ऋग्वेदः सूक्तं ५.३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.२ ऋग्वेदः - मण्डल ५
सूक्तं ५.३
वसुश्रुत आत्रेयः
सूक्तं ५.४ →
दे. अग्निः, ३ मरुद्रुद्रविष्णवः। त्रिष्टुप्, १ विराट्।


त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः ।
त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥१॥
त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि ।
अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥२॥
तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् ।
पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥३॥
तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त ।
होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥४॥
न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः ।
विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥५॥
वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।
वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥६॥
यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात ।
जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥७॥
त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः ।
संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥८॥
अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे ।
कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे ॥९॥
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे ।
कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥१०॥
त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि ।
स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥११॥
इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि ।
नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥१२॥


सायणभाष्यम्

‘त्वमग्ने वरुणः' इति द्वादशर्चं तृतीयं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् ।' त्वमग्ने वसुश्रुतः' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः ‘अबोध्यग्निः' इत्यत्रोक्तः ॥


त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः ।

त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिंद्रो॑ दा॒शुषे॒ मर्त्या॑य ॥१

त्वम् । अ॒ग्ने॒ । वरु॑णः । जाय॑से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।

त्वे इति॑ । विश्वे॑ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः॑ । दा॒शुषे॑ । मर्त्या॑य ॥१

त्वम् । अग्ने । वरुणः । जायसे । यत् । त्वम् । मित्रः । भवसि । यत् । सम्ऽइद्धः ।

त्वे इति । विश्वे । सहसः । पुत्र । देवाः । त्वम् । इन्द्रः । दाशुषे । मर्त्याय ॥१

हे अग्ने “त्वं वरुणः तमसां वारको रात्र्यभिमानी देवोऽपि त्वमेव “यत् यदा “जायसे । किंच “त्वं “मित्रः अहरभिमानी देवः प्रमीतेस्त्राता “यत् यदा समिद्धः । त्वमुत्पन्नमात्रः सन् तमो निवारयसि प्रवृद्धः सन् हितकारी भवसीत्यर्थः । “त्वे त्वयि “विश्वे सर्वेऽपि “देवाः वर्तन्ते । त्वद्दत्तेन हविषा तेषां जीवनात् ।' ते देवा बिभ्यतोऽग्निं प्राविशन्' (तै. सं. ६. २. २. ६) इति हि श्रुतेः। हे सहसस्पुत्र बलेन मथ्यमानत्वात् । किंच “त्वम् “इन्द्रः स्वामी “दाशुषे हविर्दात्रे “मर्त्याय यजमानाय ॥


त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि ।

अं॒जंति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दंप॑ती॒ सम॑नसा कृ॒णोषि॑ ॥२

त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना॑म् । नाम॑ । स्व॒धा॒ऽव॒न् । गुह्य॑म् । बि॒भ॒र्षि॒ ।

अ॒ञ्जन्ति॑ । मि॒त्रम् । सुऽधि॑तम् । न । गोभिः॑ । यत् । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । कृ॒णोषि॑ ॥२

त्वम् । अर्यमा । भवसि । यत् । कनीनाम् । नाम । स्वधाऽवन् । गुह्यम् । बिभर्षि ।

अञ्जन्ति । मित्रम् । सुऽधितम् । न । गोभिः । यत् । दम्पती इति दम्ऽपती । सऽमनसा । कृणोषि ॥२

हे अग्ने “त्वमर्यमा “भवसि । सर्वेषां नियमितासि । “यत् यदा “कनीनां कन्यकानां संबन्ध्यसि । किंच हे “स्वधावन् हविर्लक्षणान्नवन् “गुह्यं गोपनीयं नाम “बिभर्षि वैश्वानर इति तन्नाम । “सुधितं सुष्ठु निहितं “मित्रं न मित्रमिव त्वां “गोभिः । विकारे प्रकृतिशब्दः । गोविकारैः क्षीरादिभिः “अञ्जन्ति । “यत् यस्मात् “दम्पती जायापती “समनसा समानमनस्कौ “कृणोषि करोषि ॥


तव॑ श्रि॒ये म॒रुतो॑ मर्जयंत॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रं ।

प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोनां॑ ॥३

तव॑ । श्रि॒ये । म॒रुतः॑ । म॒र्ज॒य॒न्त॒ । रुद्र॑ । यत् । ते॒ । जनि॑म । चारु॑ । चि॒त्रम् ।

प॒दम् । यत् । विष्णोः॑ । उ॒प॒ऽमम् । नि॒ऽधायि॑ । तेन॑ । पा॒सि॒ । गुह्य॑म् । नाम॑ । गोना॑म् ॥३

