ऋग्वेदः सूक्तं ५.५४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.५३ ऋग्वेदः - मण्डल ५
सूक्तं ५.५४
श्यावाश्व आत्रेयः
सूक्तं ५.५५ →
दे. मरुतः। जगती, १४ त्रिष्टुप् ।


प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते ।
घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥१॥
प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः ।
सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥२॥
विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः ।
अब्दया चिन्मुहुरा ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥३॥
व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः ।
वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥४॥
तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् ।
एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥५॥
अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः ।
अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥६॥
न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति ।
नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥७॥
नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबन्धिनः ।
पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥८॥
प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः ।
प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥९॥
यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः ।
न वोऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥१०॥
अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः ।
अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥११॥
तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ ।
समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥१२॥
युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः ।
न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम् ॥१३॥
यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् ।
यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥
तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि ।
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥


सायणभाष्यम्

‘प्र शर्धाय' इति पञ्चदशर्चं दशमं सूक्तं श्यावाश्वस्यार्षं मरुद्देवताकम् । चतुर्दशी त्रिष्टुप् शिष्टा जगत्यः । ‘ प्र शर्धाय पञ्चोना जागतमुपान्त्या त्रिष्टुप् ' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । आद्यैन्द्रामारुत्यां प्रधानस्य याज्या । सूत्रितं च - प्र शर्धाय मारुताय स्वभानव इत्यैन्द्रीमनूच्य मारुत्या यजेत् ' ( आश्व. श्रौ. २. ११ ) इति ॥


प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ ।

घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥१

प्र । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवः । इ॒माम् । वाच॑म् । अ॒न॒ज॒ । प॒र्व॒त॒ऽच्युते॑ ।

घ॒र्म॒ऽस्तुभे॑ । दि॒वः । आ । पृ॒ष्ठ॒ऽयज्व॑ने । द्यु॒म्नऽश्र॑वसे । महि॑ । नृ॒म्णम् । अ॒र्च॒त॒ ॥१

प्र । शर्धाय । मारुताय । स्वऽभानवः । इमाम् । वाचम् । अनज । पर्वतऽच्युते ।

घर्मऽस्तुभे । दिवः । आ । पृष्ठऽयज्वने । द्युम्नऽश्रवसे । महि । नृम्णम् । अर्चत ॥१

प्र अनजेति संबन्धः । “मारुताय मरुत्संबन्धिने “शर्धाय बलाय “इमां क्रियमाणां “वाचं स्तुतिं “प्र “अनज प्रापय । “स्वभानवे स्वायत्ततेजसे "पर्वतच्युते पर्वतस्य च्यावयित्रे “घर्मस्तुभे घर्मस्य स्तोभयित्रे दिव “आ द्युलोकादागच्छते “पृष्ठयज्वने षट् पृष्ठैः रथन्तरबृहदादिभिरीजानाय “द्युम्नश्रवसे द्योतमानान्नाय "महि महत् प्रभूतं “नृम्णं धनं हविर्लक्षणम् “अर्चत ददतेत्यर्थः ॥


कारीर्यां प्रथमस्याः पिण्ड्या: ‘ प्र वो मरुतः' इति याज्या । सूत्रितं च - प्र वो मरुतस्तविषा आ यं नरः ' ( आश्व. श्रौ. २. १३ ) इति ॥

प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युज॒ः परि॑ज्रयः ।

सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥२

प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः॑ । व॒यः॒ऽवृधः॑ । अ॒श्व॒ऽयुजः॑ । परि॑ऽज्रयः ।

सम् । वि॒ऽद्युता॑ । दध॑ति । वाश॑ति । त्रि॒तः । स्वर॑न्ति । आपः॑ । अ॒वना॑ । परि॑ऽज्रयः ॥२

