ऋग्वेदः सूक्तं ५.५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.४ ऋग्वेदः - मण्डल ५
सूक्तं ५.५
वसुश्रुत आत्रेयः
सूक्तं ५.६ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ नराशंसः, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः । गायत्री।


सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
अग्नये जातवेदसे ॥१॥
नराशंसः सुषूदतीमं यज्ञमदाभ्यः ।
कविर्हि मधुहस्त्यः ॥२॥
ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
सुखै रथेभिरूतये ॥३॥
ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत ।
भवा नः शुभ्र सातये ॥४॥
देवीर्द्वारो वि श्रयध्वं सुप्रायणा न ऊतये ।
प्रप्र यज्ञं पृणीतन ॥५॥
सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा ।
दोषामुषासमीमहे ॥६॥
वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः ।
इमं नो यज्ञमा गतम् ॥७॥
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
बर्हिः सीदन्त्वस्रिधः ॥८॥
शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना ।
यज्ञेयज्ञे न उदव ॥९॥
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
तत्र हव्यानि गामय ॥१०॥
स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः ।
स्वाहा देवेभ्यो हविः ॥११॥


सायणभाष्यम्

‘सुसमिद्धाय' इत्येकादशर्चं पञ्चमं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं गायत्रमिध्माद्युक्तदेवताकम् । आप्रमित्युक्तत्वात्तनूनपाद्वर्जितम् (अनु. म. १. सू. १३)। “ सुसमिद्धायाप्रं गायत्रम्' इत्यनुक्रमणिका । अत्रीणामिदमाप्रीसूक्तम् । “ समिद्धो अद्येति सर्वेषां यथर्षि वा ' ( आश्व. श्रौ. ३. २ ) इत्युक्तत्वात् ॥


सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन ।

अ॒ग्नये॑ जा॒तवे॑दसे ॥१

सुऽस॑मिद्धाय । शो॒चिषे॑ । घृ॒तम् । ती॒व्रम् । जु॒हो॒त॒न॒ ।

अ॒ग्नये॑ । जा॒तऽवे॑दसे ॥१

सुऽसमिद्धाय । शोचिषे । घृतम् । तीव्रम् । जुहोतन ।

अग्नये । जातऽवेदसे ॥१

"सुसमिद्धाय सुष्ठु समिद्धायैतन्नामकायाग्नये "शोचिषे दीप्तिमते "घृतम् आज्यं "तीव्रं प्रभूतं "जुहोतन हे ऋत्विजः "अग्नये अङ्गनादिगुणयुक्ताय "जातवेदसे जातधनाय ॥


नरा॒शंस॑ः सुषूदती॒मं य॒ज्ञमदा॑भ्यः ।

क॒विर्हि मधु॑हस्त्यः ॥२

नरा॒शंसः॑ । सु॒सू॒द॒ति॒ । इ॒मम् । य॒ज्ञम् । अदा॑भ्यः ।

क॒विः । हि । मधु॑ऽहस्त्यः ॥२

नराशंसः । सुसूदति । इमम् । यज्ञम् । अदाभ्यः ।

कविः । हि । मधुऽहस्त्यः ॥२

"नराशंसः नरैः शंसनीयोऽयमग्निः “इमं यज्ञम् इदं हविः वा 'सुषूदति सुष्ठु प्रेरयति । स देवः सुष्टु अदाभ्यः अहिंस्यः केनापि "कविः मेधावी "मधुहस्त्यः मधुरहस्त्यः ॥


ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।

सु॒खै रथे॑भिरू॒तये॑ ॥३

ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।

सु॒ऽखैः । रथे॑भिः । ऊ॒तये॑ ॥३

ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् ।

सुऽखैः । रथेभिः । ऊतये ॥३

हे "अग्ने "ईळितः स्तुतः सन् "आ "वहेन्द्रं "चित्रं चायनीयं “प्रियम् "इह अस्मिन् यज्ञे "सुखैः “रथेभिः रथैः “ऊतये अस्मद्रक्षणाय ॥


ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत ।

भवा॑ नः शुभ्र सा॒तये॑ ॥४

ऊर्ण॑ऽम्रदाः । वि । प्र॒थ॒स्व॒ । अ॒भि । अ॒र्काः । अ॒नू॒ष॒त॒ ।

भव॑ । नः॒ । शु॒भ्र॒ । सा॒तये॑ ॥४

ऊर्णऽम्रदाः । वि । प्रथस्व । अभि । अर्काः । अनूषत ।

भव । नः । शुभ्र । सातये ॥४

हे “ऊर्णम्रदाः ऊर्णाकम्बलवत् मृदु हे बर्हिः “वि "प्रथस्व प्रथय । "अर्काः स्तोतारः "अभि "अनूषत स्तुवन्ति । हे “शुभ्र दीप्त "सातये धनाय तद्दानाय वा "नः अस्माकं "भव ॥


देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ ।

प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥५

देवीः॑ । द्वा॒रः॒ । वि । श्र॒य॒ध्व॒म् । सु॒प्र॒ऽअ॒य॒नाः । नः॒ । ऊ॒तये॑ ।

प्रऽप्र॑ । य॒ज्ञम् । पृ॒णी॒त॒न॒ ॥५

देवीः । द्वारः । वि । श्रयध्वम् । सुप्रऽअयनाः । नः । ऊतये ।

प्रऽप्र । यज्ञम् । पृणीतन ॥५

हे "द्वारः यज्ञस्य द्वाराभिमानिन्यो हे "देवीः देव्यः "वि “श्रयध्वं वियुक्ता भवत । "सुप्रायणाः शोभनगमनसाधनाः "नः अस्माकम् “ऊतये रक्षायै "यज्ञं यजमानं “प्रप्र “पृणीतन पूरयत कामैर्यज्ञमेव वा फलैः ॥ ॥ २० ॥


सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।

दो॒षामु॒षास॑मीमहे ॥६

सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । व॒यः॒ऽवृधा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।

दो॒षाम् । उ॒षस॑म् । ई॒म॒हे॒ ॥६

सुप्रतीके इति सुऽप्रतीके । वयःऽवृधा । यह्वी इति । ऋतस्य । मातरा ।

दोषाम् । उषसम् । ईमहे ॥६

हे अह्नो रात्रेश्च अभिमानिदेव्यौ “सुप्रतीके सुरूपे शोभनाङ्गे वा “वयोवृधा अन्नस्य वर्धयित्र्यौ “यह्वी महत्यौ “ऋतस्य यज्ञस्योदकस्य वा "मातरा निर्मात्र्यौ तयोर्मध्ये प्रत्येकं "दोषां रात्रिदेवीम् “उषसम् अहर्देवीम् "ईमहे स्तुमः ॥


वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः ।

इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥७

वात॑स्य । पत्म॑न् । ई॒ळि॒ता । दैव्या॑ । होता॑रा । मनु॑षः ।

इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒त॒म् ॥७

वातस्य । पत्मन् । ईळिता । दैव्या । होतारा । मनुषः ।

इमम् । नः । यज्ञम् । आ । गतम् ॥७

“वातस्य “पत्मन् । लुप्तोपमैषा । वायुगमनसदृशगमनार्थम् “ईळिता अस्माभिः स्तुतौ । यद्वा । वातस्य पतनसाधनेऽन्तरिक्षे गच्छन्तौ "दैव्या देवादग्नेरादित्याच्च समुद्भूतौ "होतारा देवानामाह्वातारौ युवां "मनुषः मनुष्यस्य “इमं “नः अस्माकं "यज्ञमा "गतम् आगच्छतम् । नो मनुषो यज्ञमिति व्यधिकरणे षष्ठ्यौ । अस्माकं यजमानस्य यज्ञमित्यर्थः ॥


इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑ः ।

ब॒र्हिः सी॑दन्त्व॒स्रिध॑ः ॥८

इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ ।

ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः॑ ॥८

इळा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ।

बर्हिः । सीदन्तु । अस्रिधः ॥८

"इळा पृथिवी "सरस्वती । सर उदकम् । तस्मात् सरस्वान् वायुः । तस्य स्त्री सरस्वती । "मही महती भारती भरतस्यादित्यस्य पत्नी । अत्र यद्यप्येषा नोक्ता तथापि सर्वत्र सह दृष्टत्वात् त्रिसंख्याश्रवणाच्च सा गृह्यते । अथवैता: क्षित्यन्तरिक्षद्युस्थाना वाग्देव्यः । एताः "मयोभुवः सुखस्य भावयित्र्यः "अस्रिधः अहिंसिकाः सत्यः “बर्हिः बर्हिषि "सीदन्तु उपविशन्तु ॥


शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ ।

य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥९

शि॒वः । त्व॒ष्टः॒ । इ॒ह । आ । ग॒हि॒ । वि॒ऽभुः । पोषे॑ । उ॒त । त्मना॑ ।

य॒ज्ञेऽय॑ज्ञे । नः॒ । उत् । अ॒व॒ ॥९

शिवः । त्वष्टः । इह । आ । गहि । विऽभुः । पोषे । उत । त्मना ।

यज्ञेऽयज्ञे । नः । उत् । अव ॥९

हे "त्वष्टः देव "शिवः सुखकरः सन् "इहा "गहि अस्मद्यज्ञमागच्छ । “विभुः व्याप्तस्त्वं "पोषे पोषकरणे । 'उत आगत्य च “त्मना आत्मना स्वयमेव "यज्ञेयज्ञे सर्वेषु यज्ञेषु "नः अस्मान् "उदव उत्कृष्टं रक्ष ।


अग्निहोत्रे उत्तराहुतिस्कन्दने ‘ यत्र वेत्थ' इत्यनया समिधमादध्यात् । सूत्रितं च -- यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने ' ( आश्व. श्रौ. ३. ११ ) इति ॥

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।

तत्र॑ ह॒व्यानि॑ गामय ॥१०

यत्र॑ । वेत्थ॑ । व॒न॒स्प॒ते॒ । दे॒वाना॑म् । गुह्या॑ । नामा॑नि ।

तत्र॑ । ह॒व्यानि॑ । ग॒म॒य॒ ॥१०

यत्र । वेत्थ । वनस्पते । देवानाम् । गुह्या । नामानि ।

तत्र । हव्यानि । गमय ॥१०

हे "वनस्पते यूपाभिमानिदेव "यत्र यस्मिन् स्थाने "वेत्थ "देवानां "गुह्या गुह्यानि "नामानि नामकानि रूपाणि "तत्र "हव्यानि "गमय प्रापय ॥


स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥११

यत्र॑ । वेत्थ॑ । व॒न॒स्प॒ते॒ । दे॒वाना॑म् । गुह्या॑ । नामा॑नि ।

तत्र॑ । ह॒व्यानि॑ । ग॒म॒य॒ ॥११

यत्र । वेत्थ । वनस्पते । देवानाम् । गुह्या । नामानि ।

तत्र । हव्यानि । गमय ॥११

अग्न्यादिविश्वेदेवाः। तेभ्यः "देवेभ्य इदं "हविः "स्वाहा करोमीति शेषः । स्वाहुतं करोमीत्यर्थः । एवं स्वाहाकृतेः स्तुतिः ॥ ॥ २१ ॥


[सम्पाद्यताम्]

टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः
ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते ।
पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।।
ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