तव । श्रिये । मरुतः । मर्जयन्त । रुद्र । यत् । ते । जनिम । चारु । चित्रम् ।

पदम् । यत् । विष्णोः । उपऽमम् । निऽधायि । तेन । पासि । गुह्यम् । नाम । गोनाम् ॥३

अनयाग्नेर्माध्यमिकी मूर्तिरुच्यते । हे अग्ने तव “श्रिये श्रयणाय "मरुतः अपः अन्तरिक्ष्याः “मर्जयन्त मार्जयन्ति । हे "रुद्र वृष्ट्या रुद्रवद्वर्धितरने “ते तव “यत् "जनिम जन्म वैद्युतलक्षणं “चारु चरणीयं “चित्रं चायनीयं च । तत्कथमिति चेदुच्यते । विष्णोः व्यापनशीलस्य देवस्य “उपमं “गुह्यम् अगम्यं “यत् “पदं “निधायि । अनेनान्तरिक्षमुक्तम् । उपमेयमिव विष्णोर्मध्यमं पदं तस्मानान्तरिक्षं पश्यन्ति' इति ब्राह्मणम् । “तेन “गोनाम् उदकानां “गुह्यं “नाम नामानि “पासि रक्षसि ॥


तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपंत ।

होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यंत॑ उ॒शिजः॒ शंस॑मा॒योः ॥४

तव॑ । श्रि॒या । सु॒ऽदृशः॑ । दे॒व॒ । दे॒वाः । पु॒रु । दधा॑नाः । अ॒मृत॑म् । स॒प॒न्त॒ ।

होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । द॒श॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥४

तव । श्रिया । सुऽदृशः । देव । देवाः । पुरु । दधानाः । अमृतम् । सपन्त ।

होतारम् । अग्निम् । मनुषः । नि । सेदुः । दशस्यन्तः । उशिजः । शंसम् । आयोः ॥४

हे “देव अग्ने “सुदृशः “तव “श्रिया समृद्ध्या “देवाः इन्द्रादयः “पुरु अत्यधिकं “दधानाः त्वयि प्रीतिं धारयन्तः "अमृतं “सपन्त स्पृशन्ति । "होतारं होमनिष्पादकम् “अग्निं "मनुषः मनुष्याः “नि “षेदुः परिचरन्ति ऋत्विजः । किं कुर्वन्तः । “दशस्यन्तः हविर्वितरन्तः “शंसं फलम् "उशिजः कामयमानस्य “आयोः मनुष्यस्य यजमानस्यार्थम् ॥


न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यैः॑ प॒रो अ॑स्ति स्वधावः ।

वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥५

न । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । न । काव्यैः॑ । प॒रः । अ॒स्ति॒ । स्व॒धा॒ऽवः॒ ।

वि॒शः । च॒ । यस्याः॑ । अति॑थिः । भवा॑सि । सः । य॒ज्ञेन॑ । व॒न॒व॒त् । दे॒व॒ । मर्ता॑न् ॥५

न । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । न । काव्यैः । परः । अस्ति । स्वधाऽवः ।

विशः । च । यस्याः । अतिथिः । भवासि । सः । यज्ञेन । वनवत् । देव । मर्तान् ॥५

हे “अग्ने “त्वत् त्वत्तोऽन्यः “न “अस्ति “होता “पूर्वः पूरकः पुराणो वा "यजीयान् यष्टा वा । “काव्यैः स्तोत्रैः स्तुत्यः “परः परस्तात् परस्मिन्नपि काले “न अस्ति । हे “देव हे "स्वधावः अन्नवन् “यस्याः “विशः प्रजाया ऋत्विग्रूपायाः "अतिथिः "भवासि-अतिथिवत्पूज्यः भवसि । “सः “यज्ञेन “मर्तान् अस्मद्वेष्टॄन “वनवत् वृश्चति हिनस्ति । यद्वा । मर्तान् परिचारकान् वनवत् संभजेत् ॥


व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः ।

व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥६

व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । व॒सु॒ऽयवः॑ । ह॒विषा॑ । बुध्य॑मानाः ।

व॒यम् । स॒ऽम॒र्ये । वि॒दथे॑षु । अह्ना॑म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता॑न् ॥६

वयम् । अग्ने । वनुयाम । त्वाऽऊताः । वसुऽयवः । हविषा । बुध्यमानाः ।

वयम् । सऽमर्ये । विदथेषु । अह्नाम् । वयम् । राया । सहसः । पुत्र । मर्तान् ॥६

हे अग्ने "वयं यजमानाः “त्वोतः त्वया रक्षिताः सन्तः “वनुयाम । शत्रून् पीडयाम संभजेमहि वा धनम् । कीदृशा वयम् । “वसूयवः वसुकामाः “हविषा त्वां “बुध्यमानाः बोधयन्तः “वयं समर्ये समरणे जयेम शत्रूनिति शेषः । “विदथेषु यागेषु प्राप्नुयाम बलम् । यद्वा । वनुयामेत्येतदनुषज्यते । “अह्रां सर्वेष्वहःसु । किंच “वयं हे "सहसस्पुत्र बलस्य पुत्र पालक वाग्ने "राया धनेन सह “मर्तान पुत्रभृत्यादीन् लभेमहि ॥ ॥ १६ ॥


यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात ।

ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥७

यः । नः॒ । आगः॑ । अ॒भि । एनः॑ । भरा॑ति । अधि॑ । इत् । अ॒घम् । अ॒घऽशं॑से । द॒धा॒त॒ ।

ज॒हि । चि॒कि॒त्वः॒ । अ॒भिऽश॑स्तिम् । ए॒ताम् । अ॒ग्ने॒ । यः । नः॒ । म॒र्चय॑ति । द्व॒येन॑ ॥७

यः । नः । आगः । अभि । एनः । भराति । अधि । इत् । अघम् । अघऽशंसे । दधात ।

जहि । चिकित्वः । अभिऽशस्तिम् । एताम् । अग्ने । यः । नः । मर्चयति । द्वयेन ॥७

"यः मर्त्यः “आगः अपराधम् “एनः पापं च नः अस्मभ्यम् “अभि “भराति अभितः करोति । तस्मिन् "अघशंसे “अघं पापम् “अधि “दधात ददात्वग्निः । इत् इति पूरणः । आगोऽपराधं यो मह्यमिदं करोति तस्मा एवाग्निस्तत्करोत्वित्यर्थः। अथ प्रत्यक्षेणोच्यते । हे “अग्ने “एताम् अभिशस्तिं “जहि । उत्तरत्र यच्छब्दश्रवणात्तदानुगुण्येनैनमभिशंसकमिति व्याख्येयम् । यः अभिशस्ता “नः अस्मान् “द्वयेन उक्तेन आगसा एनसा वा “मर्चयति बाधते । तमिति ॥


त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजंत ह॒व्यैः ।

सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥८

त्वाम् । अ॒स्याः । वि॒ऽउषि॑ । दे॒व॒ । पूर्वे॑ । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । ह॒व्यैः ।

स॒म्ऽस्थे । यत् । अ॒ग्ने॒ । ईय॑से । र॒यी॒णाम् । दे॒वः । मर्तैः॑ । वसु॑ऽभिः । इ॒ध्यमा॑नः ॥८

त्वाम् । अस्याः । विऽउषि । देव । पूर्वे । दूतम् । कृण्वानाः । अयजन्त । हव्यैः ।

सम्ऽस्थे । यत् । अग्ने । ईयसे । रयीणाम् । देवः । मर्तैः । वसुऽभिः । इध्यमानः ॥८

हे अग्ने “त्वामस्याः रात्रेः “व्युषि । व्युष्टायामुषसीत्यर्थः । “पूर्वे पुरातना यजमानाः “दूतं देवानां प्रेरकं “कृण्वानाः कुर्वाणाः “अयजन्त “हव्यैः हर्विभिः साधनैः “रयीणां हविर्लक्षणानां “संस्थे संस्थाने आसादने सति हे "अग्ने “यत् यदा “ईयसे गच्छसि। “देवः द्योतमानः “मर्तैः मनुष्यैर्ऋत्विग्भिः “वसुभिः वासकैः “इध्यमानः समिध्यमानः सन् ॥


अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे ।

क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥९

अव॑ । स्पृ॒धि॒ । पि॒तर॑म् । योधि॑ । वि॒द्वान् । पु॒त्रः । यः । ते॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । ऊ॒हे ।

क॒दा । चि॒कि॒त्वः॒ । अ॒भि । च॒क्ष॒से॒ । नः॒ । अ॒ग्ने॒ । क॒दा । ऋ॒त॒ऽचित् । या॒त॒या॒से॒ ॥९

अव । स्पृधि । पितरम् । योधि । विद्वान् । पुत्रः । यः । ते । सहसः । सूनो इति । ऊहे ।

कदा । चिकित्वः । अभि । चक्षसे । नः । अग्ने । कदा । ऋतऽचित् । यातयासे ॥९

हे “सहसः सूनो बलस्य पुत्राग्ने त्वम् “अव “स्पृधि पारय । "योधि पृथक्कुरु पापात् । “यः “पुत्रः पुत्रस्थानीयः तव यो यजमानः “ते त्वां “पितरं पालकं पितृभूतं “विद्वान् जानन “ऊहे वहति हविः । तमेवं कुरु इत्यृषिरात्मानं परोक्षेणाह । ‘ हव्यवाळग्निरजरः पिता नः' (ऋ. सं. ५. ४. २) इति हि वक्ष्यति । यद्वा । पितृपुत्रभावो व्यत्यस्तः । पितरं पितृवद्रक्षकं यजमानमव स्पृधि योधि च यस्त्वं पुत्रः पुत्रवत्सदा रक्षणीयः । त्वं पुत्रो भवसि यस्तेऽविधत् ' (ऋ. सं. २. १. ९) इति हि श्रुतिः । हे चिकित्वः चेतनावन् अग्ने "कदा “नः अस्मान् “अभि “चक्षसे अभिपश्यसि । “कदा च “ऋतचित् यज्ञस्योदकस्य वा चेतयिता “यातयासे प्रेरयसि सन्मार्गेण


