ऋग्वेदः सूक्तं ५.१७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.१६ ऋग्वेदः - मण्डल ५
सूक्तं ५.१७
पूरुरात्रेयः
सूक्तं ५.१८ →
दे. अग्निः। अनुष्टुप्, ५ पङ्क्तिः


आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये ।
अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥१॥
अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे ।
तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥२॥
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।
दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः ॥३॥
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।
अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥४॥
नू न इद्धि वार्यमासा सचन्त सूरयः ।
ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥५॥


सायणभाष्यम्

‘आ यज्ञैः' इति पञ्चर्चं तृतीयं सूक्तमात्रेयस्य पूरोरार्षमाग्नेयम् । अन्त्या पङ्क्तिः शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । ‘आ यज्ञैः' इत्यनुक्रमणिका । अन्त्यावर्जं प्रातरनुवाकाश्विनशस्त्रयोः ‘ बृहद्वयः' इत्यादिदशसूक्तमध्ये विनियोग उक्तः ॥


आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ ।

अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥१

आ । य॒ज्ञैः । दे॒व॒ । मर्त्यः॑ । इ॒त्था । तव्यां॑सम् । ऊ॒तये॑ ।

अ॒ग्निम् । कृ॒ते । सु॒ऽअ॒ध्व॒रे । पू॒रुः । ई॒ळी॒त॒ । अव॑से ॥१

आ । यज्ञैः । देव । मर्त्यः । इत्था । तव्यांसम् । ऊतये ।

अग्निम् । कृते । सुऽअध्वरे । पूरुः । ईळीत । अवसे ॥१

हे "देव "मर्त्यः मनुष्य ऋत्विक् "इत्था इत्थं "तव्यांसं स्वतेजोभिः प्रवृद्धम् "अग्निम् “ऊतये तर्पणाय "यज्ञैः स्तोत्रैः “आ ह्वयति । किंच "पूरुः मनुष्यः स्तोता "कृते "स्वध्वरे शोभने क्रतौ तम् अग्निम् “अवसे रक्षणाय “ईळीत स्तौति ॥


अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से ।

तं नाकं॑ चि॒त्रशो॑चिषं म॒न्द्रं प॒रो म॑नी॒षया॑ ॥२

अस्य॑ । हि । स्वय॑शःऽतरः । आ॒सा । वि॒ऽध॒र्म॒न् । मन्य॑से ।

तम् । नाक॑म् । चि॒त्रऽशो॑चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया॑ ॥२

अस्य । हि । स्वयशःऽतरः । आसा । विऽधर्मन् । मन्यसे ।

तम् । नाकम् । चित्रऽशोचिषम् । मन्द्रम् । परः । मनीषया ॥२

हे "विधर्मन् । विशिष्टो धर्मो यस्यासौ विधर्मा स्तोता। तस्य संबोधनम् । हे स्तोतः "स्वयशस्तरः सुयशसां मध्येऽतिशयेन सुयशास्त्वं "मनीषया प्रकृष्टबुद्ध्या साधनेन “तं प्रसिद्धम् "अस्य अमुं “हि अग्निम् आसा आस्येन वाचा “मन्यसे स्तौषि । किंविशिष्टमग्निम् । "नाकं सुखम् । अकं दुःखम् । न विद्यतेऽकं यस्य सः । तं "चित्रशोचिषं चित्रतेजसं "मन्द्रं स्तुत्यं “परः परस्तात् स्थितम् ॥


अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा ।

दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच॑न्त्य॒र्चय॑ः ॥३

अ॒स्य । वै । अ॒सौ । ऊं॒ इति॑ । अ॒र्चिषा॑ । यः । अयु॑क्त । तु॒जा । गि॒रा ।

दि॒वः । न । यस्य॑ । रेत॑सा । बृ॒हत् । शोच॑न्ति । अ॒र्चयः॑ ॥३

अस्य । वै । असौ । ऊं इति । अर्चिषा । यः । अयुक्त । तुजा । गिरा ।

दिवः । न । यस्य । रेतसा । बृहत् । शोचन्ति । अर्चयः ॥३

“यः अग्निः “तुजा जगद्रक्षणसमर्थेन बलेन “गिरा स्तुत्या "अयुक्त संबद्धो भवति “दिवो "न द्योतमानस्यादित्यस्येव “यस्य अग्नेः "रेतसा प्रभया कृत्स्नं जगद्व्याप्तं यस्याग्नेः “बृहत् बृहन्तः “अर्चयः दीप्तयः “शोचन्ति प्रकाशन्ते "अस्य “वै खल्वग्नेः "अर्चिषा प्रभया असौ आदित्यः अर्चिष्मान् भवति । “उ इति पूरणः ॥


अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।

अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥४

अ॒स्य । क्रत्वा॑ । विऽचे॑तसः । द॒स्मस्य॑ । वसु॑ । रथे॑ । आ ।

अध॑ । विश्वा॑सु । हव्यः॑ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥४

अस्य । क्रत्वा । विऽचेतसः । दस्मस्य । वसु । रथे । आ ।

अध । विश्वासु । हव्यः । अग्निः । विक्षु । प्र । शस्यते ॥४

“विचेतसः सुमतय ऋत्विजः "दस्मस्य दर्शनीयस्य "अस्य अग्नेः "क्रत्वा कर्मणा यज्ञादिना “वसु वसूनि धनानि “रथे “आ दधति । "हव्यः यज्ञार्थमाह्वातव्यः सः "अग्निः "अध अथ उत्पत्त्यनन्तरमेव "विश्वासु सर्वासु "विक्षु प्रजासु "प्र “शस्यते स्तूयते ॥


नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रय॑ः ।

ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥५

नु । नः॒ । इत् । हि । वार्य॑म् । आ॒सा । स॒च॒न्त॒ । सू॒रयः॑ ।

ऊर्जः॑ । न॒पा॒त् । अ॒भिष्ट॑ये । पा॒हि । श॒ग्धि । स्व॒स्तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥५

नु । नः । इत् । हि । वार्यम् । आसा । सचन्त । सूरयः ।

ऊर्जः । नपात् । अभिष्टये । पाहि । शग्धि । स्वस्तये । उत । एधि । पृत्ऽसु । नः । वृधे ॥५

हे अग्ने “नः अस्मभ्यं “वार्यं वरणीयं धनं "नु क्षिप्रं प्रयच्छ । “इद्धि इति पूरणौ । यतः "सूरयः स्तोतारस्त्वत्तः सकाशात् “आसा आस्येन स्तोत्रेण “सचन्त धनं लभन्ते । किंच हे “ऊर्जा "नपात् अन्नस्य न पातयितः बलस्य पुत्र वा "अभिष्टये अभीच्छते मह्यमन्नं प्रयच्छेति शेषः । “पाहि । अस्मानापद्यो रक्ष । "स्वस्तये क्षेमाय पश्वादिलक्षणस्य धनस्य क्षेमार्थं “शग्धि त्वां याचे ॥ व्यत्ययेन मध्यमः ॥ शक्तो भवेति वा । हे अग्ने “उत अपि च "पृत्सु पृतनासु “नो “वृधे समृद्धये “एधि भव ॥ ॥ ९ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१७&oldid=209103" इत्यस्माद् पुनः प्राप्तिः