ऋग्वेदः सूक्तं ५.७६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.७५ ऋग्वेदः - मण्डल ५
सूक्तं ५.७६
भौमोऽत्रिः
सूक्तं ५.७७ →
दे. अश्विनौ। त्रिष्टुप्।

आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥१॥
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा ॥२॥
उता यातं संगवे प्रातरह्नो मध्यंदिन उदिता सूर्यस्य ।
दिवा नक्तमवसा शंतमेन नेदानीं पीतिरश्विना ततान ॥३॥
इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् ।
आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता ॥४॥
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥

सायणभाष्यम्

‘आ भात्यग्निः' इति पञ्चर्चं चतुर्थं सूक्तं भौमस्यात्रेरार्षं त्रैष्टुभमाश्विनम् । अत्रानुक्रमणिका-- ’आ भाति पञ्चात्रिः' इति । प्रवर्ग्येऽभिष्टवार्थमिदं सूक्तम् । सूत्रितं च - आ भात्यग्निर्ग्रावाणेव ' ( आश्व. श्रौ. ४. ६ ) इति । प्रातरनुवाके आश्विने क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदमादिके द्वे सूक्ते । सूत्र्यते हि - ’आ भात्यग्निरिति सूक्ते' ( आश्व. श्रौ. ४. १५) इति । अप्तोर्यामे होतुरतिरिक्तोक्थ्ये इदं सूक्तम् । सूत्रितं च--' आ भात्यग्निः क्षेत्रस्य पतिना वयमिति परिधानीया ' ( आश्व. श्रौ. ९. ११ ) इति ॥


आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः ।

अ॒र्वांचा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥१

आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा॑म् । अनी॑कम् । उत् । विप्रा॑णाम् । दे॒व॒ऽयाः । वाचः॑ । अ॒स्थुः॒ ।

अ॒र्वाञ्चा॑ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒ऽवांस॑म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ॑ ॥१

आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । देवऽयाः । वाचः । अस्थुः ।

अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिऽवांसम् । अश्विना । घर्मम् । अच्छ ॥१

“उषसामनीकम् अनीकभूतः । अनीकं मुखम् । उषसि प्रबुध्यमान इत्यर्थः। तादृशः “अग्निः “आ “भाति दीप्यते । यद्वा । उषसां मुखम् आ भाति दीपयति । उषःकाले ह्यग्नयः प्रतिबोध्यन्ते । किंच “विप्राणां मेधाविनां स्तोतॄणां “देवयाः देवकामाः “वाचः स्तोत्राणि “उत् "अस्थुः उत्तिष्ठन्ति। यस्मादेवं तस्मात् हे “रथ्या रथस्वामिनावश्विनौ “अर्वाञ्चा अस्मदभिमुखाञ्चनौ “नूनम् अद्यास्मिन् यागदिने “इह आ “यातम् । कं प्रति । “पीपिवांसं स्वाङ्गैः परिवृढं "घर्मं प्रदीप्तं यज्ञम् । यद्वा । पीपिवांसमाप्यायितं वसतीवरीभिः क्षरद्रूपं सोमरसम् । अथवा घृतादिना पीपिवांसं धर्मं प्रवर्ग्यम् “अच्छ अभिलक्ष्य इह यातम् । प्रवर्ग्येऽस्य सूक्तस्य विनियोगः ॥


न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठांति॑ नू॒नम॒श्विनोप॑स्तुते॒ह ।

दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शंभ॑विष्ठा ॥२

न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि॑ष्ठा । अन्ति॑ । नू॒नम् । अ॒श्विना॑ । उप॑ऽस्तुता । इ॒ह ।

दिवा॑ । अ॒भि॒ऽपि॒त्वे । अव॑सा । आऽग॑मिष्ठा । प्रति॑ । अव॑र्तिम् । दा॒शुषे॑ । शम्ऽभ॑विष्ठा ॥२

न । संस्कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपऽस्तुता । इह ।

दिवा । अभिऽपित्वे । अवसा । आऽगमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्ऽभविष्ठा ॥२

