ऋग्वेदः सूक्तं ५.४७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.४६ ऋग्वेदः - मण्डल ५
सूक्तं ५.४७
प्रतिरथ आत्रेयः
सूक्तं ५.४८ →
दे. विश्वे देवाः । त्रिष्टुप्


प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती ।
आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना ॥१॥
अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् ।
अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥२॥
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश ।
मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥३॥
चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते ।
त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥४॥
इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः ।
द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू ॥५॥
वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति ।
उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ ॥६॥
तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥७॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ तृतीयोऽध्याय आरभ्यते । तत्र ‘ प्रयुञ्जती ' इति सप्तर्चं तृतीयं सूक्तं प्रतिरथस्यार्षं त्रैष्टुभम् । पूर्वत्र वैश्वदेवं वै तत् ' इत्युक्तत्वादिदमपि वैश्वदेवम् । ‘ प्रयुञ्जती सप्त प्रतिरथः ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


प्र॒यु॒ञ्ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय॑न्ती ।

आ॒विवा॑सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ॥१

प्र॒यु॒ञ्ज॒ती । दि॒वः । ए॒ति॒ । ब्रु॒वा॒णा । म॒ही । मा॒ता । दु॒हि॒तुः । बो॒धय॑न्ती ।

आ॒ऽविवा॑सन्ती । यु॒व॒तिः । म॒नी॒षा । पि॒तृऽभ्यः॑ । आ । सद॑ने । जोहु॑वाना ॥१

प्रयुञ्जती । दिवः । एति । ब्रुवाणा । मही । माता । दुहितुः । बोधयन्ती ।

आऽविवासन्ती । युवतिः । मनीषा । पितृऽभ्यः । आ । सदने । जोहुवाना ॥१

एषोषस्या । 'प्रयुञ्जती प्राणिनः प्रस्तुतेषु कर्मसु “दिवः द्युलोकात् “एति आगच्छति “ब्रुवाणा स्तूयमाना ॥ कर्मणि कर्तृप्रत्ययः ॥ “मही महती “माता प्रकाशस्य देवानां वा निर्मात्री "दुहितुः भूम्याः “बोधयन्ती बोधं कुर्वाणा । तदुपजीव्यत्वात् दुहितृत्वम् उपचर्यते । यद्वा दुहितुर्दिव इति संबन्धः । उषसो दिवो दुहितृत्वं ' व्युच्छा दुहितर्दिवः ' ( ऋ. सं. १.४८.१ ) इत्यादिषु प्रसिद्धम् । अन्यत्र च ‘ दिवो दुहिता भुवनस्य पत्नी' (क्र. सं. ७. ७५. ४ ) इत्युषसः द्युदुहितृत्वम् आम्नातम् । अत इदमधिगम्यते । कदाचिद्यौन्रुषसो जायत उषाश्च दिव इति । प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये' (ऐ. ब्रा.३. ३३) इति हि श्रूयते । लिङ्गं च दृश्यते कार्यकारणभावव्यत्यये ‘ अदितेर्दक्षो अजायत दक्षाद्वदितिः ' (ऋ. सं १०. ७२. ४) इति ॥ किंच विवासन्ती परिचरन्ती “युवतिः मिश्रयन्ती सर्वत्र नित्यतरूणी वा “मनीषा स्तुतिमती “पितृभ्यः ॥ तृतीयार्थे पञ्चमी॥ पितृभिः पालकैर्देवैः सह “सदने यागगृहे “आ सर्वतः "जोहुवाना आहूयमाना । यद्वा । पितृभ्यः कर्मणां पालकेभ्यो यजमानेभ्य इष्टप्रापणेन पालकेभ्यो वा तेषामर्थाय जोहुवाना ॥


अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म् ।

अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वत॑ः सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्था॑ः ॥२

अ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् ।

अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥२

अजिरासः । तत्ऽअपः । ईयमानाः । आतस्थिऽवांसः । अमृतस्य । नाभिम् ।

अनन्तासः । उरवः । विश्वतः । सीम् । परि । द्यावापृथिवी इति । यन्ति । पन्थाः ॥२

“अजिरासः गमनशीलाः । अजिः इस्च्प्रत्ययान्तः ‘अजिरशिशिर' (उ. सू. १. ५३) इत्यादिना निपातितः ॥ “तदपः तदेव प्रकाशनरूपं कर्म यस्य तत्तादृशमहः “ईयमानाः गच्छन्तः “अमृतस्य सूर्यस्य “नाभिं संनाहकं मण्डलम् अमृतस्योदकस्य वा नाभिमन्तरिक्षम् “आतस्थिवांसः आतिष्ठन्तः “अनान्तासः[१] अपरिमिताः “उरवः व्याप्ताः “पन्थाः पतनशीला रश्मयः “द्यावापृथिवी “परि दिवं च पृथिवीं चान्तरिक्षं च “विश्वतः परितः "यन्ति गच्छन्ति । “सीम् इति पूरणः ॥


उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।

मध्ये॑ दि॒वो निहि॑त॒ः पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥३

उ॒क्षा । स॒मु॒द्रः । अ॒रु॒षः । सु॒ऽप॒र्णः । पूर्व॑स्य । योनि॑म् । पि॒तुः । आ । वि॒वे॒श॒ ।

मध्ये॑ । दि॒वः । निऽहि॑तः । पृश्निः॑ । अश्मा॑ । वि । च॒क्र॒मे॒ । रज॑सः । पा॒ति॒ । अन्तौ॑ ॥३

उक्षा । समुद्रः । अरुषः । सुऽपर्णः । पूर्वस्य । योनिम् । पितुः । आ । विवेश ।

मध्ये । दिवः । निऽहितः । पृश्निः । अश्मा । वि । चक्रमे । रजसः । पाति । अन्तौ ॥३

सौर्योऽयं तृचः । “उक्षा उदकस्य कामानां वा सेक्ता “समुद्रः समुन्दनः । यद्वा । संमोदन्ते अस्मिन् देवा इति समुद्रः । “अरुषः आरोचमानः “सुपर्णः सुगमनः “पूर्वस्य । अवयवलक्षणेयम् । पूर्वदिगवयवस्य “पितुः पालकस्यान्तरिक्षस्य “योनिम् उत्पादकमवयवम् “आ “विवेश आविष्टवान् पश्चात् "दिवः “मध्ये “निहितः “पृश्निः । प्राश्नुत एनं वर्णं इति पृश्निरादित्यः । “अश्मा सर्वत्र व्याप्तः । लुप्तोपमा वा । अश्मसदृशः “रजसः अन्तरिक्षस्य “अन्तौ पूर्वापरभागौ “वि "चक्रमे विक्रमते । “पाति च जगत् । जगद्रक्षार्थं क्रमते इत्यर्थः ॥


च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं॑ च॒रसे॑ धापयन्ते ।

त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ॥४

च॒त्वारः॑ । ई॒म् । बि॒भ्र॒ति॒ । क्षे॒म॒ऽयन्तः॑ । दश॑ । गर्भ॑म् । च॒रसे॑ । धा॒प॒य॒न्ते॒ ।

त्रि॒ऽधात॑वः । प॒र॒माः । अ॒स्य॒ । गावः॑ । दि॒वः । च॒र॒न्ति॒ । परि॑ । स॒द्यः । अन्ता॑न् ॥४

चत्वारः । ईम् । बिभ्रति । क्षेमऽयन्तः । दश । गर्भम् । चरसे । धापयन्ते ।

त्रिऽधातवः । परमाः । अस्य । गावः । दिवः । चरन्ति । परि । सद्यः । अन्तान् ॥४

“चत्वारः ऋत्विजः “ईम् एनमादित्यं "क्षेमयन्तः क्षेममात्मन इच्छन्तः "बिभ्रति धारयन्ति हविर्भि: स्तुतिभिश्च । किंच “दश दिशः “गर्भं गर्भवन्मध्ये उत्पन्नमेनं “चरसे चरणाय उदयास्तमय व्यवहाराय “धापयन्ते गमयन्ति । “त्रिधातवः त्रिप्रकाराः शीतोष्णवर्षभेदेन त्रिविधाः “अस्य आदित्यस्य “परमाः उत्कृष्टाः “गावः रश्मयः “दिवः अन्तरिक्षस्य “अन्तान् “परि परितः “सद्यः उदयानन्तरमेव “चरन्ति गच्छन्ति ।।


इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुराप॑ः ।

द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सब॑न्धू ॥५

इ॒दम् । वपुः॑ । नि॒ऽवच॑नम् । ज॒ना॒सः॒ । चर॑न्ति । यत् । न॒द्यः॑ । त॒स्थुः । आपः॑ ।

द्वे इति॑ । यत् । ई॒म् । बि॒भृ॒तः । मा॒तुः । अ॒न्ये इति॑ । इ॒हऽइ॑ह । जा॒ते इति॑ । य॒म्या॑ । सब॑न्धू॒ इति॒ सऽब॑न्धू ॥५

