ऋग्वेदः सूक्तं ५.७९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.७८ ऋग्वेदः - मण्डल ५
सूक्तं ५.७९
सत्यश्रवा आत्रेयः।
सूक्तं ५.८० →
दे. उषाः। पङ्क्तिः ।


महे नो अद्य बोधयोषो राये दिवित्मती ।
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१॥
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥२॥
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥३॥
अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः ।
मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥४॥
यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।
परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥५॥
ऐषु धा वीरवद्यश उषो मघोनि सूरिषु ।
ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥६॥
तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह ।
ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥७॥
उत नो गोमतीरिष आ वहा दुहितर्दिवः ।
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते ॥८॥
व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः ।
नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥९॥
एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि ।
या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥१०॥


सायणभाष्यम्

‘महे नो अद्य ' इति दशर्चं सप्तमं सूक्तमात्रेयस्य सत्यश्रवस आर्षं पाङ्त्दमुषस्यम् । अनुक्रम्यते च -- ‘ महे दश सत्यश्रवा उषस्यं तु पाङ्क्तम् ' इति । प्रातरनुवाके उषस्ये क्रतौ पाङ्क्ते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्र्यते हि - महे नो अद्येति पाङ्क्तम् ' ( आश्व. श्रौ. ४. १४ ) इति ॥


म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती ।

यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥१

म॒हे । नः॒ । अ॒द्य । बो॒ध॒य॒ । उषः॑ । रा॒ये । दि॒वित्म॑ती ।

यथा॑ । चि॒त् । नः॒ । अबो॑धयः । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥१

महे । नः । अद्य । बोधय । उषः । राये । दिवित्मती ।

यथा । चित् । नः । अबोधयः । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥१

“अद्य अस्मिन् यागदिने हे “उषः उषोदेवि “दिवित्मती दीप्तिमती त्वं “नः अस्मान् "महे महते “राये धनप्राप्तये “बोधय प्रज्ञापय । प्रकाशयेत्यर्थः । सति प्रकाशे क्रतुद्वारा दृव्यस्योपार्जयितुं शक्यत्वात् । “यथा “चित् यथैव पूर्वं “नः अस्मान् “अबोधयः अतीतेषु दिवसेषु यथा बोधितवती तद्वदद्यापि इत्यर्थः । हे “सुजाते शोभनप्रादुर्भूते “अश्वसूनृते । अश्वार्था प्रियसस्यात्मिका स्तुतिवाक् यस्याः सा । हे तादृशि देवि “वाय्ये वय्यपुत्रे “सत्यश्रवसि मय्यनुगृहाणेत्यर्थः ॥


या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः ।

सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥२

या । सु॒ऽनी॒थे । शौ॒च॒त्ऽर॒थे । वि । औच्छः॑ । दु॒हि॒तः॒ । दि॒वः॒ ।

सा । वि । उ॒च्छ॒ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥२

या । सुऽनीथे । शौचत्ऽरथे । वि । औच्छः । दुहितः । दिवः ।

सा । वि । उच्छ । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥२

हे “दिवः “दुहितः दिवः सूर्यस्य पुत्र्युषः "या त्वं “सुनीथे एतन्नामके “शौचद्रथे शुचद्रथस्थापत्ये पूर्वं “व्यौच्छः व्यवासयस्तमांसि “सा त्वं “सहीयसि अतिशयेन बलवति “वाय्ये वय्यपुत्रे "सत्यश्रवसि मयि “व्युच्छ तमो विवासय । उच्छी विवासे' । विवासो वर्जनम् । शिष्टमुक्तम् ॥


सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः ।

यो व्यौच्छ॒ः सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥३

सा । नः॒ । अ॒द्य । आ॒भ॒रत्ऽव॑सुः । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।

यो इति॑ । वि । औच्छः॑ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥३

सा । नः । अद्य । आभरत्ऽवसुः । वि । उच्छ । दुहितः । दिवः ।

यो इति । वि । औच्छः । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥३

हे “दुहितर्दिवः उषः “आभरद्वसुः आहृतधना “सा प्रसिद्धा त्वं “नः अस्माकम् “अद्य अस्मिन् दिने “व्युच्छ तमो विवासय । हे 'सहीयसि “यो या । उकारोऽनर्थकः । या त्वं पूर्वं “व्यौच्छः साद्यापीति ॥


अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णन्ति॒ वह्न॑यः ।

म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वन्तः सुरा॒तय॒ः सुजा॑ते॒ अश्व॑सूनृते ॥४