प्र । वः । मरुतः । तविषाः । उदन्यवः । वयःऽवृधः । अश्वऽयुजः । परिऽज्रयः ।

सम् । विऽद्युता । दधति । वाशति । त्रितः । स्वरन्ति । आपः । अवना । परिऽज्रयः ॥२

हे “मरुतः “वः युष्माकं गणाः “प्र प्रादुर्भवन्ति । कीदृशा गणाः । “तविषाः दीप्ता महान्तो वा “उदन्यवः उदकेच्छवो जगद्रक्षणार्थं “वयोवृधः अन्नस्य वर्धयितारः “अश्वयुज: गमनाय रथेऽश्वानां योक्तारः “परिज्रयः परितो गन्तारः “विद्युता “सं “दधति संगच्छन्ते । तदानीं “त्रितः त्रिषु स्थानेषु तायमानो मेघो मरुद्गणो वा “वाशति शब्दयति । अस्मिन् पक्षे संघवादः अयम् । तदा “आपः “परिज्रयः परितो गन्त्र्य आपः “अवना अवनौ भूमौ “स्वरन्ति अधः पतन्ति ॥


“विद्युन्महसः' इति तृतीया कारीर्यामेव द्वितीयस्याः पिण्ड्या याज्या । सूत्रितं च -विद्युन्महसो नरोऽश्मदिद्यवः कृष्णं नियानं हरयः सुपर्णाः ' ( आश्व. श्रौ. २. १३ ) इति ॥

वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुत॑ः पर्वत॒च्युत॑ः ।

अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृत॑ः स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥३

वि॒द्युत्ऽम॑हसः । नरः॑ । अश्म॑ऽदिद्यवः । वात॑ऽत्विषः । म॒रुतः॑ । प॒र्व॒त॒ऽच्युतः॑ ।

अ॒ब्द॒ऽया । चि॒त् । मुहुः॑ । आ । ह्रा॒दु॒नि॒ऽवृतः॑ । स्त॒नय॑त्ऽअमाः । र॒भ॒साः । उत्ऽओ॑जसः ॥३

विद्युत्ऽमहसः । नरः । अश्मऽदिद्यवः । वातऽत्विषः । मरुतः । पर्वतऽच्युतः ।

अब्दऽया । चित् । मुहुः । आ । ह्रादुनिऽवृतः । स्तनयत्ऽअमाः । रभसाः । उत्ऽओजसः ॥३

“विद्युन्महसः विद्योतमानतेजसः “नरः वृष्ट्यादेर्नेतारः “अश्मदिद्यवः व्याप्तायुधा अश्मसारमयायुधा वा “वातत्विषः प्राप्तदीप्तयः “पर्वतच्युतः पर्वतानां मेघानां वा च्यावयितारः “अब्दया “मुहुः उदकानां दातारः ॥ जसः याजादेशः । चिदिति पूरणः ॥ “ह्रादुनीवृतः ह्रादुन्याः अशनेः प्रवर्तकाः “स्तनयदमाः । अमाशब्दः साहित्यवाची । शब्दोपेतगणा इत्यर्थः । “रभसाः वृष्ट्यर्थमुद्युञ्जानाः “उदोजसः उद्धतबला: “मरुतः वृष्ट्यर्थं प्रादुर्भवन्तीत्यर्थः ।।


व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः ।

वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥४

वि । अ॒क्तून् । रु॒द्राः॒ । वि । अहा॑नि । शि॒क्व॒सः॒ । वि । अ॒न्तरि॑क्षम् । वि । रजां॑सि । धू॒त॒यः॒ ।

वि । यत् । अज्रा॑न् । अज॑थ । नावः॑ । ई॒म् । य॒था॒ । वि । दुः॒ऽगानि॑ । म॒रु॒तः॒ । न । अह॑ । रि॒ष्य॒थ॒ ॥४

वि । अक्तून् । रुद्राः । वि । अहानि । शिक्वसः । वि । अन्तरिक्षम् । वि । रजांसि । धूतयः ।

वि । यत् । अज्रान् । अजथ । नावः । ईम् । यथा । वि । दुःऽगानि । मरुतः । न । अह । रिष्यथ ॥४

