ऋग्वेदः सूक्तं ५.७८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.७७ ऋग्वेदः - मण्डल ५
सूक्तं ५.७८
सप्तवध्रिरात्रेयः।
सूक्तं ५.७९ →
दे. अश्विनौ (५-९ गर्भस्राविण्युपनिषद्)। अनुष्टुप्, १-३ उष्णिक्, ४ त्रिष्टुप् ।

अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
हंसाविव पततमा सुताँ उप ॥१॥
अश्विना हरिणाविव गौराविवानु यवसम् ।
हंसाविव पततमा सुताँ उप ॥२॥
अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये ।
हंसाविव पततमा सुताँ उप ॥३॥
अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा ।
श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥४॥
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव ।
श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥५॥
भीताय नाधमानाय ऋषये सप्तवध्रये ।
मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥६॥
यथा वातः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु निरैतु दशमास्यः ॥७॥
यथा वातो यथा वनं यथा समुद्र एजति ।
एवा त्वं दशमास्य सहावेहि जरायुणा ॥८॥
दश मासाञ्छशयानः कुमारो अधि मातरि ।
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥९॥

सायणभाष्यम्

‘अश्विनावेह' इति नवर्चं षष्ठं सूक्तम् । अत्रानुक्रमणिका- अश्विनौ नव सप्तवध्रिस्त्र्युष्णिगादि चतुर्थी त्रिष्टुप्पञ्चानुष्टुभः' इति । सप्तवध्रिर्नामात्रेय ऋषिः । आदितस्तिस्र उष्णिहश्चतुर्थी त्रिष्टुप् शिष्टाः पञ्चानुष्टुभः । प्रातरनुवाक आश्विने क्रतौ औष्णिहे छन्दसि आश्विने शस्त्रे चाद्यस्तृचो विनियुक्तः । सूत्रितं च - अश्विना वर्तिरस्मदाश्विनावेह गच्छतमिति तृचौ ' ( आश्व. श्रौ. ४, १५ ) इति । दशरात्रे तृतीयेऽहनि प्रउगशस्त्रेऽयमाश्विनस्तृचः । सूत्रितं च- अश्विनावेह गच्छतमा याह्यद्रिभिः सुतम् ' ( आश्व. श्रौ. ७. १० ) इति ॥


अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥१

अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।

हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥१

अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।

हंसौऽइव । पततम् । आ । सुतान् । उप ॥१

हे अश्विनौ “इह अस्मिन् यागे “आ “गच्छतम् । हे “नासत्या “मा “वि "वेनतम् । वेनतिः कान्तिकर्मा । मा विकामौ भवतम् । निःस्पृहावकामौ वा न भवतमित्यर्थः । “हंसाविव तौ यथा निर्मलोदकमागच्छतस्तद्वत् “सुतान् अभिषुतान् सोमान् “उप “आ “पततम् उपागच्छतम् ॥


अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सं ।

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥२

अश्वि॑ना । ह॒रि॒णौऽइ॑व । गौ॒रौऽइ॑व । अनु॑ । यव॑सम् ।

हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥२

अश्विना । हरिणौऽइव । गौरौऽइव । अनु । यवसम् ।

हंसौऽइव । पततम् । आ । सुतान् । उप ॥२

हे अश्विनौ “हरिणाविव “गौराविव गौरमृगाविव च । ती यथा “यवसं घासम् “अनु धावतः ताविव “हंसाविव च सोममागच्छतम् ॥


अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ ।

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥३

अश्वि॑ना । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।

हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥३

अश्विना । वाजिनीवसू इति वाजिनीऽवसू । जुषेथाम् । यज्ञम् । इष्टये ।

हंसौऽइव । पततम् । आ । सुतान् । उप ॥३

हे “वाजिनीवसू अन्नार्थं वासयितारौ “अश्विना “यज्ञम् अस्मदीयम् “इष्टये अभीष्टायैषणाय वा “जुषेथा सेवेथाम् ॥


अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।

श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥४

अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।

श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥४

अत्रिः । यत् । वाम् । अवऽरोहन् । ऋबीसम् । अजोहवीत् । नाधमानाऽइव । योषा ।

श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥४

“अत्रिः अस्मत्पिता "यत् यदा “वां युवाम् “अजोहवीत् अस्तौषीत् "नाधमाना याचमाना “योषा योषिदिव । सा यथा पतिं प्रीणयति तद्वत् कुर्वन् “ऋबीसं तुषाग्निमग्निकुण्डे क्षिप्तः सन् "अवरोहन विमुञ्चन् अजोहवीत् । “श्येनस्य चिज्जवसा श्येनस्य गरुत्मत इव वेगेन । चिदित्युपमार्थे । अथवा श्येनस्य जवसा वेगेन नूतनेन प्रथमोत्पनेन सततं गच्छतः श्येनस्य प्रथमजवेन “शंतमेन अस्माकं सुखतमेन च रथेन तं रक्षितुम् आगच्छतं हे “अश्विना ॥ ॥ १९ ॥


