ऋग्वेदः सूक्तं ५.७५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.७४ ऋग्वेदः - मण्डल ५
सूक्तं ५.७५
अवस्युरात्रेयः
सूक्तं ५.७६ →
दे. अश्विनौ। पङ्क्तिः।


प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
स्तोता वामश्विनावृषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥१॥
अत्यायातमश्विना तिरो विश्वा अहं सना ।
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥२॥
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥३॥
सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता ।
उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥४॥
बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम् ॥५॥
आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः ।
वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् ॥६॥
अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥७॥
अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती ।
अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥८॥
अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।
अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥९॥

सायणभाष्यम्

'प्रति प्रियतमम्' इति नवर्चं तृतीयं सूक्तम् । अवस्युर्नामात्रेय ऋषिः । पङ्क्तिश्छन्दः । अश्विनौ देवता । अनुक्रान्तं च - ’प्रति नवावस्युः पाङ्क्तम्' इति । प्रातरनुवाके आश्विने क्रतौ पाङ्क्ते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । ‘प्रति प्रियतममिति पाङ्क्तम् ' ( आश्व. श्रौ. ४. १५ ) इति हि सूत्रितम् ॥


प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नं ।

स्तो॒ता वा॑मश्विना॒वृषिः॒ स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥१

प्रति॑ । प्रि॒यऽत॑मम् । रथ॑म् । वृष॑णम् । व॒सु॒ऽवाह॑नम् ।

स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः॑ । स्तोमे॑न । प्रति॑ । भू॒ष॒ति॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥१

प्रति । प्रियऽतमम् । रथम् । वृषणम् । वसुऽवाहनम् ।

स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेन । प्रति । भूषति । माध्वी इति । मम । श्रुतम् । हवम् ॥१

हे “अश्विनौ । एकः प्रतिशब्दोऽनुवादः । “वां युवयोः “प्रियतमं “रथं “स्तोता “ऋषिः अवस्युः “स्तोमेन “प्रति “भूषति अलंकरोति । कीदृशं रथम् । “वृषणं वर्षितारं फलानां “वसुवाहनं धनानां वाहकम् । ईदृशं रथमागमनाय स्तौतीत्यर्थः । तस्मात् हे “माध्वी मधुविद्यावेदितारौ “मस “हवम् आह्वानं “श्रुतं शृणुतम् ॥


अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ ।

दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिंधु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥२

अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ ।

दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥२

अतिऽआयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना ।

दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । सुऽसुम्ना । सिन्धुऽवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥२

हे “अश्विना “अत्यायातम् । सर्वान् यजमानान् अतिक्रम्यागच्छतम् । यथा “अहम् ऋषिः “विश्वाः सर्वा अस्मद्विरोधिप्रजाः “सना सदा तिरस्करोमि । अथवाहं तिरः । ‘तिरः सत इति प्राप्तस्य ' ( निरु. ३. २० ) इति निरुक्तम् । प्राप्ता विश्वाः सर्वाः क्रिया युष्मदीयाः अनुतिष्ठेयमित्यर्थः । सना सनातनौ “दस्रा शत्रूणामुपक्षपयितारौ “हिरण्यवर्तनी हिरण्यरथौ “सुषुम्ना सुधनौ “सिन्धुवाहसा नदीनां प्रवाहयितारौ वृष्टिप्रेरणेन । तादृशौ युवामत्यायातम् ॥


आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वं ।

रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥३

आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।

रुद्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥३

आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् ।

रुद्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीऽवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥३

हे “अश्विना "नः अस्मभ्यं “रत्नानि रमणीयानि धनानि “बिभ्रतौ धारयन्तौ “युवं युवां नोऽस्मान् वा “आ “गच्छतम् । हे “रुद्रा रुद्रपुत्रौ स्तुत्यौ वा हे “वाजिनीवसू वाजिनधनौ युवां “हिरण्यवर्तनी हिरण्यरथौ “जुषाणा यज्ञं सेवमानौ सन्तौ आ गच्छतमिति । माध्वी इत्यादि गतम् ॥


सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता ।

उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥४

सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आऽहि॑ता ।

उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥४

सुऽस्तुभः । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथे । वाणीची । आऽहिता ।

उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥४

हे “वृषण्वसू वर्षधनौ वर्षितारौ वा वसूनां हे अश्विनौ "सुष्टुभः सुस्तोतुर्मम “वाणीची वाग्रूपा स्तुतिः "वां युवयोः “रथे "आहिता स्थापिता । अस्माभिः कृतेत्यर्थः । “उत अपि च “वां युवाभ्यां “ककुहः महान् “मृगः मृगयिता “वापुषः वपुष्मान् यजमानः “पृक्षः अन्नं हविः “कृणोति करोति । तस्मात् “मम “हवं “श्रुतम् इति ॥


बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ ।

विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥५

बो॒धित्ऽम॑नसा । र॒थ्या॑ । इ॒षि॒रा । ह॒व॒न॒ऽश्रुता॑ ।

विऽभिः॑ । च्यवा॑नम् । अ॒श्वि॒ना॒ । नि । या॒थः॒ । अद्व॑याविनम् । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥५

बोधित्ऽमनसा । रथ्या । इषिरा । हवनऽश्रुता ।

विऽभिः । च्यवानम् । अश्विना । नि । याथः । अद्वयाविनम् । माध्वी इति । मम । श्रुतम् । हवम् ॥५