हे "रुद्राः रुद्रपुत्रा मरुतः "अक्तून् रात्रीः “वि अजथ इत्युत्तरार्धगतेन संबध्यते । एवं सर्वत्रेति । क्षिपथेति तस्यार्थः । “अहानि अपि “वि अजथ । हे शिक्वसः शक्ताः सर्वमपि कर्तुम् “अन्तरिक्षं “वि अजथ । तथा “रजांसि “वि अजथ। हे “धूतयः कम्पकाः “यत् यदा "अज्रान् मेघान् “वि “अजथ गमयथ “नाव "ईं ताः “यथा समुद्रं तद्वत् “दुर्गाणि शत्रुनगराणि "वि अजथ हे “मरुतो "नाह “रिष्यथ नैव हिंसथ ॥


तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् ।

एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिम् ॥५

तत् । वी॒र्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । त॒ता॒न॒ । सूर्यः॑ । न । योज॑नम् ।

एताः॑ । न । यामे॑ । अगृ॑भीतऽशोचिषः । अन॑श्वऽदाम् । यत् । नि । अया॑तन । गि॒रिम् ॥५

तत् । वीर्यम् । वः । मरुतः । महिऽत्वनम् । दीर्घम् । ततान । सूर्यः । न । योजनम् ।

एताः । न । यामे । अगृभीतऽशोचिषः । अनश्वऽदाम् । यत् । नि । अयातन । गिरिम् ॥५

हे "मरुतः “वः युष्माकं “तद्वीर्यं प्रसिद्धं सामर्थ्यं “महित्वनं महत्त्वं “दीर्घम् । अत्यन्तमायतं “ततान तनोति । लोके "सूर्यो “न “योजनं सूर्यस्तेज इव । “एता “न एतवर्णा देवानामश्वा इव । ते यथा “यामे गमने योजनं दीर्घं तन्वन्ति तद्वदित्यपरो दृष्टान्तः । ते च "अगृभीतशोचिषः अगृहीततेजस्काः । यद्वैतन्मरुतां विशेषणम् । हे मरुतो यूयमगृभीतशोचिषः सन्तः “यत् यदा “अनश्वदां व्यापकोदकादातारं पणिभिरपहृतानामश्वानामप्रदातारं वा “गिरिं मेघं पर्वतं वा “न्ययातन निहतवन्तः स्थ॥ ॥ १४ ॥


अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।

अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ॥६

अभ्रा॑जि । शर्धः॑ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष॑थ । वृ॒क्षम् । क॒प॒नाऽइ॑व । वे॒ध॒सः॒ ।

अध॑ । स्म॒ । नः॒ । अ॒रम॑तिम् । स॒ऽजो॒ष॒सः॒ । चक्षुः॑ऽइव । यन्त॑म् । अनु॑ । ने॒ष॒थ॒ । सु॒ऽगम् ॥६

अभ्राजि । शर्धः । मरुतः । यत् । अर्णसम् । मोषथ । वृक्षम् । कपनाऽइव । वेधसः ।

अध । स्म । नः । अरमतिम् । सऽजोषसः । चक्षुःऽइव । यन्तम् । अनु । नेषथ । सुऽगम् ॥६

हे “वेधसः वृष्टेर्विधातारो हे “मरुतः “शर्धः भवतां गणम् “अभ्राजि भ्राजते । “यत् यस्मात् “अर्णसम् उदकवन्तं “वृक्षम् । वृश्च्यते विदार्यत इति वृक्षो मेघः । तं “मोषथ ताडयथेत्यर्थः । “कपनेव। इवेत्यनर्थकः । कम्पनाः सन्तः । यद्वा । कपनाः कृमयो वृक्षं घुणादयः । ते यथा मुष्णन्ति तद्वत् । “अध अपि च । "स्म इति पूरणः । “नः अस्मान् । मामित्यर्थः । हे "सजोषसः युष्मासु परस्परं समानप्रीतयो यूयम् “अरमतिम् आरमणं धनादिकं प्रति “यन्तं 'गच्छन्तम् “अनु “नेषथ अनुक्रमेण नयथ "सुगं सुगमनं मार्गम् । तत्र दृष्टान्तः । “चक्षुरिव । तद्यथा मार्गप्रदर्शनेन नायकं भवति तद्वत् ॥