अत्र ब्रुवन्तीतिहासं सप्तवध्रेः पुराविदः । भ्रातृव्याः पेटिकायां तमृषिं प्रक्षिप्य यत्नतः ॥ मुद्रां कृत्वा गृहे स्वीये रक्षयित्वा न्यवेशयन् । न संगच्छेत भार्यां स्वां यथा रात्रौ तथा कृतम् ॥ प्रातःप्रातः समुद्घाट्य निर्मथिष्यन्ति तं मुनिम् । एवं स्थित्वा चिरं कालं पेटायां दुःखितः कृशः ।। उपायं चिन्तयामास निर्गमस्य चिरं मुनिः । हृदि निश्चित्य नासत्यावस्तौषीद्धृष्टमानसः । तमश्विनौ समागत्य समुद्घाट्य च पेटिकाम् । उद्धृत्य तमृषिं शीघ्रं तावदृष्टौ बभूवतुः ॥ स ऋषिर्भार्यया सार्धं रमित्वाथ पुनर्भयात् । प्रातरेत्य पुनः पेटां प्रविश्य प्रागिव स्थितः । पेटानिवाससमये दृष्टवानृग्द्वयं तदा ।।

वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव ।

श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुंचतं ॥५

वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।

श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥५

वि । जिहीष्व । वनस्पते । योनिः । सूष्यन्त्याःऽइव ।

श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥५

हे “वनस्पते वनस्पतिविकाररूपे पेटिके “वि “जिहीष्व विगच्छ । विवृता भव । “सूष्यन्त्याइव प्रसवोन्मुख्याः स्त्रियाः “योनिः इव भगो यथा विव्रियते तथा त्वमपि विवृता भव । तदर्थं हे “अश्विना अश्विनौ “मे “हवम् आह्वानं “श्रुतं शृणुतम् । श्रुत्वा च "सप्तवध्रिं “च मामृषिं “मुञ्चतं मोचयतम् ॥


भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये ।

मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥६

भी॒ताय॑ । नाध॑मानाय । ऋष॑ये । स॒प्तऽव॑ध्रये ।

मा॒याभिः॑ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥६

भीताय । नाधमानाय । ऋषये । सप्तऽवध्रये ।

मायाभिः । अश्विना । युवम् । वृक्षम् । सम् । च । वि । च । अचथः ॥६

“भीताय निर्गमात् बिभ्युषे “नाधमानाय विमोक्षं याचमानाय “सप्तवध्रये “ऋषये हे “अश्विना अश्विनौ “युवं युवां “मायाभिः “वृक्षं वृक्षविकारां पेटिकां “सं “चाचथः मम निर्गमार्थं संगच्छथः । "वि अचथः “च विभक्तं कुरुथः ॥


यथा॒ वातः॑ पुष्क॒रिणीं॑ समिं॒गय॑ति स॒र्वतः॑ ।

ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥७

यथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ ।

ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥७

यथा । वातः । पुष्करिणीम् । सम्ऽइङ्गयति । सर्वतः ।

एव । ते । गर्भः । एजतु । निःऽऐतु । दशऽमास्यः ॥७

एतदादि ऋक्त्रयं गर्भस्राविण्युपनिषत् । एतदाद्यृक्त्रयेणासौ सप्तवध्रिः स्वयोषितः । गर्भिण्याः प्रसवायाशु स्तुतवानश्विनावृषिः । “यथा “वातः “पुष्करिणीं सरआदिकं “सर्वतः “समिङ्गयति सम्यक् चालयति “एव एवं तव "गर्भः “एजतु कम्पताम्' इतस्ततः संचरतु । “दशमास्यः दश मासान् गर्भे स्थितः “निरैतु निर्गच्छतु ।।


यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति ।

ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥८

यथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति ।

ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥८

यथा । वातः । यथा । वनम् । यथा । समुद्रः । एजति ।

एव । त्वम् । दशऽमास्य । सह । अव । इहि । जरायुणा ॥८

वातो यथा कम्पमानो वनं कम्पयति स्वयम् । यथा समुद्रश्चलति चाल्यते वाथ वायुना ।। स्थित्वा दशैव मासांस्त्वं गर्भोल्बेन सुवेष्टितः । निर्गच्छ जठरान्मातुर्जरया सहितः पतेत् ॥


दश॒ मासां॑छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ ।

नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीवं॑त्या॒ अधि॑ ॥९

दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ ।

निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्याः । अधि॑ ॥९

दश । मासान् । शशयानः । कुमारः । अधि । मातरि ।

निःऽऐतु । जीवः । अक्षतः । जीवः । जीवन्त्याः । अधि ॥९

दश मासानुषित्वासौ जननीजठरे सुखम् । निर्गच्छतु सुखं जीवो जननी चापि जीवतु ॥ ॥ २० ॥

[सम्पाद्यताम्]

टिप्पणी

५.७८.९ दश मासाञ्छशयानः कुमारो अधि मातरि ।

द्र. मातलि उपरि टिप्पणी

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७८&oldid=399697" इत्यस्माद् प्रतिप्राप्तम्