ऋग्वेदः सूक्तं ५.१२
← सूक्तं ५.११ | ऋग्वेदः - मण्डल ५ सूक्तं ५.१२ सुतंभर आत्रेयः। |
सूक्तं ५.१३ → |
दे. अग्निः। त्रिष्टुप् । |
प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।
घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम् ॥१॥
ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः ।
नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥२॥
कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः ।
वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥३॥
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः ।
के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥४॥
सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् ।
अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः ॥५॥
यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः ।
तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥६॥
सायणभाष्यम्
‘ प्राग्नये बृहते ' इति षडृचं द्वादशं सूक्तं सुतंभरस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ प्राग्नये' इत्यनुक्रान्तम् । प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदं सूक्तं विनियुक्तम् । सूत्रितं च-- ‘ प्राग्नये बृहते प्र वेधसे कवये' (आश्व. श्रौ. ४. १३) इति ॥
प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।
घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम् ॥१
प्र । अ॒ग्नये॑ । बृ॒ह॒ते । य॒ज्ञिया॑य । ऋ॒तस्य॑ । वृष्णे॑ । असु॑राय । मन्म॑ ।
घृ॒तम् । न । य॒ज्ञे । आ॒स्ये॑ । सुऽपू॑तम् । गिर॑म् । भ॒रे॒ । वृ॒ष॒भाय॑ । प्र॒ती॒चीम् ॥१
प्र । अग्नये । बृहते । यज्ञियाय । ऋतस्य । वृष्णे । असुराय । मन्म ।
घृतम् । न । यज्ञे । आस्ये । सुऽपूतम् । गिरम् । भरे । वृषभाय । प्रतीचीम् ॥१
“बृहते सामर्थ्यातिशयेन महते “यज्ञियाय यज्ञार्हाय “ऋतस्य उदकस्य “वृष्णे वर्षित्रे ।। ऋतमित्युदकनामसु पाठात् । “असुराय बलवते ॥ असेरौणादिक उरन्प्रत्ययः ॥ “वृषभाय कामानां वर्षित्रे “अग्नये “मन्म ज्ञानसाधनं “प्रतीचीम् अभिमुखीं “गिरं स्तुतिरूपां वाचं “प्र “भरे प्रणयामि । कथमिव । “सुपूतं सम्यक्संस्कृतम् “आस्ये प्रहुतं “यज्ञे “घृतं “न घृतमिव । आस्ये प्रहुतं घृतं यथा प्रीतिकरं भवति तथा प्रीतिकरीं स्तुतिमित्यर्थः ॥
ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः ।
नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्ण॑ः ॥२
ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः ।
न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥२
ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः ।
न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः ॥२