हे “अश्विना "बोधिन्मनसा बुध्यमानमनस्कौ “रथ्या रथस्वामिनौ "इषिरा शीघ्रगन्तारौ सर्वैर्गन्तव्यौ वा “हवनश्रुता हवनस्य स्तुतेः श्रोतारौ युवां “विभिः अश्वैः “च्यवानम् ऋषिम् “अद्वयाविनं मायारहितं “नि “याथः । यथा तमृषिं प्राप्तवन्तौ तद्वत् मां प्रति पथि नि याथः नितरामागच्छतम् ।' प्र च्यवानाज्जुजुरुषो वव्रिम् ' ( ऋ. सं. ५. ७४. ५ ) इति ह्युक्तम् ॥ ॥ १५ ॥


आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः ।

वयो॑ वहंतु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥६

आ । वा॒म् । न॒रा॒ । म॒नः॒ऽयुजः॑ । अश्वा॑सः । प्रु॒षि॒तऽप्स॑वः ।

वयः॑ । व॒ह॒न्तु॒ । पी॒तये॑ । स॒ह । सु॒म्नेभिः॑ । अ॒श्वि॒ना॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥६

आ । वाम् । नरा । मनःऽयुजः । अश्वासः । प्रुषितऽप्सवः ।

वयः । वहन्तु । पीतये । सह । सुम्नेभिः । अश्विना । माध्वी इति । मम । श्रुतम् । हवम् ॥६

हे नरा कर्मणां नेतारौ हे "अश्विना अश्विनौ “वां युवां “मनोयुजः मनोमात्रेण युज्यमानाः । सुशिक्षिता इत्यर्थः । “प्रुषितप्सवः विचित्ररूपाः “वयः शीघ्रगन्तारः “अश्वासः अश्वाः "आ “वहन्तु “पीतये सोमपानाय । “सुम्नेभिः “सह अस्मभ्यं देयैः सुखैस्तत्साधनैर्धनादिभिर्वा सह वहन्तु ॥


अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।

ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥७

अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।

ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥७

अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।

तिरः । चित् । अर्यऽया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥७

हे "अश्विनौ "इह अस्मिन् यज्ञे “आ “गच्छतम् । हे "नासत्या “मा “वि “वेनतं विगतकामौ मा भवतम् । “ वेनतिः कान्तिकर्मा ' ( नि, १०. ३८)। हे “अदाभ्या अहिंस्यौ पूज्यौ “अर्यया अर्यौ स्वामिनौ युवाम् ॥ ‘सुपां सुलुक्' इत्यादिना सुपो याजादेशः ॥ “तिरश्चित् अन्तर्हितात् दूरदेशादपि युवां “वर्तिः अस्मद्यज्ञगृहं “परि “यातम् आगच्छतम् ॥


अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती ।

अ॒व॒स्युम॑श्विना यु॒वं गृ॒णंत॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥८

अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ ।

अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥८

अस्मिन् । यज्ञे । अदाभ्या । जरितारम् । शुभः । पती इति ।

अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥८

हे “अदाभ्या अहिंस्यौ हे “शुभस्पती उदकस्य स्वामिनौ “अश्विना अश्विनौ “युवं युवाम् “अस्मिन् “यज्ञे “जरितारं स्तोतारम् “अवस्युं “गृणन्तं स्तुवन्तं माम् "उप "भूषथः उपप्राप्नुतम् ॥


अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ ।

अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥९

अभू॑त् । उ॒षाः । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ ।

अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥९

अभूत् । उषाः । रुशत्ऽपशुः । आ । अग्निः । अधायि । ऋत्वियः ।

अयोजि । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथः । दस्रौ । अमर्त्यः । माध्वी इति । मम । श्रुतम् । हवम् ॥९


“उषाः व्युष्टिः “अभूत् । अग्निः च “रुशत्पशुः दीप्तपशुमान् । प्रकाशितहविरित्यर्थः । अथवा पशवः किरणाः । रुशद्रश्मिः सन् “अधायि वेद्यामधीयत अग्निः आहवनीयः “ऋत्वियः ऋतौ काले भवः । हे “वृषण्वसू प्रदत्तधनौ हे “दस्रौ “वां युवयोः "अमर्त्यः अमरणधर्मा ध्रुवः “रथः “अयोजि । अश्वैर्युक्तो भवत्वित्यर्थः ॥ ‘छन्दसि लुङ्लङ्लिटः' इत्यनेकेष्वर्थेषु लुङ् भवति । इह प्रार्थनायाम् । माध्वी इत्यादि गतम् ॥ ॥ १६ ॥

[सम्पाद्यताम्]

टिप्पणी

ऋ. अवस्युः। द्र. ऋ. ५.३१

प्रति

त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे। ऋ. २.१.१५ अयं प्रतीयते यत् सं शब्दः मधुमासस्य प्रतीकः अस्ति, प्रति माधवमासस्य।

लौशम् (प्रति प्रियतमं इति)(ग्रामगेयः)

रायोवाजम् (ऊह्यगानम्)

द्र. प्रतिरथ आत्रेयः (५.४७)

माध्वी मम श्रुतं हवम् इति

द्र पुराणेषु माधव्याः संदर्भाः

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७५&oldid=400193" इत्यस्माद् प्रतिप्राप्तम्