न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।

नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥७

न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य॒ति॒ ।

न । अ॒स्य॒ । रायः॑ । उप॑ । द॒स्य॒न्ति॒ । न । ऊ॒तयः॑ । ऋषि॑म् । वा॒ । यम् । राजा॑नम् । वा॒ । सुसू॑दथ ॥७

न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्यति ।

न । अस्य । रायः । उप । दस्यन्ति । न । ऊतयः । ऋषिम् । वा । यम् । राजानम् । वा । सुसूदथ ॥७

हे “मरुतः यूयं “यम् “ऋषिं मन्त्रद्रष्टारं ब्राह्मणं "राजानं “वा "सुषूदथ क्षारयथ प्रेरयथ सत्कर्मसु “सः ऋषी राजा वा “न “जीयते । अन्यैर्न पराभाव्यते ॥ ‘ जि जये ' ‘ ज्या वयोहानौ ' इत्यस्य वा रूपम् ॥ हे मरुतः “न “हन्यते । न हिंस्यते अत्यर्थं प्राणैर्न वियुज्यते । “न “स्रेधति न क्षीयते । “न “व्यथते न पीड्यते । “न “रिष्यति न हिंस्यते । अत्र हिंसा बाधमात्रम् । “अस्य “रायः धनानि “न “उप “दस्यन्ति नोपक्षीयन्ते । तथा "नोतयः रक्षा अप्युप दस्यन्ति ।


कारीर्यामेव तृतीयस्याः पिण्ड्या याज्या ‘ नियुत्वन्तः' इत्येषा । सूत्रितं च -- नियुत्वन्तो ग्रामजितो यथा नरोऽग्ने बाधस्व वि मृधो वि दुर्गहा ' ( आश्व. श्रौ. २. १३ ) इति ॥

नि॒युत्व॑न्तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुत॑ः कब॒न्धिन॑ः ।

पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु॑न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ॥८

नि॒युत्व॑न्तः । ग्रा॒म॒ऽजितः॑ । यथा॑ । नरः॑ । अ॒र्य॒मणः॑ । न । म॒रुतः॑ । क॒ब॒न्धिनः॑ ।

पिन्व॑न्ति । उत्स॑म् । यत् । इ॒नासः॑ । अस्व॑रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः॑ । अन्ध॑सा ॥८

नियुत्वन्तः । ग्रामऽजितः । यथा । नरः । अर्यमणः । न । मरुतः । कबन्धिनः ।

पिन्वन्ति । उत्सम् । यत् । इनासः । अस्वरन् । वि । उन्दन्ति । पृथिवीम् । मध्वः । अन्धसा ॥८

“नियुत्वन्तः नियुत्संज्ञकैरश्वैस्तद्वन्तो मरुतः “ग्रामजितः संघात्मकस्य पदार्थस्य विश्लेषयितारः। “नरः नराकारा नेतारो वा । मरुतो नियुत्वन्तः । अयं शब्दोऽत्राश्वसामान्ये वर्तते । नितरां यवनवन्तोऽश्ववन्तो ग्रामजितो ग्रामस्य जेतारो नर इव मनुष्या इव तथा भवन्ति । “अर्यमणो “न अर्यमप्रभृतय आदित्या इव । दीप्ता इति शेषः । तादृशाः "मरुतः “कवन्धिनः उदकवन्तो भवन्ति । “यत् यदा “इनासः ईश्वराः “उत्सं कूपादिनिम्नप्रदेशं मेघ वा “पिन्वन्ति प्याययन्त्युदकेन । यदा “अस्वरन् शब्दयन्ति यदा “व्युन्दन्ति “पृथिवीं “मध्वः मधुरस्योदकस्य “अन्धसा सारेण तदैवं भवति । यद्वा । यदास्वरन् तदा पिन्वन्त्युत्समिनासः तदान्धसः पृथिवीं व्युन्दन्तीति ।।