“ऋतं स्तोत्रं हे “चिकित्वः जानन्नग्ने त्वं “ऋतं मया क्रियमाणमिदं स्तोत्रं “चिकिद्धि जानीहि ॥ ‘ कित ज्ञाने '। जुहोत्यादिः । लोटि रूपम् । इत् इति पूरणः । ऋतमिति पदस्य परस्मिन्नामन्त्रिते विद्यमानेऽपि छान्दसत्वात्पराङ्गवद्भावाभावः ॥ किंच “पूर्वीः बह्वीः “ऋतस्य उदकस्य “धाराः सस्यपोषणार्थमुत्पादयितुम् “अनु “तृन्धि मेघाननुविध्य । “सहसा बलेन युक्तः "अहं “यातुं कर्मणां नाशकरीं हिंसां “न “सपामि न स्पृशामि न करोमीति यावत् । “द्वयेन च सत्यानृताभ्यां यत्किंचिदवैदिकं कृत्यं “न सपामि ॥ ‘ षप समवाये' इति धातुः ॥ किंतु "अरुषस्य आरोचमानस्य “वृष्णः कामानां वर्षितुस्तव “ऋतं स्तोत्रमेव सपामि ।।
कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्य॑ः ।
वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥३
कया॑ । नः॒ । अ॒ग्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ । नवे॑दाः । उ॒चथ॑स्य । नव्यः॑ ।
वेद॑ । मे॒ । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति॑म् । स॒नि॒तुः । अ॒स्य । रा॒यः ॥३
कया । नः । अग्ने । ऋतयन् । ऋतेन । भुवः । नवेदाः । उचथस्य । नव्यः ।
वेद । मे । देवः । ऋतुऽपाः । ऋतूनाम् । न । अहम् । पतिम् । सनितुः । अस्य । रायः ॥३
हे “अग्ने “ऋतयन् सर्वप्राणिनां जीवनहेतुकमुदकं कुर्वन् "कया केनापि "ऋतेन सत्येन क्रियमाणेन कर्मणा “नः “उचथस्य अस्मदीयस्य स्तोत्रस्य “नवेदाः ज्ञाता “भुवः भवेः । “नव्यः स्तुत्यः "ऋतूनां “ऋतुपाः । द्वितीयः ऋतुशब्दोऽनुवादकः । “देवः द्योतमानोऽग्निः “मे मां “वेद वेत्तु । “सनितुः भजमानस्य “अस्य मम "रायः पश्वादिलक्षणस्य धनस्य “पतिं स्वामिनं तमग्निम् "अहं “न जानामि ॥ भुवः । ‘ भू सत्तायाम् '। लिङर्थे लेट्यडागमः । उवङादेशः । नवेदाः । न न वेत्तीति वेत्तीत्यस्मिन्नर्थे वर्तते । कथमेतल्लभ्यते । निपातनात् । द्विनञ्पूर्वस्यासुन्प्रत्ययान्तस्य वेदेरेकस्य नञो लोपोऽन्यस्य प्रकृतिभावश्च स्कन्दस्वामिना निपातितः। पाणिनिना तु ‘ नभ्राण्नपात् ' इति सूत्रे न वेत्तीत्येतस्मिन्नर्थे निपातितः । अस्यार्थस्यानुपपन्नत्वात् स्कन्दस्वामिपक्ष एवाश्रीयते ॥
के ते॑ अग्ने रि॒पवे॒ बन्ध॑नास॒ः के पा॒यव॑ः सनिषन्त द्यु॒मन्त॑ः ।
के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥४
के । ते॒ । अ॒ग्ने॒ । रि॒पवे॑ । बन्ध॑नासः । के । पा॒यवः॑ । स॒नि॒ष॒न्त॒ । द्यु॒ऽमन्तः॑ ।
के । धा॒सिम् । अ॒ग्ने॒ । अनृ॑तस्य । पा॒न्ति॒ । के । अस॑तः । वच॑सः । स॒न्ति॒ । गो॒पाः ॥४
के । ते । अग्ने । रिपवे । बन्धनासः । के । पायवः । सनिषन्त । द्युऽमन्तः ।
के । धासिम् । अग्ने । अनृतस्य । पान्ति । के । असतः । वचसः । सन्ति । गोपाः ॥४
