ऋग्वेदः सूक्तं ५.४६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.४५ ऋग्वेदः - मण्डल ५
सूक्तं ५.४६
प्रतिक्षत्र आत्रेयः
सूक्तं ५.४७ →
दे. विश्वे देवाः, ७-८ देवपत्न्यः। जगती, २,८ त्रिष्टुप्।


हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् ।
नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥१॥
अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥२॥
इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः ।
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥३॥
उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् ।
उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥४॥
उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे ।
बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥५॥
उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् ।
भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम् ॥६॥
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥७॥
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् ।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥८॥


सायणभाष्यम्

‘हयो न' इत्यष्टर्चं द्वितीयं सूक्तं प्रतिक्षत्रस्यार्षम् । अष्टमी द्वितीया च त्रिष्टुभौ शिष्टाः षट् जगत्यः । आदितः षड्वैश्वदेव्यः सप्तम्यष्टम्योर्देवपत्न्यो देवता । तथा चानुक्रान्तं - हयोऽष्टौ प्रतिक्षत्रोऽन्त्यो द्वृचो देवपत्नीस्तवोऽन्त्या त्रिष्टुप् द्वितीया च' इति । सूकविनियोगो लैङ्गिकः ॥


हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् ।

नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥१

हयः॑ । न । वि॒द्वान् । अ॒यु॒जि॒ । स्व॒यम् । धु॒रि । ताम् । व॒हा॒मि॒ । प्र॒तर॑णीम् । अ॒व॒स्युव॑म् ।

न । अ॒स्याः॒ । व॒श्मि॒ । वि॒ऽमुच॑म् । न । आ॒ऽवृत॑म् । पुनः॑ । वि॒द्वान् । प॒थः । पु॒रः॒ऽए॒ता । ऋ॒जु । ने॒ष॒ति॒ ॥१

हयः । न । विद्वान् । अयुजि । स्वयम् । धुरि । ताम् । वहामि । प्रतरणीम् । अवस्युवम् ।

न । अस्याः । वश्मि । विऽमुचम् । न । आऽवृतम् । पुनः । विद्वान् । पथः । पुरःऽएता । ऋजु । नेषति ॥१

“हयो "न अश्व इव "विद्वान् सर्वज्ञः प्रतिक्षत्रः “स्वयम् अनन्यप्रेरितः सन् “धुरि यज्ञात्मिकायाम् “अयुजि युक्तोऽभवत् । "तां धुरं "प्रतरणीं प्रकर्षेण तारयित्रीम् “अवस्युवं रक्षयित्रीं “वहामि । धारयाम्यहमध्वर्युर्होता वा । “अस्याः धुरः “विमुचं विमोचनं परित्यागं “न “वश्मि न कामये । "नावृतं “पुनः पुनरावरणं धारणमपि न च वश्मि । मम को भार इति तदेवोच्यते । “विद्वान् मार्गाभिज्ञोऽन्तर्यामी देवः “पुरएता पुरतो गन्ता सन् "पथः यज्ञमार्गान् “ऋजु अकुटिलं “नेषति प्रापयति ॥


अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒ः शर्ध॒ः प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।

उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒ः सर॑स्वती जुषन्त ॥२

अग्ने॑ । इन्द्र॑ । वरु॑ण । मित्र॑ । देवाः॑ । शर्धः॑ । प्र । य॒न्त॒ । मारु॑त । उ॒त । वि॒ष्णो॒ इति॑ ।

उ॒भा । नास॑त्या । रु॒द्रः । अध॑ । ग्नाः । पू॒षा । भगः॑ । सर॑स्वती । जु॒ष॒न्त॒ ॥२

अग्ने । इन्द्र । वरुण । मित्र । देवाः । शर्धः । प्र । यन्त । मारुत । उत । विष्णो इति ।

उभा । नासत्या । रुद्रः । अध । ग्नाः । पूषा । भगः । सरस्वती । जुषन्त ॥२

हे “अग्ने “इन्द्र “वरुण “मित्र हे “देवाः यूयं “शर्धः बलमस्माकं “प्र “यन्तं प्रापयत ॥ अत्र सर्वत्र पूर्वस्याविद्यमानत्वेनोत्तरस्योत्तरस्य पादादित्वादनिघातः । प्रथमस्य तु स्वत एव पादादित्वम् ।। “उत अपि च हे “मारुत मारुतानि मरुतां बलानि हे “विष्णो यूयं शर्धः प्र यन्त । विष्णो इत्यस्य उत् इत्यनेन व्यवधानान्निघातः ॥ किंच “उभा उभौ “नासत्या सत्यभूतौ “रुद्रः “अध अथ “ग्नाः एतेषां देवानां स्त्रियश्च “पूषा “भगः “सरस्वती च “जुषन्त सेवन्तामस्मदीयं यज्ञं स्तुतिं वा ॥


इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्व॑ः पृथि॒वीं द्यां म॒रुत॒ः पर्व॑ताँ अ॒पः ।

हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥३

इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॑णा । अदि॑तिम् । स्व१॒॑रिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः ।

हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥३

इन्द्राग्नी इति । मित्रावरुणा । अदितिम् । स्वरिति स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । अपः ।

हुवे । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । भगम् । नु । शंसम् । सवितारम् । ऊतये ॥३

इन्द्रादिसवित्रन्तान् चतुर्दश देवान् “ऊतये अस्मद्रक्षणाय “हुवे आह्वयामि स्तौमि वा ॥ स्वरित्यादित्य उच्यते स्वरणात् ।।


उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।

उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥४

उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदाः । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् ।

उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विऽभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥४

उत । नः । विष्णुः । उत । वातः । अस्रिधः । द्रविणःऽदाः । उत । सोमः । मयः । करत् ।

उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा । उत । विऽभ्वा । अनु । मंसते ॥४

“उत अपि च “नः अस्माकं “विष्णुः व्यापको देवः “मयस्करत् । मय इति सुखनाम । सुखं करोतु । “उत अपि च “वातः वायुः “अस्रिधः अहिंसकः सन् मयस्करत् । किंच “द्रविणोदाः धनस्य दाता “सोमः अपि मयस्करत् । “उत अपि च “ऋभवः “नः अस्मभ्यं “राये धनाय "अनु “मंसते अनुमन्यन्ताम् । “उत “अश्विना अश्विनौ च “उत “त्वष्टा देवः “उत "विभ्वा ऋभूणामन्यतमो देवः । एते सर्वेऽप्यनु मंसते । यद्वा । अनुमंस्त इति प्रत्येकं संबन्धनीयम् ॥


उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।

बृह॒स्पति॒ः शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥५

उ॒त । त्यम् । नः॒ । मारु॑तम् । शर्धः॑ । आ । ग॒म॒त् । दि॒वि॒ऽक्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒ऽसदे॑ ।

बृह॒स्पतिः॑ । शर्म॑ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य॑म् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥५

उत । त्यम् । नः । मारुतम् । शर्धः । आ । गमत् । दिविऽक्षयम् । यजतम् । बर्हिः । आऽसदे ।

बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यम् । वरुणः । मित्रः । अर्यमा ॥५

“उत अपि च “त्यत् तत् “मारुतं “शर्धः मरुतां बलं संघः “नः अस्मान् “आ “गमत् आगच्छतु । कीदृशं तच्छर्धः । "दिविक्षयं द्युलोके वर्तमानं “यजतं पूज्यम् । किमर्थमागमनमिति तदुच्यते । “बर्हिः बर्हिषि "आसदे उपवेष्टुम् । उपविश्य हविःस्वीकारायेत्यर्थः । किंच “बृहस्पतिः देवः “शर्म सुखं "यमत् यच्छतु । “उत “नः अस्मभ्यं “पूषा अपि यमत् । कीदृशं शर्म। “वरूथ्यम् । वारयति शीतवातादिकमिति वरूथं गृहम् । तदर्हं वरूथ्यम् । किंच वरुणादयस्त्रयोऽपि प्रत्येकं शर्म यच्छन्तु ॥


उ॒त त्ये न॒ः पर्व॑तासः सुश॒स्तय॑ः सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् ।

भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव॑म् ॥६

उ॒त । त्ये । नः॒ । पर्व॑तासः । सु॒ऽश॒स्तयः॑ । सु॒ऽदी॒तयः॑ । न॒द्यः॑ । त्राम॑णे । भु॒व॒न् ।

भगः॑ । वि॒ऽभ॒क्ता । शव॑सा । अव॑सा । आ । ग॒म॒त् । उ॒रु॒ऽव्यचाः॑ । अदि॑तिः । श्रो॒तु॒ । मे॒ । हव॑म् ॥६