प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्य॑ः प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्य॑ः ।

प्र॒वत्व॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्याः प्र॒वत्व॑न्त॒ः पर्व॑ता जी॒रदा॑नवः ॥९

प्र॒वत्व॑ती । इ॒यम् । पृ॒थि॒वी । म॒रुत्ऽभ्यः॑ । प्र॒वत्व॑ती । द्यौः । भ॒व॒ति॒ । प्र॒यत्ऽभ्यः॑ ।

प्र॒वत्व॑तीः । प॒थ्याः॑ । अ॒न्तरि॑क्ष्याः । प्र॒वत्व॑न्तः । पर्व॑ताः । जी॒रऽदा॑नवः ॥९

प्रवत्वती । इयम् । पृथिवी । मरुत्ऽभ्यः । प्रवत्वती । द्यौः । भवति । प्रयत्ऽभ्यः ।

प्रवत्वतीः । पथ्याः । अन्तरिक्ष्याः । प्रवत्वन्तः । पर्वताः । जीरऽदानवः ॥९

“इयं “पृथिवी “मरुद्यः मरुतामर्थाय “प्रवत्वती । प्रवन्तः प्रकर्षवन्तो विस्तीर्णाः प्रदेशा यस्यां सा प्रवत्वती । तादृशी “भवति । कृत्स्नापि भूमिः मरुत्परा भवतीत्यर्थः । तां सर्वामपि व्याप्नुवन्तीति यावत् । तथा “द्यौः अपि “प्रयद्यःती प्रकर्षेण गच्छद्भ्यस्तेभ्यः “प्रवत्वती भवति । सापि मरुतां संचाराय । तथा “अन्तरिक्ष्याः अन्तरिक्षे भवाः “पथ्याः स्नुगतयोऽपि “प्रवत्वतीः प्रवत्वत्यो मरुद्भ्यो भवन्ति । “पर्वताः अद्रयो मेघा वा “प्रवत्वन्तः भवन्ति “जीरदानवः क्षिप्रदाना मरुद्यः। ॥


यन्म॑रुतः सभरसः स्वर्णर॒ः सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः ।

न वोऽश्वा॑ः श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥१०

यत् । म॒रु॒तः॒ । स॒ऽभ॒र॒सः॒ । स्वः॒ऽन॒रः॒ । सूर्ये॑ । उत्ऽइ॑ते । मद॑थ । दि॒वः॒ । न॒रः॒ ।

न । वः॒ । अश्वाः॑ । श्र॒थ॒य॒न्त॒ । अह॑ । सिस्र॑तः । स॒द्यः । अ॒स्य । अध्व॑नः । पा॒रम् । अ॒श्नु॒थ॒ ॥१०

यत् । मरुतः । सऽभरसः । स्वःऽनरः । सूर्ये । उत्ऽइते । मदथ । दिवः । नरः ।

न । वः । अश्वाः । श्रथयन्त । अह । सिस्रतः । सद्यः । अस्य । अध्वनः । पारम् । अश्नुथ ॥१०

हे “मरुतः “सभरसः सहबलाः “स्वर्णरः सर्वस्य नेतारो यूयं “यत् यदा सूर्ये "उदिते उद्गते मध्याह्ने “मदथ सोमेन हे “दिवः द्युलोकस्य “नरः नेतारः । यदा सोमं पातुमिच्छथेत्यर्थः । तदा “वोऽश्वाः “सिस्रतः सरन्तः “न “अह “श्रथयन्त नैव श्लथयन्ति । “सद्यः तदानीमेव “अस्याध्वनः देवयजनमार्गस्य “पारमश्नुथ व्याप्नुथ । यद्वा । यदा सोमेन मदथ तदा त्वदीया अश्वा न शिथिला भवन्ति । यूयं च कृत्स्नस्य लोकत्रयमार्गस्य पारमश्नुथ ॥ ॥ १५ ॥


अंसे॑षु व ऋ॒ष्टय॑ः प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभ॑ः ।

अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्यो॒ः शिप्रा॑ः शी॒र्षसु॒ वित॑ता हिर॒ण्ययी॑ः ॥११

