "सन्तं सर्वदा वर्तमानं "विश्वदर्शतं सर्वैः द्रष्टव्यं "तुविष्वणसं प्रभूतध्वनिं "सुयजं सुष्ठु यष्टारं "घृतश्रियं घृतं श्रयन्तम् ॥


त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम ।

स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभि॑ः ॥४

त्वाम् । अ॒ग्ने॒ । ध॒र्ण॒सिम् । वि॒श्वधा॑ । व॒यम् । गीः॒ऽभिः । गृ॒णन्तः॑ । नम॑सा । उप॑ । से॒दि॒म॒ ।

सः । नः॒ । जु॒ष॒स्व॒ । स॒म्ऽइ॒धा॒नः । अ॒ङ्गि॒रः॒ । दे॒वः । मर्त॑स्य । य॒शसा॑ । सु॒दी॒तिऽभिः॑ ॥४

त्वाम् । अग्ने । धर्णसिम् । विश्वधा । वयम् । गीःऽभिः । गृणन्तः । नमसा । उप । सेदिम ।

सः । नः । जुषस्व । सम्ऽइधानः । अङ्गिरः । देवः । मर्तस्य । यशसा । सुदीतिऽभिः ॥४

हे "अग्ने “धर्णसिं सर्वस्य धारकं “त्वां “वयम् आत्रेया वा “विश्वधा बहुप्रकारेण “गीर्भिर्गृणन्तः स्तुवन्तः "नमसा नमस्कारेण "उप “सेदिम उपसन्ना भवेम । "सः त्वं “नः अस्मान् "जुषस्व सेवस्व धनादिभिः । "समिधानः सम्यग्दीप्तो दीप्यमानोऽस्माभिर्हे "अङ्गिरः सर्वत्र गन्तरङ्गिरसः पुत्र वा “देवः दीप्यमानस्त्वं “मर्तस्य यजमानस्य "यशसा “सुदीतिभिः ज्वालाभिः सह जुषस्व ॥


त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत ।

पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषि॒ः सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥५

त्वम् । अ॒ग्ने॒ । पु॒रु॒ऽरूपः॑ । वि॒शेऽवि॑शे । वयः॑ । द॒धा॒सि॒ । प्र॒त्नऽथा॑ । पु॒रु॒ऽस्तु॒त॒ ।

पु॒रूणि॑ । अन्ना॑ । सह॑सा । वि । रा॒ज॒सि॒ । त्विषिः॑ । सा । ते॒ । ति॒त्वि॒षा॒णस्य॑ । न । आ॒ऽधृषे॑ ॥५

त्वम् । अग्ने । पुरुऽरूपः । विशेऽविशे । वयः । दधासि । प्रत्नऽथा । पुरुऽस्तुत ।

पुरूणि । अन्ना । सहसा । वि । राजसि । त्विषिः । सा । ते । तित्विषाणस्य । न । आऽधृषे ॥५

हे "अग्ने "त्वं "पुरुरूपः सन् "विशेविशे सर्वस्मै यजमानाय "प्रत्नथा पुराण इव “वयः अन्नं "दधासि धारयसि । हे “पुरुष्टुत बहुभिः स्तुत “पुरूणि बहूनि "अन्ना अन्नानि चरुपुरोडाशादीनि "सहसा बलेन "वि “राजसि ईश्वरो भवसि स्वीकर्तुम् । "तित्विषाणस्य दीप्तस्य “ते तव "सा प्रसिद्धा "त्विषिः दीप्तिः "नाधृषे अन्यैरधृष्या भवति ॥


त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् ।

उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ॥६

त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नम् । य॒वि॒ष्ठ्य॒ । दे॒वाः । दू॒तम् । च॒क्रि॒रे॒ । ह॒व्य॒ऽवाह॑नम् ।

उ॒रु॒ऽज्रय॑सम् । घृ॒तऽयो॑निम् । आऽहु॑तम् । त्वे॒षम् । चक्षुः॑ । द॒धि॒रे॒ । चो॒द॒यत्ऽम॑ति ॥६

त्वाम् । अग्ने । सम्ऽइधानम् । यविष्ठ्य । देवाः । दूतम् । चक्रिरे । हव्यऽवाहनम् ।

उरुऽज्रयसम् । घृतऽयोनिम् । आऽहुतम् । त्वेषम् । चक्षुः । दधिरे । चोदयत्ऽमति ॥६

हे "यविष्ठ्य युवतम "अग्ने "समिधानं सम्यगिध्यमानं "त्वां "हव्यवाहनं हविषां वोढारं “दूतं “चक्रिरे कृतवन्तः "देवाः । त्रयाणामग्नीनां मध्ये हव्यवाहनः खलु पूर्वं देवैर्हविर्वहनाय दूतः कृतः । ‘ हव्यवाहनो देवानाम् ' (तै. सं. २. ५. ८.६) इति हि श्रुतिः । किंच “उरुज्रयसं प्रभूतवेगं “घृतयोनिम् । घृतं योनिः कारणं यस्य तम् । “आहुतं त्वां “चोदयन्मति । चोदयन्ती मतिर्यस्य तच्चोदयन्मति । “त्वेषं दीप्तं "चक्षुः उक्तलक्षणं सर्वप्रकाशकं चक्षुःस्थानीयं कृत्वा “दधिरे देवा मनुष्याश्च । मत्या हि चक्षुश्चोद्यते ॥


त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु॑म्ना॒यव॑ः सुष॒मिधा॒ समी॑धिरे ।

स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॒॑ऽभि ज्रयां॑सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ॥७

त्वाम् । अ॒ग्ने॒ । प्र॒ऽदिवः॑ । आऽहु॑तम् । घृ॒तैः । सु॒म्न॒ऽयवः॑ । सु॒ऽस॒मिधा॑ । सम् । ई॒धि॒रे॒ ।

सः । व॒वृ॒धा॒नः । ओष॑धीभिः । उ॒क्षि॒तः । अ॒भि । ज्रयां॑सि । पार्थि॑वा । वि । ति॒ष्ठ॒से॒ ॥७

त्वाम् । अग्ने । प्रऽदिवः । आऽहुतम् । घृतैः । सुम्नऽयवः । सुऽसमिधा । सम् । ईधिरे ।

सः । ववृधानः । ओषधीभिः । उक्षितः । अभि । ज्रयांसि । पार्थिवा । वि । तिष्ठसे ॥७

हे "अग्ने "घृतैः “आहुतं “त्वां "प्रदिवः पुरातनाः “सुम्नायवः सुखमिच्छन्तो यजमानाः “सुषमिधा शोभनेन इध्मेन "समीधिरे सम्यक् दीपितवन्तः । "सः त्वं “वावृधानः वर्धमानः “ओषधीभिः “उक्षितः सिक्तः “ज्रयांसि अन्नानि "पार्थिवा पार्थिवान् वृक्षान् । यद्वा । पार्थिवेति ज्रयोविशेषणम् । पार्थिवानि चरुपुरोडाशादिकानि “अभि “वि “तिष्ठसे अभिव्यज्य वर्तसे ॥ ॥ २६ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टकेऽष्टमोऽध्यायः समाप्तः ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८&oldid=198961" इत्यस्माद् प्रतिप्राप्तम्