इदम् । वपुः । निऽवचनम् । जनासः । चरन्ति । यत् । नद्यः । तस्थुः । आपः ।

द्वे इति । यत् । ईम् । बिभृतः । मातुः । अन्ये इति । इहऽइह । जाते इति । यम्या । सबन्धू इति सऽबन्धू ॥५

“जनासः हे जना ऋत्विजः “इदं पुरतः दृश्यमानं “वपुः शरीरं मण्डलं “निवचनं स्तुत्यं भवतीति शेषः । यन्मण्डलमुपजीव्य “नद्यः “चरन्ति प्रवहन्ति । “आपः च “यत् मण्डलमधितस्थुः । मण्डलाधीनत्वात्तासाम् । “ईम् एतदुक्तलक्षणं यन्मण्डलं “द्वे अहोरात्रे “मातुः निर्मातुर्मातृस्थानीयादन्तरिक्षात् “अन्ये “इहेह “जाते इह चेह च सूर्ये जाते निष्पन्ने “यम्या यम्ये नियमनीये युग्मभूते वा “सबन्धू समानबले समान बन्धने उभयोरप्येक एव सूर्यों बन्धकोऽक्षो ययोस्तादृश्यौ “बिभृतः धारयतः ॥


वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति ।

उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यच्छ॑ ॥६

वि । त॒न्व॒ते॒ । धियः॑ । अ॒स्मै॒ । अपां॑सि । वस्त्रा॑ । पु॒त्राय॑ । मा॒तरः॑ । व॒य॒न्ति॒ ।

उ॒प॒ऽप्र॒क्षे । वृष॑णः । मोद॑मानाः । दि॒वः । प॒था । व॒ध्वः॑ । य॒न्ति॒ । अच्छ॑ ॥६

वि । तन्वते । धियः । अस्मै । अपांसि । वस्त्रा । पुत्राय । मातरः । वयन्ति ।

उपऽप्रक्षे । वृषणः । मोदमानाः । दिवः । पथा । वध्वः । यन्ति । अच्छ ॥६

“अस्मै सूर्याय “धियः स्तुतीः “अपांसि कर्माणि च “वि “तन्वते विस्तारयन्ति यजमानाः । “पुत्राय पुत्रस्थानीयाय “मातरः निर्मात्र्य उषसो दिशो वा “वस्त्रा वस्त्राणि “वयन्ति निष्पादयन्ति । वस्त्रसदृशानि तेजांसि निबिडानि संपादयन्तीत्यर्थः । “वृषणः सेक्तुः सूर्यस्य “उपप्रक्षे उपपर्चने संपर्के सति “मोदमानाः हृष्यन्तः “वध्वः वधूस्थानीया रश्मयः “दिवस्पथा सूर्यसंबन्धिना मार्गेण “अच्छ अस्मदभिमुखं “यन्ति गच्छन्ति प्रसरन्ति ॥


तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् ।

अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥७

तत् । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । तत् । अ॒ग्ने॒ । शम् । योः । अ॒स्मभ्य॑म् । इ॒दम् । अ॒स्तु॒ । श॒स्तम् ।

अ॒शी॒महि॑ । गा॒धम् । उ॒त । प्र॒ति॒ऽस्थाम् । नमः॑ । दि॒वे । बृ॒ह॒ते । सद॑नाय ॥७

तत् । अस्तु । मित्रावरुणा । तत् । अग्ने । शम् । योः । अस्मभ्यम् । इदम् । अस्तु । शस्तम् ।

अशीमहि । गाधम् । उत । प्रतिऽस्थाम् । नमः । दिवे । बृहते । सदनाय ॥७

अत्र लिङ्गसिद्धा देवताः । हे "मित्रावरुणा मित्रावरुणौ “तत् “इदं सूक्तं “शस्तं स्तुतम् “अस्तु भवतु । हे "अग्ने “तत् सूक्तं शस्तम् “अस्तु । “अस्मभ्यं “शं सुखाय "योः दुःखानाममिश्रणायेदं शस्तमस्तु । वयं च "अशीमहि प्राप्नुयाम “गाधं स्थितिम्' । “उत अपि च “प्रतिष्ठां स्थितेरविच्छित्तिं चाशीमहि । “नमः नमस्करोमि “दिवे द्योतमानाय सूर्याय “बृहते महते “सादनाय आश्रयाय विश्वस्य ॥ ॥ १ ॥


[सम्पाद्यताम्]


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

  1. द्र. तै.ब्रा. ३.११.७.४, अनन्तोपरि टिप्पणी
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४७&oldid=329057" इत्यस्माद् प्रतिप्राप्तम्