ऋग्वेदः सूक्तं ५.५९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.५८ ऋग्वेदः - मण्डल ५
सूक्तं ५.५९
श्यावाश्व आत्रेयः।
सूक्तं ५.६० →
दे. मरुतः। जगती, ८ त्रिष्टुप्।


प्र व स्पळक्रन्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे ।
उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः ॥१॥
अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती ।
दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः ॥२॥
गवामिव श्रियसे शृङ्गमुत्तमं सूर्यो न चक्षू रजसो विसर्जने ।
अत्या इव सुभ्वश्चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥३॥
को वो महान्ति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या ।
यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने ॥४॥
अश्वा इवेदरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः ।
मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥५॥
ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः ।
सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥६॥
वयो न ये श्रेणीः पप्तुरोजसान्तान्दिवो बृहतः सानुनस्परि ।
अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूँरचुच्यवुः ॥७॥
मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतन्ताम् ।
आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः ॥८॥


सायणभाष्यम्

‘ प्र वः स्पट्' इत्यष्टर्चं तृतीयं सूक्तं श्यावाश्वस्यार्षं मारुतम् । अष्टमी त्रिष्टुप् शिष्टाः सप्त जगत्यः । ‘ प्र वः स्पट् त्रिष्टुबन्तम् ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


प्र व॒ः स्पळ॑क्रन्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।

उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ॥१

प्र । वः॒ । स्पट् । अ॒क्र॒न् । सु॒वि॒ताय॑ । दा॒वने॑ । अर्च॑ । दि॒वे । प्र । पृ॒थि॒व्यै । ऋ॒तम् । भ॒रे॒ ।

उ॒क्षन्ते॑ । अश्वा॑न् । तरु॑षन्ते । आ । रजः॑ । अनु॑ । स्वम् । भा॒नुम् । श्र॒थ॒य॒न्ते॒ । अ॒र्ण॒वैः ॥१

प्र । वः । स्पट् । अक्रन् । सुविताय । दावने । अर्च । दिवे । प्र । पृथिव्यै । ऋतम् । भरे ।

उक्षन्ते । अश्वान् । तरुषन्ते । आ । रजः । अनु । स्वम् । भानुम् । श्रथयन्ते । अर्णवैः ॥१

हे मरुतः “वः युष्मभ्यं “सुविताय सुष्ठु प्राप्तव्याय "दावने हविष्प्रदानाय “स्पट् स्प्रष्टा होता “प्र प्रकर्षेण “अक्रन् क्रन्दति स्तौति । वः युष्मान् वा सुष्ठु प्राप्तव्याय दानायाक्रन् ॥ क्रन्दतेः शब्दकर्मणो लडर्थे लङि तिपि रूपम् ॥ हे होतः “दिवे द्योतमानाय द्युदेवाय “प्र “अर्च प्रकर्षेण स्तुहि हे आत्मन् । तथा “पृथिव्यै पृथिव्याश्च “ऋतं स्तोत्रं “भरे संपादयामि । द्यावापृथिव्यावपि मरुतामाधारत्वादत्र निपातभाजौ भवतः । किंच ते मरुतः “अश्वान् व्यापकानुदकसंघान् “उक्षन्ते सिञ्चन्ति । “रजः “आ अन्तरिक्षमा सर्वतः “तरुषन्ते तरन्ति संचरन्ति । “स्वं “भानुं स्वकीयं तेजः “अर्णवैः मेघैः सह “अनु “श्रथयन्ते अनुश्लेषयन्ति अनुकूलं प्रापयन्तीत्यर्थः ॥


अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।

दू॒रे॒दृशो॒ ये चि॒तय॑न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे॑ येतिरे॒ नर॑ः ॥२

अमा॑त् । ए॒षा॒म् । भि॒यसा॑ । भूमिः॑ । ए॒ज॒ति॒ । नौः । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथिः॑ । य॒ती ।

दू॒रे॒ऽदृशः॑ । ये । चि॒तय॑न्ते । एम॑ऽभिः । अ॒न्तः । म॒हे । वि॒दथे॑ । ये॒ति॒रे॒ । नरः॑ ॥२

अमात् । एषाम् । भियसा । भूमिः । एजति । नौः । न । पूर्णा । क्षरति । व्यथिः । यती ।

दूरेऽदृशः । ये । चितयन्ते । एमऽभिः । अन्तः । महे । विदथे । येतिरे । नरः ॥२

“एषाम् ॥ अन्वादेशविषयत्वादनुदात्तः ॥ एषां मरुतां “भियसा भयेन “भूमिः “एजति कम्पते “नौर्न “पूर्णा प्राणिभिः । सा यथोदकमध्ये “क्षरति चलति “व्यथिः व्यथिता “यती गच्छन्ती । एतदुभयं नौविशेषणम् । “दूरेदृशः दूरे दृश्यमाना अपि “ये मरुतः “एमभिः गमनैः “चितयन्ते ज्ञायन्ते ते महान्तो मरुतः “विदथे यज्ञे “महे महते हविषे हविर्भक्षणाय “अन्तः द्यावापृथिव्योर्मध्ये ”येतिरे यतन्ते । “नरः नेतारो मरुतः ॥


गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।

अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥३

गवा॑म्ऽइव । श्रि॒यसे॑ । शृङ्ग॑म् । उ॒त्ऽत॒मम् । सूर्यः॑ । न । चक्षुः॑ । रज॑सः । वि॒ऽसर्ज॑ने ।