अंसे॑षु । वः॒ । ऋ॒ष्टयः॑ । प॒त्ऽसु । खा॒दयः॑ । वक्षः॑ऽसु । रु॒क्माः । म॒रु॒तः॒ । रथे॑ । शुभः॑ ।

अ॒ग्निऽभ्रा॑जसः । वि॒ऽद्युतः॑ । गभ॑स्त्योः । शिप्राः॑ । शी॒र्षऽसु॑ । विऽत॑ताः । हि॒र॒ण्ययीः॑ ॥११

अंसेषु । वः । ऋष्टयः । पत्ऽसु । खादयः । वक्षःऽसु । रुक्माः । मरुतः । रथे । शुभः ।

अग्निऽभ्राजसः । विऽद्युतः । गभस्त्योः । शिप्राः । शीर्षऽसु । विऽतताः । हिरण्ययीः ॥११

हे “मरुतः “वः युष्माकम् "अंसेषु “ऋष्टयः आयुधानि भासन्त इति शेषः । “पत्सु “खादयः कटकाः । “वक्षःसु “रुक्माः हाराः । “रथे “शुभः मधुराप्रुषा आपः । “अग्निभ्राजसः अग्निदीप्ताः “विद्युतो “गभस्त्योः हस्तयोर्भासन्त इत्यर्थः। “शीर्षसु शिरःसु “हिरण्ययीः' हिरण्यमय्यः “शिप्राः उष्णीषमय्यः “वितताः विस्तृताः । प्रतिवाक्यं वितता इति वा संबन्धनीयम् ॥


तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ ।

सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर॑न्ति॒ घोषं॒ वित॑तमृता॒यव॑ः ॥१२

तम् । नाक॑म् । अ॒र्यः । अगृ॑भीतऽशोचिषम् । रुश॑त् । पिप्प॑लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ ।

सम् । अ॒च्य॒न्त॒ । वृ॒जना॑ । अति॑त्विषन्त । यत् । स्वर॑न्ति । घोष॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ ॥१२

तम् । नाकम् । अर्यः । अगृभीतऽशोचिषम् । रुशत् । पिप्पलम् । मरुतः । वि । धूनुथ ।

सम् । अच्यन्त । वृजना । अतित्विषन्त । यत् । स्वरन्ति । घोषम् । विऽततम् । ऋतऽयवः ॥१२

हे “मरुतः “अर्यः गन्तारो यूयं “तं प्रसिद्धं “नाकम् आदित्यम् । नास्मिन्नकमस्तीति नाकः । “अगृभीतशोचिषम् असुरैरनपहृततेजस्कं तं “रुशत् शुभ्रवर्णं “पिप्पलम् उदकं “वि “धूनुथ विविधं चालयथ । अयं द्विकर्मकः ।। “यत् यदा “वृजना बलानि “समच्यन्त संगता बलिनो भवथ । हविर्भिः अस्मद्दत्तैरिति भावः । पश्चात् "अतित्विषन्त दीप्ता भवथ ॥ उभयत्र पुरुषव्यत्ययः ॥ यद्वा । यदासुरा वृजना बलैः समच्यन्त अतित्विषन्त तदा “घोषं भयजनकं शब्दं “विततं विस्तृतं "स्वरन्ति कुरुतेत्यर्थः। “ऋतायवः उदकमिच्छन्तो यूयम् । यद्वा । उत्तरार्धं ऋत्विग्यजमानपरतया व्याख्येयः । यत् यदा ऋतायवः यज्ञकामा यजमानादयो यदा समच्यन्त संगताः वृजना बलान्यतित्विषन्त च स्वरन्ति घोषं स्तोत्रं विततं तदानीं पिप्पलं वि धूनुथेति संबन्धः ॥


यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।

न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥१३

यु॒ष्माऽद॑त्तस्य । म॒रु॒तः॒ । वि॒ऽचे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।

न । यः । युच्छ॑ति । ति॒ष्यः॑ । यथा॑ । दि॒वः । अ॒स्मे इति॑ । र॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण॑म् ॥१३