५.५.२ नराशंसः सुषूदति इति
नाराशंस- प्रयाजेषु द्वितीया आप्रीदेवता नाराशंसः (अग्निः) इत्युच्यते । ......इतरेषां तु तनूनपात् द्वितीय: प्रयाज इति विशेषोऽवधेय: (तु०मी०को० पृ० २७।७७ । द्र० आप्री-, प्रयाजः।
नाराशंसचमस– सोमयज्ञेषु
१. आज्यशस्त्रे ग्रहभक्षानन्तरं ये चमसास्ते नाराशंसाख्या:, तान् भक्षितप्रतिभक्षितान् आप्याययन्ति मरुत्वतीये च। भक्षिताप्यायितानां सादितानां चमसानां नाराशंसशब्दः संज्ञा। अत उक्तमाचार्येण आप्यायितांश्चमसान् सादयन्ति ते नाराशंसा भवन्तीति (आ० श्रौ० ५।६।३०) भक्षितेषु चमसेषु पुन: पूरणम् आप्यायनम् (तु०- ऐ० ब्रा० सा० २।२४)
२. आज्यादिषु यथोद्दिष्टेषु ये वषट्कारेण चमसा हविर्धानस्था एव कम्प्यन्ते ते नाराशंससंज्ञाः (शां० श्रौ० भा० ७।५।२१-२२) ।
३. ये असर्वभक्षाः (सशेषाः) चमसाः ते नाराशंसाश्चमसा उच्यन्ते सर्वभक्षास्तु चमसा एव। तेन चमसाः सर्वभक्षा असर्वभक्षाश्चेति द्विविधाः भवन्ति । नाराशंसा अनाराशंसाश्चोच्यन्ते । अनाराशंसेषु चमसेषु सशस्त्रग्रहस्य ‘उक्थशा यज सोमानाम्' इति प्रैषो भवति (तु०- का० श्रौ० ९।१४।१-२ विद्याधरः)। इति विशेषोऽवधेयः। द्र० चमसाप्यायन- । तदुक्तं ते(असर्वभक्षाः) नाराशंसा आ वैश्वदेवात्' (का० श्रौ० ९।१२।८)।
४. हुतशिष्टा भक्षिता आप्यायिताश्चमसा उच्यन्ते । तत्र प्रातःसवनमाध्यन्दिनसवने द्विनाराशंसे तृतीयसवनमेकनाराशंसमिति विशेषोऽवधेयः। तु० - तां० ब्रा० सा० १७।११।२) द्र० नराशंसपङ्क्ति - ।
५. सवनमुखेषु अग्नौ समुद्धृताः पुनर्भक्षिताः पुनर्वसतीवरीभिः 'आप्यायस्व इति मन्त्रेण पूरिताः चमसा नाराशंसाः (तां० ब्रा० सा० ९।९।५) ।
६. नरामनुष्या ऋभुप्रमुखाः शस्यन्ते यस्मिन् सवनविशेषे स भक्षिताप्यायितः चमस: नराशंसः। तत्र 'देवै: पीतस्य ऊमपितृभिश्च भक्षितस्य मतिविदस्ते भक्षयामि' इत्यनेन मन्त्रेण प्रातः सवनसंबन्धी भक्षः कर्तव्यः । इतरयोस्तु सवनयोः तस्मिन् मन्त्रे 'ऊमैः' इत्यस्य पदस्य स्थाने 'ऊर्वैः' 'काव्यैः' इति पदद्वयं क्रमेण पठनीयमिति विशेषोऽवधेयः (तु०- ऐ० ब्रा० सा० ७।३४)।
नाराशंसपङ्क्ति - 'द्विनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्नाराशंसं तृतीयसवनम् इति पञ्चवारं प्रयुक्ता नाराशंसचमसाः पञ्चसंख्योपेतत्वात् नाराशंसानां पङ्क्तिरित्युच्यते। (तु०- ऐ० ब्रा० सा०
२।२४)।
नाराशंसप्रयाजप्रैष- अध्वर्युणा 'प्रेष्य' इत्युक्ते आह—'होता यक्षन्नाराशंसं शस्त्रं नॄः प्रणेद्यम् । गोभिर्वपावान् स्यादवीरैः शक्तीवान् रथैः प्रथमाया हिरण्मयैश्चन्द्रीवेत्वाज्यस्य होतर्यज' इति । अयं वैकल्पिक: द्वितीय प्रयाजस्य नाराशंसस्य प्रयाजप्रैष उच्यते। द्र० आप्रीप्रैष-श्रौ०प०नि० पृ० १४३ ।
नाराशंसवत्प्रयाज– (क) दर्शपूर्णमासेष्टौ पञ्च प्रयाजा: भवन्ति । ते च समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति', इति । ये३यजामहे' इत्यागुरादयो यजूरूपा वषट्कारान्ता भवन्ति याज्यात्वात् । तेषामन्ते वषट्कारात्पूर्वं 'वेतु० वीतां, व्यन्तु' इति पदत्रयमध्ये वचनविवक्षया अन्यतमं पदं याज्यान्तत्व प्रयुक्तप्लुतियुक्तं भवति । पञ्चसु चतुर्णां प्रयाजानां वसन्तग्रीष्मवर्षाशरदश्चतस्रो देवताः पञ्चमस्य तु हेमन्तशिशिरौ समस्तौ देवता तेषु वैकल्पिक: द्वितीय: प्रयाज: यजमानस्य गोत्रेण वासिष्ठत्वे शौनकत्वे आत्रेयत्वे वाध्य् यश्वत्वे आदौ नराशंसपदघटितः, अन्येषां तु तनूनपाद् घटितादिर्भवति.....

नाराशंससादन- होतृचमसप्रचारे त्रिषु सवनेषु चमसाध्वर्यवः होतृचमसादीन् दक्षिणहविर्धानस्य पश्चात् अक्षस्याप्यधः सादयन्तीति । इदं नाराशंससादनमुच्यते । द्र० नाराशंसचमस–, श्रौ०प०नि० पृ० २८७ ।
(श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषः। प्रणेता - प. पीताम्बरदत्तशास्त्री। राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५ई.)

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५&oldid=269196" इत्यस्माद् प्रतिप्राप्तम्