हे “अग्ने ये “रिपवे स्वकीयस्य शत्रोः “बन्धनासः बन्धकाः स्युः “ते त्वत्संबन्धिनस्ते पुरुषाः “के कीदृशाः । सामर्थ्यातिशयादेवंविधा इति केनापि ज्ञातुं न शक्यन्त इत्यर्थः । ये “पायवः जनानां रक्षितारः “द्युमन्तः दीप्तिमन्तः “सनिषन्त दीनेभ्यो धनं प्रयच्छन्ति ते त्वदीयाः कीदृशाः । ये “अनृतस्य असत्यस्य “धासिं धारकं जनं "पान्ति रक्षन्ति ते. त्वदीया जनाः “के “सन्ति । न केऽपीत्यर्थः । ये “असतः दुष्टस्याभिशापादिलक्षणस्य “वचसः “गोपाः गोपयितारः रक्षितारस्ते त्वदीयाः “के सन्ति । न केऽपीत्यर्थः । अथवा ये के जना रिपोर्बन्धकाः । ये के पायवो रक्षितारः सनिषन्त धनं प्रयच्छन्ति द्युमन्तः दीप्तिमन्तः । ये केऽनृतस्यासत्यस्य धासिं धारकं जनं पान्ति अनृतजनितपापात् परिहृत्य सन्मार्गप्रदानेन रक्षन्ति । ये केऽसतोऽभिशापादिलक्षणाद्वचसो गोपा गोपायितारः सन्ति ते सर्वे त्वदीयाः । त्वदुपासका: इत्यर्थः ॥
सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वास॒ः सन्तो॒ अशि॑वा अभूवन् ।
अधू॑र्षत स्व॒यमे॒ते वचो॑भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्त॑ः ॥५
सखा॑यः । ते॒ । विषु॑णाः । अ॒ग्ने॒ । ए॒ते । शि॒वासः॑ । सन्तः॑ । अशि॑वाः । अ॒भू॒व॒न् ।
अधू॑र्षत । स्व॒यम् । ए॒ते । वचः॑ऽभिः । ऋ॒जु॒ऽय॒ते । वृ॒जि॒नानि॑ । ब्रु॒वन्तः॑ ॥५
सखायः । ते । विषुणाः । अग्ने । एते । शिवासः । सन्तः । अशिवाः । अभूवन् ।
अधूर्षत । स्वयम् । एते । वचःऽभिः । ऋजुऽयते । वृजिनानि । ब्रुवन्तः ॥५
हे “अग्ने “ते तव “सखायः स्तोतारः “विषुणाः विप्रकीर्णाः सर्वत्र व्याप्ताः “एते पूर्वम् “अशिवाः परनिन्दादीनि कुर्वाणास्त्वत्परिचर्यां त्यजन्तोऽभद्राः “सन्तः इदानीं त्वत्परिचर्याँ कुर्वन्तः “शिवासः शिवा आढ्याः "अभूवन् । किंच ये “ऋजूयते ऋजु सम्यगाचरतेऽपि मह्यं “वचोभिः असाधूक्तिभिः “वृजिनानि कुटिलानि “ब्रुवन्तः ते “एते मम सपत्नाः “स्वयम् एव “अधूर्षत अहिंस्यन्त ॥ धूर्वतेर्हिंसाकर्मण इदं रूपम् ॥
यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्ण॑ः ।
तस्य॒ क्षय॑ः पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेष॑ः ॥६
यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् । ईट्टे॑ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ।
तस्य॑ । क्षयः॑ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒ऽसर्स्रा॑णस्य । नहु॑षस्य । शेषः॑ ॥६
यः । ते । अग्ने । नमसा । यज्ञम् । ईट्टे । ऋतम् । सः । पाति । अरुषस्य । वृष्णः ।
तस्य । क्षयः । पृथुः । आ । साधुः । एतु । प्रऽसर्स्राणस्य । नहुषस्य । शेषः ॥६
हे “अग्ने “यः मनुष्यः “यज्ञं यजनीयं “ते त्वां “नमसा स्तोत्रेण “ईट्टे स्तौति । यद्वा । ते तुभ्यं यज्ञं यागं नमसान्नरूपेण हविषा ईट्टे यजति । अस्मिन् पक्षे यजेः ‘बहुलं छन्दसि' इति शपः श्लुः । ‘ श्लौ ' इति द्विर्वचनम् । ‘ बहुलं छन्दसि ' इति संप्रसारणम् । सवर्णदीर्घः । जकारस्य टकारः ॥ यः "अरुषस्य रोचमानस्य “वृष्णः कामानां वर्षितुरग्नेः “ऋतं स्तोत्रं “पाति रक्षति “तस्य यजमानस्य “क्षयः गृहं “पृथुः विस्तीर्णं भवति । पश्वादिलक्षणैर्धनैः संपूर्णं भवतीत्यर्थः । प्रसर्स्राणस्य प्रकर्षेण त्वत्परिचर्यां गच्छतः ”नहुषस्य मनुष्यस्य “साधुः कामानां साधकः “शेषः । शिष्यत इति शेषः । पुत्रः “आ “एतु आगच्छतु भवत्वित्यर्थः ॥ ॥ ४ ॥
मण्डल ५ | ||||
---|---|---|---|---|