अश्विनौ “संस्कृतं घर्मं “न “प्र “मिमीतः न हिंस्ताम् । किंतु “अन्ति अन्तिके घर्मसमीपे “नूनम् इदानीम् “इह यज्ञे “गमिष्ठा गन्तृतमौ’ “अश्विना अश्विनौ “उपस्तुता उपस्तुतौ भवतः। “दिवाभिपित्वे दिवसस्याभिपतने प्रातःकाले “अवसा रक्षणेन सह “आगमिष्ठा आगन्तृतमौ । “अवर्तिं “प्रति द्वन्द्वभूतौ । वर्तिर्जीवनम् । तदभावोऽवर्तिः । तद्रहितमन्नं यथा भवति तथागन्तृतमौ । आगत्य च “दाशुषे हविर्दत्तवते यजमानाय “शंभविष्ठा सुखस्य भावयितारौ भवताम् ॥


उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।

दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥३

उ॒त । आ । या॒त॒म् । स॒म्ऽग॒वे । प्रा॒तः । अह्नः॑ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।

दिवा॑ । नक्त॑म् । अव॑सा । शम्ऽत॑मेन । न । इ॒दानी॑म् । पी॒तिः । अ॒श्विना॑ । आ । त॒ता॒न॒ ॥३

उत । आ । यातम् । सम्ऽगवे । प्रातः । अह्नः । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।

दिवा । नक्तम् । अवसा । शम्ऽतमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥३

अह्नो द्वेधा त्रेधा पञ्चधा पञ्चदशधा समाना: विभागाः सन्ति । इह पञ्चधा विभाग आत्तः । “उत अपि च "आ "यातम् आगच्छतम् । कदा "संगवे संगवकाले । संगच्छन्ते गावो दोहभूमिं यस्मिन् काले स संगवः । रात्र्यपरकाले हि गावो वने हिमतृणानि भक्षयित्वा पुनर्दोहाय संगवे प्रतिनिवर्तन्ते । तथा “प्रातः प्रातःकालेऽपि । तथा “मध्यंदिने “अह्नः मध्यकाले “सूर्यस्य “उदिता उदितौ अभ्युदये अत्यन्तप्रवृद्धसमये अपराह्ने इत्यर्थः । एतत् सायाह्नस्याप्युपलक्षणम् । न केवलम् उक्तेष्वेव कालेषु किं तर्हि "दिवा “नक्तं सर्वदा “शंतमेन सुखतमेन “अवसा रक्षणेन हविषा वा निमित्तेन आ यातम् । किमर्थमागम्यते पूर्वमेवान्यैर्देवैः स्वीकृतत्वात् नेत्याह । “इदानीम् अपि “पीतिः इतरदेवानां पानं “न “आ “ततान न तनोति “अश्विना अश्विनौ विहायेति शेषः ॥


इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णं ।

आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वहं॑ता ॥४

इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॒रो॒णम् ।

आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥४

इदम् । हि । वाम् । प्रऽदिवि । स्थानम् । ओकः । इमे । गृहाः । अश्विना । इदम् । दुरोणम् ।

आ । नः । दिवः । बृहतः । पर्वतात् । आ । अत्ऽभ्यः । यातम् । इषम् । ऊर्जम् । वहन्ता ॥४

हे “अश्विना “वां युवयोः “प्रदिवि पुराणम् “इदं “हि “ओकः निवासयोग्यं “स्थानम् उत्तरवेद्याख्यम् । अथ सौमिकवेद्यभिप्रायेणाह । “इमे “गृहाः प्राचीनवंशादयः । “इदं “दुरोणं देवयजनगृहम् । “नः अस्मदर्थं “दिवः द्युलोकात् “बृहतः पर्वतात् पर्ववतो मेघात् “अद्भयः अपां कारणादन्तरिक्षात् “आ “यातम् आगच्छतम् । किं तूष्णीम् । न । “इषमूर्जं च अन्नं बलं च । बलसाधनमन्नं सारभूतमित्यर्थः । तादृशं “वहन्ता वहन्तौ ॥


सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥५

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥५

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।

आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥५

वयं “सं “गमेम संगच्छेम “अश्विनोः “नूतनेन “अवसा अनन्यकृतेन रक्षणेन “मयोभुवा सुखस्य भावयित्र्या “सुप्रणीती सुप्रणीत्या सुष्ठ्वागमनेन च । अपि वैते उभे अवसो विशेषणे । उक्तलक्षणेन सं गमेम । “नः अस्मभ्यं “रयिम् “आ “वहतम् । "उत “वीरान् पुत्रादीन् “आ वहतम् । हे “अमृता अमरणधर्माणौ “विश्वानि “सौभगानि सुभगत्वानि “आ वहतम् ॥ ॥ १७ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७६&oldid=209187" इत्यस्माद् पुनः प्राप्तिः