युष्माऽदत्तस्य । मरुतः । विऽचेतसः । रायः । स्याम । रथ्यः । वयस्वतः ।

न । यः । युच्छति । तिष्यः । यथा । दिवः । अस्मे इति । ररन्त । मरुतः । सहस्रिणम् ॥१३

हे “विचेतसः विविधप्रज्ञा हे "मरुतः "युष्मादत्तस्य युष्माभिर्दत्तस्य "वयस्वतः अन्नवतः “रायः धनस्य "स्याम भवेम स्वामिनः । के। “रथ्यः रथस्वामिनो वयम् । “यः युष्माभिर्दत्तो राः “न “युच्छति न च्यवते । “यथा “दिवः सकाशात् “तिष्यः आदित्यो न युच्छति । तथा “अस्मे अस्मासु “सहस्रिणम् अपरिमितं "रारन्त रमयत हे "मरुतः ॥


यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् ।

यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥१४

यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्हऽवी॑रम् । यू॒यम् । ऋषि॑म् । अ॒व॒थ॒ । साम॑ऽविप्रम् ।

यू॒यम् । अर्व॑न्तम् । भ॒र॒ताय॑ । वाज॑म् । यू॒यम् । ध॒त्थ॒ । राजा॑नम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥१४

यूयम् । रयिम् । मरुतः । स्पार्हऽवीरम् । यूयम् । ऋषिम् । अवथ । सामऽविप्रम् ।

यूयम् । अर्वन्तम् । भरताय । वाजम् । यूयम् । धत्थ । राजानम् । श्रुष्टिऽमन्तम् ॥१४

हे “मरुतः “यूयं “रयिं धनं “स्पार्हवीरं स्पृहणीयैर्वीरैः पुत्रभृत्यादिभिरुपेतं “धत्थ दत्थ । हे मरुतः "यूयं “सामविप्रं साम्नां विविधं प्रेरयितारं यद्वा सामसहिता विप्रा यस्य तादृशम् “ऋषिमवथ रक्षथ । हे “यूयम् “अर्वन्तम् अश्वं "वाजम् अन्नं च "भरताय देवान् बिभ्रते श्यावाश्वाय धत्थ । हे मरुतः “यूयं “राजानं दीप्तं स्वामिनं वा “श्रुष्टिमन्तं सुखवन्तम् । पुत्रमित्यर्थः । धत्थ ॥


तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि ।

इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमा॑ः ॥१५

तत् । वः॒ । या॒मि॒ । द्रवि॑णम् । स॒द्यः॒ऽऊ॒त॒यः॒ । येन॑ । स्वः॑ । न । त॒तना॑म । नॄन् । अ॒भि ।

इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः॑ । यस्य॑ । तरे॑म । तर॑सा । श॒तम् । हिमाः॑ ॥१५

तत् । वः । यामि । द्रविणम् । सद्यःऽऊतयः । येन । स्वः । न । ततनाम । नॄन् । अभि ।

इदम् । सु । मे । मरुतः । हर्यत । वचः । यस्य । तरेम । तरसा । शतम् । हिमाः ॥१५

हे “सद्यऊतयः । तदानीमेव रक्षा येषां ते तादृशाः। सद्योगमना वा “वः युष्मान् “तत् “द्रविणं धनं “यामि याचामहे । “येन धनेन "नॄन् अस्मत्पुत्रभृत्यादीन् “अभि “ततनाम “स्वर्ण आदित्य इव रश्मीन् । हे "मरुतः “मे मम स्वभूतम् “इदम् इदानीं क्रियमाणं “वचः स्तोत्रं “सु सुष्ठु “हर्यत कामयध्वम् । 'यस्य स्तोत्रवचसः “तरसा बलेन “शतं शतसंख्याकान् “हिमाः हेमन्तान् “तरेम शतसंवत्सरं जीवेमेत्यर्थः ॥ ॥ १६ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५४&oldid=199627" इत्यस्माद् पुनः प्राप्तिः