सामग्री पर जाएँ

ऋग्वेदः सूक्तं ५.९

विकिस्रोतः तः
← सूक्तं ५.८ ऋग्वेदः - मण्डल ५
सूक्तं ५.९
गय आत्रेयः।
सूक्तं ५.१० →
दे. अग्निः। अनुष्टुप्, ५, ७ पङ्क्तिः।


त्वामग्ने हविष्मन्तो देवं मर्तास ईळते ।
मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक् ॥१॥
अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः ।
सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥२॥
उत स्म यं शिशुं यथा नवं जनिष्टारणी ।
धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥३॥
उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् ।
पुरू यो दग्धासि वनाग्ने पशुर्न यवसे ॥४॥
अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः ।
यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥५॥
तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः ।
द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥६॥
तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।
स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥७॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

पञ्चमे मण्डले प्रथमेऽनुवाके पूर्वमष्टौ सूक्तानि व्याख्यातानि । 'त्वामग्ने हविष्मन्तः' इति सप्तर्चं नवमं सूक्तम् आत्रेयस्य गयस्यार्षम् । सप्तमीपञ्चम्यौ पङ्क्ती शिष्टाः अनुष्टुभः । अग्निर्देवता । तथा चानुक्रम्यते -- त्वामग्ने गयोऽन्त्यापञ्चम्यौ पङ्क्ती ' इति । प्रातरनुवाके आश्विनशस्त्रे च एतदादिके द्वे सूक्ते शंसनीये । तथैव सूत्रितं -- त्वामग्ने हविष्मन्त इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति ॥