उत । त्ये । नः । पर्वतासः । सुऽशस्तयः । सुऽदीतयः । नद्यः । त्रामणे । भुवन् ।

भगः । विऽभक्ता । शवसा । अवसा । आ । गमत् । उरुऽव्यचाः । अदितिः । श्रोतु । मे । हवम् ॥६

“उत अपि च “त्ये ते “पर्वतासः पर्ववन्तः अद्रयः “सुशस्तयः शोभनस्तुतयः किंच “सुदीतयः सुदानाः “नद्यः च “त्रामणे पालने “नः अस्माकं “भुवन् भवन्तु । “भगः देवः “विभक्ता धनानां विभागकर्ता दाता सन् “शवसा अन्नेन “अवसा रक्षणेन च सह “आ “गमत् आगच्छतु । “उरुव्यचाः प्रभूतव्याप्तिः "अदितिः अदीना देवमाता “मे “हवं स्तुतिमाह्वानं वा “श्रोतु शृणोतु ॥


पत्नीसंयाजेषु देवपत्नीनां देवानां पत्नीः' इत्यादिके द्वे याज्यानुवाक्ये । सूत्रितं च -- ‘ देवानां पत्नीरुशतीरवन्तु न इति द्वे ' ( आश्व. श्रौ. १. १०) इति ॥ आग्निमारुतशस्त्रेऽप्येते । ‘ देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे' (आश्व. श्रौ. ५. २०) इति ॥

दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु न॒ः प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये ।

याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवा॒ः शर्म॑ यच्छत ॥७

दे॒वाना॑म् । पत्नीः॑ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये॑ । वाज॑ऽसातये ।

याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒ऽह॒वाः॒ । शर्म॑ । य॒च्छ॒त॒ ॥७

देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाजऽसातये ।

याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सुऽहवाः । शर्म । यच्छत ॥७

“देवानाम् इन्द्रादीनां “पत्नीः पत्न्यः “उशतीः उशत्योऽस्मदीयां स्तुतिं कर्म वा कामयमानाः “नः अस्मान् “अवन्तु रक्षन्तु । तथा “नः अस्माकं “तुजये बलवते पुत्राय “वाजसातये अन्नलाभाय संग्रामाय वा “प्रावन्तु प्रकर्षेण रक्षन्तु गच्छन्तु वा । "याः “पार्थिवासः पृथिवीसंबन्धिन्यः “याः च “अपाम् उदकानां “व्रते कर्मण्यन्तरिक्षे वर्तन्ते “ताः हे “देवीः देव्यो हे "सुहवाः शोभनाह्वाना यूयं “नः अस्मभ्यं “शर्म “यच्छत ॥


उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् ।

आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥८

उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ । राट् ।

आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑नाम् ॥८

उत । ग्नाः । व्यन्तु । देवऽपत्नीः । इन्द्राणी । अग्नायी । अश्विनी । राट् ।

आ । रोदसी इति । वरुणानी । शृणोतु । व्यन्तु । देवीः । यः । ऋतुः । जनीनाम् ॥८

“उत अपि च “ग्नाः स्त्रियः “देवपत्नीः देवपत्न्यो देवाः पतयो यासां ताः । तादृश्यः “व्यन्तु हविर्भक्षयन्तु । ता विविच्योच्यन्ते । “इन्द्राणी इन्द्रस्य पत्नी “अग्नायी अग्नेः पत्नी “अश्विनी अश्विनोः पत्नी "राट् राजमाना। किंच "रोदसी। रुद्रस्य पत्नी' (निरु. ११. ४९) इति यास्केनोक्तम् । एवं सति ‘ विषितस्तुका रोदसी ' ( ऋ. सं. १. १६७. ५) इत्यत्र यथाद्युदात्तप्रगृह्यते न स्तः तद्वदत्रापि भाव्यम् । तथापि शाकल्येन महर्षिणैवमुक्तत्वात्तथैव द्रष्टव्यम् । “वरुणानी वरुणस्य पत्नी “आ सर्वतः प्रत्येकं “शृणोतु । किंच “देवीः पत्नीसंयाजदेव्यः “व्यन्तु खादन्तु हविः। “यः "जनीनां देवजायानाम् “ऋतुः कालस्तदभिमानी देवोऽपि शृणोतु वेतु च । अत्र ‘ अपि च ग्ना व्यन्तु देवपत्न्यः ' (निरु. १२. ४६ ) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ॥ २८ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणमात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके द्वितीयोऽध्यायः समाप्तः ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४६&oldid=199507" इत्यस्माद् पुनः प्राप्तिः