भूरि॒ नाम॒ वंद॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से ।

कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥१०

भूरि॑ । नाम॑ । वन्द॑मानः । द॒धा॒ति॒ । पि॒ता । व॒सो॒ इति॑ । यदि॑ । तत् । जो॒षया॑से ।

कु॒वित् । दे॒वस्य॑ । सह॑सा । च॒का॒नः । सु॒म्नम् । अ॒ग्निः । व॒न॒ते॒ । व॒वृ॒धा॒नः ॥१०

भूरि । नाम । वन्दमानः । दधाति । पिता । वसो इति । यदि । तत् । जोषयासे ।

कुवित् । देवस्य । सहसा । चकानः । सुम्नम् । अग्निः । वनते । ववृधानः ॥१०

“भूरि प्रभूतं “नाम त्वदीयं नाम “वन्दमानः सन् “दधाति धारयति । सामर्थ्याद्धविः । अथवा नामकं हविः प्रभूतं धारयति दातुम् । “पिता पालकस्त्वं हे “वसो वासकाग्ने "यदि “तत् हविः “जोषयासे सेवसे । “देवस्य व्यवहर्तुर्यजमानस्य “कुवित् बहु हविः “सहसा बलेन युक्तः सन् “चकानः कामयमानः । यद्वा कर्मणि षष्ठी । देवं यजमानं कामयमानः "अग्निः "ववृधानः वर्धमानो यजमानं वर्धयन् वा “सुम्नं “वनते प्रयच्छति ॥


त्वमं॒ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि ।

स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥११

त्वम् । अ॒ङ्ग । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । विश्वा॑नि । अ॒ग्ने॒ । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।

स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः॑ । जना॑सः । अज्ञा॑तऽकेताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥११

त्वम् । अङ्ग । जरितारम् । यविष्ठ । विश्वानि । अग्ने । दुःऽइता । अति । पर्षि ।

स्तेनाः । अदृश्रन् । रिपवः । जनासः । अज्ञातऽकेताः । वृजिनाः । अभूवन् ॥११

हे “अङ्ग स्वामिन् “यविष्ठ युवतम “अग्ने “जरितारं स्तोतारम् अनुग्रहीतुं “विश्वानि “दुरिता दुरितानि “अति “पर्षि अतिपारयसि । “स्तेनाः तस्कराः “अदृश्रन् दृश्यन्ते । "रिपवो "जनासः शत्रुभूता मनुष्याः "अज्ञातकेताः अज्ञातचिह्नाः “वृजिनाः अस्माभिर्वर्जिताः “अभूवन् भवन्ति ॥


इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि ।

नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥१२

इ॒मे । यामा॑सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस॑वे । वा॒ । तत् । इत् । आगः॑ । अ॒वा॒चि॒ ।

न । अह॑ । अ॒यम् । अ॒ग्निः । अ॒भिऽश॑स्तये । नः॒ । न । रिष॑ते । व॒वृ॒धा॒नः । परा॑ । दा॒त् ॥१२

इमे । यामासः । त्वद्रिक् । अभूवन् । वसवे । वा । तत् । इत् । आगः । अवाचि ।

न । अह । अयम् । अग्निः । अभिऽशस्तये । नः । न । रिषते । ववृधानः । परा । दात् ॥१२

"इमे “यामासः गन्तारः स्तोमाः “त्वद्रिक् त्वदभिमुखाः "अभूवन् भवन्ति । “वा अथवा “वसवे वासकाय “तत् “आगः अपराधमाशासनरूपम “अवाचि उक्तवानहमग्निम्। इदं देहीति याचनमेवापराधः । “इत् इति पूरणः । यद्वा । तदिदं वक्ष्यमाणं शत्रुभिः कृतमागोऽवाचि। किंच "अयमग्निः “ववृधानः स्तुत्या वर्धमानः सन् “नाह नैव अभिशस्तये निन्दकाय नः अस्मान् “परा “दात् परादद्यात् । तथा “रिषते हिंसकाय नैव परा दात् ॥ ॥ १७ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३&oldid=209171" इत्यस्माद् पुनः प्राप्तिः