ऋग्वेदः सूक्तं ५.७७
← सूक्तं ५.७६ | ऋग्वेदः - मण्डल ५ सूक्तं ५.७७ भौमोऽत्रिः |
सूक्तं ५.७८ → |
दे. अश्विनौ। त्रिष्टुप् |
प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।
प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥१॥
प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् ।
उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥२॥
हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् ।
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥३॥
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।
स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥४॥
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥
सायणभाष्यम्
‘प्रातर्यावाणा' इति पञ्चर्चं पञ्चमं सूक्तमात्रेयं त्रैष्टुभमाश्विनम् । ' प्रातर्यावाणा' इति ह्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः । अप्तोर्यामे मैत्रावरुणातिरिक्तोक्थ्ये इदमेव शस्यम् । तथा च सूत्रितं -- प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिम् ' ( आश्व. श्रौ. ९. ११ ) इति ॥
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑संति क॒वयः॑ पूर्व॒भाजः॑ ॥१
प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ ।
प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥१
प्रातःऽयावाना । प्रथमा । यजध्वम् । पुरा । गृध्रात् । अररुषः । पिबातः ।
प्रातः । हि । यज्ञम् । अश्विना । दधाते इति । प्र । शंसन्ति । कवयः । पूर्वऽभाजः ॥१
हे मदीया ऋत्विजः प्रातर्यावाणा प्रातरेव यज्ञं गन्तारौ “प्रथमा अत एवेतरेभ्यो देवेभ्यः पूर्वभाविनौ प्रकृष्टतमौ वा अश्विनौ “यजध्वम् । किमर्थं प्रथमयागनियोगः । उच्यते । “गृध्रात् अभिकाङ्क्षतः "अररुषः अदातू रक्षःप्रभृतेः “पुरा पूर्वं “पिबातः पिबताम् । अनागतौ कथं यष्टुं शक्यावित्यत आह । “अश्विना अश्विनौ “प्रातर्हि "यज्ञं “दधाते धारयतः संभजतः । “पूर्वभाज: पूर्वकालीनाः “कवयः अनूचाना ऋषयः प्रातरेवैतौ “प्र “शंसन्ति । ये वा अनूचानास्ते कवयः (ऐ. ब्रा. २. ३८) इति हि निगमः ॥
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टं ।
उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥२
प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् ।
उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॑ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥२
प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देवऽयाः । अजुष्टम् ।
उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःऽपूर्वः । यजमानः । वनीयान् ॥२
हे मदीयाः पुरुषाः “अश्विना अश्विनौ “प्रातः प्रातरेव “यजध्वं पूजयध्वं स्तुध्वम् । “हिनोत प्रहिणुत हवींषि । “सायं सायंकाले हविः “देवयाः देवगामि “न “अस्ति न विद्यते । देवा न स्वीकुर्वन्तीत्यर्थः । “अजुष्टम् असेव्यं तद्भवति । पूर्वाह्णो वै देवानाम् ' इति हि श्रुतिः । “उत “अस्मत् अस्मत्तः “अन्यः कोऽपि “यजते यजेत सोमेन “वि “चावः वितर्पयेच्च हविषा । अतोऽस्मास्वन्येषु च मध्ये “पूर्वः पूर्वो “यजमानः यः पूर्वः पूर्वो यष्टा भवति सः “वनीयान् देवानां संभजनीयः संभाव्यो भवति ॥
‘हिरण्यत्वक् ' इत्येषाश्विने पशौ हविषो याज्या । ' हिरण्यत्वङ्मधुवर्णो घृतस्नुरभि क्रत्वेन्द्र भूरध ज्मन् ' ( आश्व. श्रौ. ३. ८) इति हि सूत्रितम् ॥
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वां ।
मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥३
हिर॑ण्यऽत्वक् । मधु॑ऽवर्णः । घृ॒तऽस्नुः॑ । पृक्षः॑ । वह॑न् । आ । रथः॑ । व॒र्त॒ते॒ । वा॒म् ।
मनः॑ऽजवाः । अ॒श्वि॒ना॒ । वात॑ऽरंहाः । येन॑ । अ॒ति॒ऽया॒थः । दुः॒ऽइ॒तानि॑ । विश्वा॑ ॥३
हिरण्यऽत्वक् । मधुऽवर्णः । घृतऽस्नुः । पृक्षः । वहन् । आ । रथः । वर्तते । वाम् ।
मनःऽजवाः । अश्विना । वातऽरंहाः । येन । अतिऽयाथः । दुःऽइतानि । विश्वा ॥३
"वां युवयोः “रथः “पृक्षः अन्नममृतं “वहन् “आ “वर्तते अस्मदभिमुखमागच्छति । कीदृशो रथः। “हिरण्यत्वक् हिरण्याच्छादितरूपः हिरण्यावृतः “मधुवर्णः मनोहरवर्णः “घृतस्नुः उदकस्य प्रस्नवनः “मनोजवाः मनोवेगः “वातरंहाः वातसदृशवेगः । हे “अश्विना “येन रथेन “विश्वा सर्वाणि "दुरितानि दुर्गमनान् मार्गान् "अतियाथः अतिक्रम्य गच्छथः ॥
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।
स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥४
यः । भूयि॑ष्ठम् । नास॑त्याभ्याम् । वि॒वेष॑ । चनि॑ष्ठम् । पि॒त्वः । रर॑ते । वि॒ऽभा॒गे ।
सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी॑भिः । अनू॑र्ध्वऽभासः । सद॑म् । इत् । तु॒तु॒र्या॒त् ॥४
यः । भूयिष्ठम् । नासत्याभ्याम् । विवेष । चनिष्ठम् । पित्वः । ररते । विऽभागे ।
सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्वऽभासः । सदम् । इत् । तुतुर्यात् ॥४
“यः यजमानः "विभागे हविर्विभागवति' यागे “नासत्याभ्याम् अश्विभ्यां "भूयिष्ठं “चनिष्ठम् । ‘चन इत्यन्ननाम ' (निरु. ६. १६ )। बह्वन्नं कर्म “विवेष करोति । “पित्वः ॥ कर्मणि षष्ठी ॥ अन्नं च “ररते ददाति “सः यजमानः “अस्य आत्मन एव “तोकं पुत्रं “पीपरत् पालयेत् “शमीभिः कर्मभिः । “अनूर्ध्वभासः अनुन्नततेजस्कान् । यद्वा । ऊर्ध्वभासोऽग्नयः । अग्निरहितानयष्टॄन “सदमित् सदैव "तुतुर्यात् हिंस्यात्
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥५
सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥५
सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।
आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥५
'समश्विनोः' इति पञ्चमी गता’॥
मण्डल ५ | ||||
---|---|---|---|---|