अ॒भि । ये । त्वा॒ । वि॒भा॒ऽव॒रि॒ । स्तोमैः॑ । गृ॒णन्ति॑ । वह्न॑यः ।

म॒घैः । म॒घो॒नि॒ । सु॒ऽश्रियः॑ । दाम॑न्ऽवन्तः । सु॒ऽरा॒तयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥४

अभि । ये । त्वा । विभाऽवरि । स्तोमैः । गृणन्ति । वह्नयः ।

मघैः । मघोनि । सुऽश्रियः । दामन्ऽवन्तः । सुऽरातयः । सुऽजाते । अश्वऽसूनृते ॥४

हे “विभावरि प्रकाशोपेते ॥ विभाशब्दात् ‘ छन्दसीवनिपौ' . इति वनिप् । भातेर्वा कर्तरि वनिप् ॥ उषः “त्वा त्वाम् “अभि प्रति “ये “वह्नयः वोढारः ऋत्विजः स्तोतारः “स्तोमैः स्तोत्रैः “गृणन्ति स्तुवन्ति ते स्तोतारः “मघैः हे “मघोनि धनैर्धनवति त्वदनुग्रहात् “सुश्रियः भवन्ति । सुष्ठ्वर्थिभिराश्रयणीया भवन्ति । “दामन्वन्तः दानवन्तो भवन्ति । “सुरातयः । रातिर्दानम् । सुदानाश्च भवन्ति ।।


यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दय॑न्ति म॒घत्त॑ये ।

परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥५

यत् । चि॒त् । हि । ते॒ । ग॒णाः । इ॒मे । छ॒दय॑न्ति । म॒घत्त॑ये ।

परि॑ । चि॒त् । वष्ट॑यः । द॒धुः॒ । दद॑तः । राधः॑ । अह्र॑यम् । सुऽजा॑ते । अश्व॑ऽसूनृते ॥५

यत् । चित् । हि । ते । गणाः । इमे । छदयन्ति । मघत्तये ।

परि । चित् । वष्टयः । दधुः । ददतः । राधः । अह्रयम् । सुऽजाते । अश्वऽसूनृते ॥५

हे उषः "यच्चिद्धि । हीति पूरणः । यत् ये केचन "ते तव स्वभूताः “इमे पुरतो वर्तमाना: "गणाः संघभूताः “मघत्तये धनदातये धनदानाय धनवत्त्वाय वा “छदयन्ति उपच्छन्दयन्ति ते सर्वेऽप्यस्मान् “परि “दधुः परितो धारयन्ति “वष्टयः अस्मानेव कामयमानाः । किं कुर्वन्तः । “अह्रयम् अह्रियमाणमक्षीणमलजावहं वा "राधः धनं हविर्लक्षणं “ददतः यजन्त इत्यर्थः । अर्थिभ्योऽक्षीणं ददतो वा । ये त्वां "हविर्ददतः स्तुवन्ति ते सर्वेऽप्यस्मदर्थमेव फलं धारयन्ति । स्तुवन्तीत्यर्थः । अथवा यच्चिद्धीत्यत्र यद्यपीति व्याख्येयम् । तस्मिन् पक्षे उत्तरवाक्ये तथापीत्यध्याहार्यम् । अवशिष्टं समानम् ॥ ॥ २१ ॥


ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ ।

ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥६

आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ । उषः॑ । म॒घो॒नि॒ । सू॒रिषु॑ ।

ये । नः॒ । राधां॑सि । अह्र॑या । म॒घऽवा॑नः । अरा॑सत । सुऽजा॑ते । अश्व॑ऽसूनृते ॥६

आ । एषु । धाः । वीरऽवत् । यशः । उषः । मघोनि । सूरिषु ।

ये । नः । राधांसि । अह्रया । मघऽवानः । अरासत । सुऽजाते । अश्वऽसूनृते ॥६

हे "उषः देवि “मघोनि मघवति त्वम् “एषु “सूरिषु स्तोतृषु वा “वीरवद्यशः वीरैः पुत्रादिभिरुपेतमन्नं यशो वा “आ “धाः आधेहि । आदेहि आनय "ये मघवानः धनवन्तः सूरयः “नः अस्मभ्यं तव स्तोतृभ्यः "राधांसि धनानि “अह्रया अक्षीणानि "अरासत ददुः तेष्वित्यर्थः ॥


तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह ।

ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भज॑न्त सू॒रय॒ः सुजा॑ते॒ अश्व॑सूनृते ॥७

तेभ्यः॑ । द्यु॒म्नम् । बृ॒हत् । यशः॑ । उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ ।

ये । नः॒ । राधां॑सि । अश्व्या॑ । ग॒व्या । भज॑न्त । सू॒रयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥७