त्वाम॑ग्ने ह॒विष्म॑न्तो दे॒वं मर्ता॑स ईळते ।

मन्ये॑ त्वा जा॒तवे॑दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ॥१

त्वाम् । अ॒ग्ने॒ । ह॒विष्म॑न्तः । दे॒वम् । मर्ता॑सः । ई॒ळ॒ते॒ ।

मन्ये॑ । त्वा॒ । जा॒तऽवे॑दसम् । सः । ह॒व्या । व॒क्षि॒ । आ॒नु॒षक् ॥१

त्वाम् । अग्ने । हविष्मन्तः । देवम् । मर्तासः । ईळते ।

मन्ये । त्वा । जातऽवेदसम् । सः । हव्या । वक्षि । आनुषक् ॥१

हे “अग्ने “त्वां देवं दीप्यमानं “हविष्मन्तः होमसाधनद्रव्यसमेताः “मर्तासः मर्त्याः “ईळते स्तुवन्ति । अहं च "जातवेदसम् । जातमुत्पन्नं चराचरं भूतजातं वेत्तीति जातवेदाः । अथवा जातानि स्थावरजङ्गमात्मकानि एनं विदुरिति जातवेदाः । यद्वा । वेद इति धननाम । जातं सर्वं वेदो धनं यस्यासौ जातवेदाः । एवंविधं “त्वा त्वां मन्ये स्तौमि । मनिरत्र स्तुत्यर्थे वर्तते धातूनामनेकार्थत्वात्। “सः त्वं "हव्या हवनसाधनानि हवींषि “आनुषक् निरन्तरतया अनुषक्तं यथा तथा “वक्षि वहसि ॥ हविष्मन्तः । हविःशब्दः औणादिकइस्प्रत्ययान्तः । प्रत्ययस्वरेणान्तोदात्तः । ‘ तदस्यास्ति' इति मतुप् । पदसंज्ञाया अपवादत्वेन ‘ तसौ मत्वर्थे ' इति भसंज्ञायां रुत्वाभावः । मतुब्जसोरनुदात्तत्वात् प्रत्ययस्वर एव शिष्यते । देवम् । अच्प्रत्ययान्तत्वात् देवशब्दोऽन्तोदात्तः । मर्तासः । ‘ मृङ् प्राणत्यागे'। ' असिहसिमृङ् ' इत्यादिना तन् । गुणः । मर्तः । जसेरसुक् । मर्तासः । नित्त्वादाद्युदात्तः । ईळते। 'ईड स्तुतौ'। अदादित्वाच्छपो लुक्। आत्मनेपदेष्वनतः '। टेरेत्वम् । अत्र डकारस्य अध्येतृसंप्रदायप्राप्तो लकारः । लसार्वधातुकानुदात्तत्वेन धातुस्वरे प्राप्ते आष्टमिको निघातः । मन्ये । श्यनो नित्त्वात् आद्युदात्तत्वम् । त्वा ।' युषि मिश्रणे'। मदिक्प्रत्ययान्तो युष्मच्छब्दः प्रत्ययस्वरेणान्तोदात्तः । त्वमावेकवचने ' इति मपर्यन्तस्य त्वादेशः । ‘ द्वितीयायां च' ( पा. सू. ७. २. ८७ ) इत्याकारः। “एकादेश उदात्तेनोदात्तः' इत्येकादेशोऽप्युदात्त एव । त्वामौ द्वितीयायाः' इति त्वादेशः । स्थानिवद्भावेनान्तोदात्तत्वे प्राप्ते ‘ अनुदात्तं सर्वमपादादौ ' इत्यनुदात्तत्वम् । जातवेदसम् । “जनी प्रादुर्भावे' । क्तः । ‘ श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ‘ जनसनखनां सञ्झलोः' इत्यात्वम् । प्रत्ययस्वरेणान्तोदात्तः । वेदस्शब्दोऽपि असुन्प्रत्ययान्तत्वात् आद्युदात्तः । कर्मधारयपक्षे समासान्तोदात्तापवादत्वेन ‘ तत्पुरुषे तुल्यार्थ° ' इत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते कृदुत्तरपदप्रकृतिस्वरत्वम् । तदपवादत्वेन ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति पूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहिपक्षे ' बहुव्रीहौ प्रकृत्या पूर्वपदम्' इति । हव्या । हवमर्हतीत्यस्मिन्नर्थे ‘यः' इत्यनुवर्तमाने 'छन्दसि च ' इति यः । नपुंसकत्वाच्छिरादेशः । ‘ शेश्छन्दसि बहुलम्' इति लोपः । प्रत्ययलक्षणेन नुम् । दीर्घनलोपौ । प्रत्ययस्वरेणान्तोदात्तः । वक्षि ।' वह प्रपणे'। सिप्। लुगनुवृत्तौ ‘ बहुलं छन्दसि ' इति शपो लुक् । ढत्वकत्वषत्वानि । सिपः पित्त्वादनुदात्तत्वेन धातुस्वरेण आद्युदात्तत्वे प्राप्ते निघातः । आनुषक् । अनुपूर्वस्य षञ्जेः क्विप् नकारलोपः कुत्वं च । धात्वादेः सकारस्य ' उपसर्गात्सुनोति°' इत्यादिना षत्वम् । दीर्घश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


अ॒ग्निर्होता॒ दास्व॑त॒ः क्षय॑स्य वृ॒क्तब॑र्हिषः ।

सं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रव॒स्यव॑ः ॥२

अ॒ग्निः । होता॑ । दास्व॑तः । क्षय॑स्य । वृ॒क्तऽब॑र्हिषः ।

सम् । य॒ज्ञासः॑ । चर॑न्ति । यम् । सम् । वाजा॑सः । श्र॒व॒स्यवः॑ ॥२

अग्निः । होता । दास्वतः । क्षयस्य । वृक्तऽबर्हिषः ।

सम् । यज्ञासः । चरन्ति । यम् । सम् । वाजासः । श्रवस्यवः ॥२

“यम् अग्निं “यज्ञासः सर्वे यज्ञाः “सं “चरन्ति सहिता गच्छन्ति । “श्रवस्यवः यजमानस्य प्रभूतां कीर्तिं संपादयन्तः “वाजासः हवींषि यमग्निं “सं चरन्ति प्राप्नुवन्ति । एवंविशिष्टः “अग्निः “दास्वतः हविष्प्रक्षेपणादिदानवतः “वृक्तबर्हिषः। वृक्तानि लूनानि बर्हींषि दर्भा येनासौ वृक्तबर्हिः । तस्य “क्षयस्य । क्षियन्ति निवसन्त्यस्मिन् स्वर्गसाधनफलानीति क्षयः । तस्य यजमानस्य यागार्थं “होता देवानामाह्वाता भवति ॥ दास्वतः । ‘दा दाने '। असुन्प्रत्ययान्तः । मतुपः आदुपधत्वात् वत्वम् । धातुस्वरेणाद्युदात्त एव। क्षयस्य । ‘क्षि निवासगत्योः'। 'क्षयो निवासे ' इत्याद्युदात्तत्वम् । वृक्तबर्हिषः । ‘ वृजी वर्जने '। वर्जनम् अत्रोपचारात् छेदनम् । निष्ठा । प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । यज्ञासः । यज्ञशब्दः ‘यजयाच°' इत्यादिना नड्प्रत्ययान्तः अन्तोदात्तः । चरन्ति । ‘चर गतिभक्षणयोः'। अदुपदेशाल्लसार्वधातुकानुदात्तत्वम् ।' यद्वृत्तान्नित्यम्' इति निघाताभावः । वाजासः । वजेर्घञ् । वाजः । ‘कर्षात्वतः° ' इत्यन्तोदात्तत्वम्। छान्दसत्वात् ‘ ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तः । श्रवस्यवः । ‘ छन्दसि परेच्छायाम्' इति क्यच् । 'क्याच्छन्दसि' इत्युप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः ॥


उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑ ।

ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥३

उ॒त । स्म॒ । यम् । शिशु॑म् । य॒था॒ । नव॑म् । जनि॑ष्ट । अ॒रणी॒ इति॑ ।

ध॒र्तार॑म् । मानु॑षीणाम् । वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥३

उत । स्म । यम् । शिशुम् । यथा । नवम् । जनिष्ट । अरणी इति ।

धर्तारम् । मानुषीणाम् । विशाम् । अग्निम् । सुऽअध्वरम् ॥३

“उत "स्म अपि च “मानुषीणां मनोर्जातानां “विशाम् । विशन्ति प्रविशन्ति गर्भाशयमिति विशः प्रजाः । तासां “धर्तारम् आहारादिपाकद्वारेण शरीरधातूनां पोषकं “स्वध्वरं शोभनयज्ञं “यम् “अग्निम् “अरणी द्वे अरणी “नवं नूतनं “शिशुं “यथा अपत्यमिव "जनिष्ट अजनिषाताम् । अरणी प्रजानां पोषणार्थं चैतमग्निम् असृजतामित्यर्थः ॥ शिशुम् ।' शो तनूकरणे '। ‘आदेचः' इत्यादिना आत्वम् । ‘ शः कित् सन्वञ्च ' इत्युप्रत्ययः सन्वद्भावश्च । द्विर्भावोऽभ्यासस्य ह्रस्वश्च । ‘ सन्यतः ' इतीत्वम् । ‘ आतो धातोः ' इत्याकारलोपः । नित्त्वादाद्युदात्तः । यथा । 'यथेति पादान्ते' इति सर्वानुदात्तः । जनिष्ट । जनी प्रादुर्भावे'। लुङ् । छन्दसत्वाद्वचनव्यत्ययः । अरणी । ‘ ऋ गतौ'।' अर्तिसृभृधृधम्यश्यवितॄभ्योऽनिः' इति अनिप्रत्ययः आद्युदात्तः। आभ्यामतिं गच्छत्यग्निरित्यरणी । कथमपादानार्थे औणादिकोऽनिः । ‘ ताभ्यामन्यत्रोणादयः ' (पा. सू. ३. ४. ७५ ) इति नियमात् भीमादित्वात् सिद्धम् । “मानुषीणाम् । “ मनोर्जातावञ्यतौ षुक्च' इति अञ्प्रत्ययः षुगागमश्च । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । विशाम् । विश प्रवेशने'। कर्तरि क्विप्। सावेकाचः' इति विभक्तेः उदात्तत्वम् । स्वध्वरम् । हिंसार्थस्य ध्वरतेः पचाद्यच् । न विद्यते ध्वरो यागहिंसा यस्मिन्नित्यध्वरः । बहुव्रीहिस्वरापवादत्वेन ‘ नञ्सुभ्याम् ' इत्यन्तोदात्तः ॥


उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा॑म् ।

पु॒रू यो दग्धासि॒ वनाग्ने॑ प॒शुर्न यव॑से ॥४

उ॒त । स्म॒ । दुः॒ऽगृ॒भी॒य॒से॒ । पु॒त्रः । न । ह्वा॒र्याणा॑म् ।

पु॒रु । यः । दग्धा॑ । असि॑ । वना॑ । अग्ने॑ । प॒शुः । न । यव॑से ॥४

उत । स्म । दुःऽगृभीयसे । पुत्रः । न । ह्वार्याणाम् ।

पुरु । यः । दग्धा । असि । वना । अग्ने । पशुः । न । यवसे ॥४

“उत "स्म अपि च "ह्वार्याणां कुटिलं गच्छतां सर्पाणाम् । यद्वा । आस्कन्दितादिगतिविशेषेण वक्रगमनानामश्वानां “पुत्रो “न पुत्र इव बालसर्पं इवाशिक्षितबालाश्व इव वा “दुर्गृभीयसे दुःखेन गृह्यसे । हे “अग्ने "यः त्वं “पुरु बहूनि “वना वनानि “दग्धासि दाहको भवसि । कथमिव । “यवसे तृणे "पशुर्न पशुरिव । अयमर्थः । अत्यन्तक्षुधार्तः पशुस्तृणविषये विसृष्टः सन् यथा सर्वं भक्षयति तद्वदित्यर्थः ॥ दुर्गृभीयसे ।' ग्रह उपादाने' । यक् । ‘ब्रुव ईट्' इत्यनुवृत्तौ ‘बहुलं छन्दसि ' इति ईडागमः। ग्रहिज्यादिना संप्रसारणम् । “ हृग्रहोर्भश्छन्दसि ' इति भकारः। निघातः । ह्वार्याणाम्। ‘ह्वृ कौटिल्ये,' । ऋहलोर्ण्यत् । आदिवृद्धिः । ' तित्स्वरितम्' इति स्वरितत्वम् । पुरु । पॄ पालनपूरणयोः' ।' पृभिदिव्यधिगृधिधृषिदृशिभ्यः' इति कुप्रत्ययः । ‘उदोष्य्दपूर्वस्य ' इत्युत्वम् । प्रत्ययस्वरेण अन्तोदात्तत्वम् । असि । 'यद्वृत्तान्नित्यम्' इति न निघातः ॥


अध॑ स्म॒ यस्या॒र्चय॑ः स॒म्यक्सं॒यन्ति॑ धू॒मिन॑ः ।

यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते॑व॒ धम॑ति॒ शिशी॑ते ध्मा॒तरी॑ यथा ॥५

अध॑ । स्म॒ । यस्य॑ । अ॒र्चयः॑ । स॒म्यक् । स॒म्ऽयन्ति॑ । धू॒मिनः॑ ।

यत् । ई॒म् । अह॑ । त्रि॒तः । दि॒वि । उप॑ । ध्माता॑ऽइव । धम॑ति । शिशी॑ते । ध्मा॒तरि॑ । य॒था॒ ॥५

अध । स्म । यस्य । अर्चयः । सम्यक् । सम्ऽयन्ति । धूमिनः ।

यत् । ईम् । अह । त्रितः । दिवि । उप । ध्माताऽइव । धमति । शिशीते । ध्मातरि । यथा ॥५

“अध “स्म अपि च “धूमिनः धूमवतः “यस्य अग्नेः "अर्चयः अर्चींषि “सम्यक् शोभनं “संयन्ति सर्वतः प्राप्नुवन्ति “त्रितः त्रिषु स्थानेषु ततो व्याप्तः त्रीणि स्थानानि वा अतीत्य “दिवि अन्तरिक्षे “यत् यदा “ईम् अयमात्मानम् “उप “धमति उपवर्धयति तदा ज्वालाः सर्वतो निर्गच्छन्तीत्यर्थः । कथमिव । “ध्मातेव । कर्मारो यथा भस्रादिभिरग्निं संवर्धयति तद्वत्स्वात्मानं वर्धयतीत्यर्थः । किंच “ध्मातरि "यथा । यथा ध्मातृसमीपे विद्यमानोऽग्निस्तेन ध्मायमानः स आत्मानं “शिशीते तीक्ष्णीकरोति तद्वत्स्वयमेव स्वात्मानं तीक्ष्णीकरोतीत्यर्थः। “अह इति पादपूरणः ॥ यन्ति । इण् गतौ । यच्छब्दयोगन्निघाताभावः । धमति । ‘ ध्मा शब्दाग्निसंयोगयोः'। पाघ्रादिना धमादेशः । पूर्ववत् निघाताभावः । शिशीते। शो तनूकरणे'। व्यत्ययेनात्मनेपदी। ‘ श्लौ' इत्यनुवर्तमाने ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘ आदेच उपदेशेऽशिति' इति आत्वम् । ‘श्लौ' इति द्विर्वचनम् । ‘ बहुलं छन्दसि' इत्यभ्यासस्य इत्वम् । ‘उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायाम् आतः ‘ई हल्यघोः' इति ईत्वम् । तिङ उत्तरत्वान्निघाताभावः ॥


तवा॒हम॑ग्न ऊ॒तिभि॑र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः ।

द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या॑नाम् ॥६

तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । मि॒त्रस्य॑ । च॒ । प्रश॑स्तिऽभिः ।