तेभ्यः । द्युम्नम् । बृहत् । यशः । उषः । मघोनि । आ । वह ।

ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सुऽजाते । अश्वऽसूनृते ॥७

हे “उषो “मघोनि त्वं “तेभ्यो "द्युम्नं द्योतमानं हिरण्यादिरूपं धनं “बृहद्यशः महदन्नं महती कीर्तिं वा तेभ्यो यजमानेभ्यः “आ "वह । "ये आढ्याः “नः अस्मभ्यं “राधांसि धनानि “अश्व्याः अश्वैर्युक्तानि “गव्या गोभिर्युक्तानि गोसमूहानश्वसमूहान् च "भजन्त भजेरन् ददुः “सूरयः दातारः॥


उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः ।

सा॒कं सूर्य॑स्य र॒श्मिभि॑ः शु॒क्रैः शोच॑द्भिर॒र्चिभि॒ः सुजा॑ते॒ अश्व॑सूनृते ॥८

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । आ । व॒ह॒ । दु॒हि॒तः॒ । दि॒वः॒ ।

सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । शु॒क्रैः । शोच॑त्ऽभिः । अ॒र्चिऽभिः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥८

उत । नः । गोऽमतीः । इषः । आ । वह । दुहितः । दिवः ।

साकम् । सूर्यस्य । रश्मिऽभिः । शुक्रैः । शोचत्ऽभिः । अर्चिऽभिः । सुऽजाते । अश्वऽसूनृते ॥८

“उत अपि च “नः अस्मभ्यं “गोमतीः गोभिरुपेतानि “इषः अन्नानि “आ “वह आनय हे “दिवः दुहितः उषः । कदा । “सूर्यस्य “रश्मिभिः “साकं “शोचद्धिः दीपयद्भिः “शुक्रैः निर्मलैः “अर्चिभिः अग्नेस्तेजोभिश्च साकम् । सूर्योदयकालेऽग्नीन्धनकाले चेत्यर्थः ॥


व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अप॑ः ।

नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥९

वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । मा । चि॒रम् । त॒नु॒थाः॒ । अपः॑ ।

न । इत् । त्वा॒ । स्ते॒नम् । यथा॑ । रि॒पुम् । तपा॑ति । सूरः॑ । अ॒र्चिषा॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥९

वि । उच्छ । दुहितः । दिवः । मा । चिरम् । तनुथाः । अपः ।

न । इत् । त्वा । स्तेनम् । यथा । रिपुम् । तपाति । सूरः । अर्चिषा । सुऽजाते । अश्वऽसूनृते ॥९

हे दिवः “दुहितः उषः त्वं “व्युच्छ विभातं कुरु । “अपः अस्मदीयं कर्म प्रति “चिरं विलम्बं “मा “तनुथाः मा कृथाः । “त्वा त्वां “रिपुं “स्तेनं “यथा संतापयति राजादिः तद्वत “सूरः सूर्यः “अर्चिषा तेजसा “नेत् नैव "तपाति तप्यात् । शीघ्रं नोदत्वित्यर्थः ।।


ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि ।

या स्तो॒तृभ्यो॑ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥१०

ए॒ताव॑त् । वा॒ । इत् । उ॒षः॒ । त्वम् । भूयः॑ । वा॒ । दातु॑म् । अ॒र्ह॒सि॒ ।

या । स्तो॒तृऽभ्यः॑ । वि॒भा॒ऽव॒रि॒ । उ॒च्छन्ती॑ । न । प्र॒ऽमीय॑से । सुऽजा॑ते । अश्व॑ऽसूनृते ॥१०

एतावत् । वा । इत् । उषः । त्वम् । भूयः । वा । दातुम् । अर्हसि ।

या । स्तोतृऽभ्यः । विभाऽवरि । उच्छन्ती । न । प्रऽमीयसे । सुऽजाते । अश्वऽसूनृते ॥१०

हे “उषः त्वमस्मभ्यं “वा अथवा दित्सितं किम् “एतावत् एव । इच्छब्द एवकारार्थः । अस्मिन् सूक्ते प्रार्थितमेवेत्यर्थः । अथवा "भूयः “दातुमर्हसि । अप्रार्थितमपि । यद्दातव्यमस्ति तत्सर्वं देहि इत्यर्थः । हे “विभावरि उषः “या त्वं “स्तोतृभ्यः तेषां लौकिकवैदिकव्यवहारार्थं व्युच्छन्ती तमो विवासयन्ती “न “प्रमीयसे न हंसि । न क्रुध्यसीत्यर्थः । सा त्वं दातुमर्हसीति ॥ ' मीञ् हिंसायाम् ' इत्यस्मात् श्नास्थाने व्यत्ययेन श्यन् ॥ ॥ २२ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७९&oldid=199811" इत्यस्माद् पुनः प्राप्तिः