द्वे॒षः॒ऽयुतः॑ । न । दुः॒ऽइ॒ता । तु॒र्याम॑ । मर्त्या॑नाम् ॥६

तव । अहम् । अग्ने । ऊतिऽभिः । मित्रस्य । च । प्रशस्तिऽभिः ।

द्वेषःऽयुतः । न । दुःऽइता । तुर्याम । मर्त्यानाम् ॥६

हे अग्ने “अहं "मित्रस्य सर्वेषां मित्रभूतस्य “तव "ऊतिभिः युष्मत्कर्तृकरक्षणैः युष्मत्प्रशस्तिभिः “च अस्मत्कृतैः स्तोत्रैश्च मर्त्यानां शत्रुभूतानां मनुष्याणां "दुरिता दुरितानि तत्कर्तृकाणि पापसाधन कर्माणि “द्वेषोयुतो “न द्वेषयुक्तान् शत्रूनिव "तुर्याम तरेयम् । अयमर्थः । त्वद्रक्षणैस्त्वत्संबन्धिस्तुतिभिश्च बाह्याभ्यन्तरशत्रून् तरेयमित्यर्थः ॥ ऊतिभिः। अव रक्षणे'। क्तिन् । ज्वरत्वरस्रिव्यविमवामुपधायाश्च ' इति ऊठ्। ‘उतियूतिजूतिसातिहेतिकीर्तयश्च' इति अन्तोदात्तत्वेन निपातितः। प्रशस्तिभिः । ‘ शंसु स्तुतौ । क्तिन् । कृदुत्तरपदप्रकृतिस्वरापवादत्वेन ‘तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । द्वेषोयुतः । ‘ द्विष अप्रीतौ । भावेऽसुन्प्रत्ययः । ‘ यु मिश्रणे' । कर्तरि क्विप् । तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तुर्याम । ‘तॄ प्लवनतरणयोः'। प्रार्थनायां लिङ् । यासुट् । ‘लिङः सलोपोऽनन्त्यस्य' इति सकारलोपः । ‘ बहुलं छन्दसि ' इति शपो लुक् । उदोष्य्ऽपूर्वस्य ‘ बहुलं छन्दसि ' इति उत्वम् । यासुडागमस्योदात्तत्वाच्छेषनिघातः । ‘ °अपादादौ ' इति प्रतिषेधान्निघाताभावः ॥


तं नो॑ अग्ने अ॒भी नरो॑ र॒यिं स॑हस्व॒ आ भ॑र ।

स क्षे॑पय॒त्स पो॑षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥७

तत् । नः॒ । अ॒ग्ने॒ । अ॒भि । नरः॑ । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।

सः । क्षे॒प॒य॒त् । सः । पो॒ष॒य॒त् । भुव॑त् । वाज॑स्य । सा॒तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥७

तत् । नः । अग्ने । अभि । नरः । रयिम् । सहस्वः । आ । भर ।

सः । क्षेपयत् । सः । पोषयत् । भुवत् । वाजस्य । सातये । उत । एधि । पृत्ऽसु । नः । वृधे ॥७

हे “अग्ने “सहस्वः बलवन् “नरः हविषां नेता त्वम् अस्माकं “तं “रयिं लोके प्रसिद्धं पश्वादिलक्षणं धनम् “अभि “आ “भर आभिमुख्येनाहर । पूर्वोक्तः “सः अग्निः “क्षेपयत् । अस्मदीयान् शत्रून् क्षेपयतु । “सः अग्निः “पोषयत् अस्मान् पोषयतु । “वाजस्य अन्नस्य "सातये लाभाय “भुवत् भवतु । "उत अपि च हे अग्ने "पृत्सु पृतनासु युद्धेषु “नः अस्माकं “वृधे समृद्धये “एधि भव । संग्रामे शत्रुविजयार्थं स त्वं समृद्धिं कुर्वित्यर्थः ॥ सहस्वः । षह मर्षणे ' । असुन् । सहत्यनेन शत्रूनिति सहो बलम् । मतुप् । ‘ मादुपधायाः' इति वत्वम् । “ मतुवसो रुः संबुद्धौ छन्दसि ' इति रुत्वम् । आमन्त्रितस्य च ' इति निघातः । क्षेपयत् । ‘ क्षिप प्रेरणे'। णिजन्तात् लेट् । इतश्च लोपः । ‘लेटोऽडाटौ ' इयडागमः । शप् गुणायादेशौ पररूपत्वं च । पोषयत् ।' पुष पुष्टौ ' । भुवत् । ‘ भू सत्तायाम् ' । भूसुवोस्तिङि' इति गुणप्रतिषेधः । उवङ् । एधि । “अस भुवि । ' ष्वसोरेद्धावभ्यासलोपश्च' इति एत्वम् । तस्यासिद्धत्वात् ‘हुझल्भ्यो हेर्धिः' इति धिरादेशः । निघातः । पृत्सु । ‘पदादिषु' इत्यादिना पृतनाशब्दस्य पृदादेशः । सावेकाच्त्वात् अन्तोदात्तत्वम् ॥ ॥ १ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.९&oldid=198964" इत्यस्माद् प्रतिप्राप्तम्