अत्याः॑ऽइव । सु॒ऽभ्वः॑ । चार॑वः । स्थ॒न॒ । मर्याः॑ऽइव । श्रि॒यसे॑ । चे॒त॒थ॒ । न॒रः॒ ॥३

गवाम्ऽइव । श्रियसे । शृङ्गम् । उत्ऽतमम् । सूर्यः । न । चक्षुः । रजसः । विऽसर्जने ।

अत्याःऽइव । सुऽभ्वः । चारवः । स्थन । मर्याःऽइव । श्रियसे । चेतथ । नरः ॥३

हे मरुतो यूयं “गवां “शृङ्गम् “इव “उत्तमम् उत्कृष्टमुष्णीषपट्टादिकं “श्रियसे श्रिये धारयथेति शेषः । “सूर्यो “न सूर्य इव । स यथा “रजसः तेजसः “विसर्जने “चक्षुः दर्शनसाधनं मण्डलं धत्ते तद्वद्रजसो वृष्टेर्विसर्जने विसर्जनाय चक्षुः सर्वस्य प्रकाशकं तेजो धारयथ । “अत्याइव अश्वाइव “सुभ्वः सुष्ठु सर्वत्र भवन्तो वेगवन्तः “चारवः दर्शनीयाः “स्थन भवथ। “मर्याः मर्त्याः यजमानाः "इव । ते यथा "श्रियसे जानन्ति यज्ञादिकं तद्वच्छ्रिये "चेतथ हे “नरः नेतारो मरुतः ॥


को वो॑ म॒हान्ति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुत॒ः को ह॒ पौंस्या॑ ।

यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥४

कः । वः॒ । म॒हान्ति॑ । म॒ह॒ताम् । उत् । अ॒श्न॒व॒त् । कः । काव्या॑ । म॒रु॒तः॒ । कः । ह॒ । पौंस्या॑ ।

यू॒यम् । ह॒ । भूमि॑म् । कि॒रण॑म् । न । रे॒ज॒थ॒ । प्र । यत् । भर॑ध्वे । सु॒वि॒ताय॑ । दा॒वने॑ ॥४

कः । वः । महान्ति । महताम् । उत् । अश्नवत् । कः । काव्या । मरुतः । कः । ह । पौंस्या ।

यूयम् । ह । भूमिम् । किरणम् । न । रेजथ । प्र । यत् । भरध्वे । सुविताय । दावने ॥४

हे “मरुतः “वः युष्माकं “महतां पूज्यानां “कः यजमानः “महान्ति श्रेयांसि “उदश्नवत् उत्कृष्टं प्राप्नुयात् । “कः च तदर्थं “काव्या काव्यानि कवीनां युष्माकं संबन्धीनि स्तोत्राणि उदश्नवत् । “को "ह कश्च “पौंस्या पौंस्यानि पराक्रमान् उदश्नवत् । आदरार्थं पुनर्वचनम् । “यूयं “ह यूयं खलु “भूमिं “किरणं “न किरणमिव “रेजथः । किरणं यथा वृष्ट्यर्थं चालयथ तद्वद्भूमिं रेजथ । “यत् यस्मात् “सुविताय सुष्ठु प्राप्तव्याय । प्राप्तव्यस्येत्यर्थः । तादृशस्य धनस्य वृष्ट्युदकस्य वा “दावने दानाय “प्र “भरध्वे प्रकर्षेण संपादयथ वृष्टिम् । यस्माद्यूयमेवं कुरुथ तस्मात्क एवं करोतीत्यर्थः ॥


अश्वा॑ इ॒वेद॑रु॒षास॒ः सब॑न्धव॒ः शूरा॑ इव प्र॒युध॒ः प्रोत यु॑युधुः ।

मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नर॒ः सूर्य॑स्य॒ चक्षु॒ः प्र मि॑नन्ति वृ॒ष्टिभि॑ः ॥५

अश्वाः॑ऽइव । इत् । अ॒रु॒षासः॑ । सऽब॑न्धवः । शूराः॑ऽइव । प्र॒ऽयुधः॑ । प्र । उ॒त । यु॒यु॒धुः॒ ।

मर्याः॑ऽइव । सु॒ऽवृधः॑ । व॒वृ॒धुः॒ । नरः॑ । सूर्य॑स्य । चक्षुः॑ । प्र । मि॒न॒न्ति॒ । वृ॒ष्टिऽभिः॑ ॥५

अश्वाःऽइव । इत् । अरुषासः । सऽबन्धवः । शूराःऽइव । प्रऽयुधः । प्र । उत । युयुधुः ।

मर्याःऽइव । सुऽवृधः । ववृधुः । नरः । सूर्यस्य । चक्षुः । प्र । मिनन्ति । वृष्टिऽभिः ॥५

मरुत एते "अश्वाइव शीघ्रगन्तारः "अरुषासः आरोचमानाः "सबन्धवः । समान एक एव बन्धुर्बन्धको रुद्रो येषां ते तादृशाः । परस्परं बन्धवः स्नेहयुक्ता वा “शूराः भटाः “इव “प्रयुधः प्रयोद्धारो वैरिभिः सह तादृशाः “उत अपि च “प्र “युयुधुः प्रकर्षेण युध्यन्ते । “मर्याइव मनुष्या यथा वर्धन्ते तथा “सुवृधः सुष्ठु वर्धयितारो वर्धमाना वा “नरः नेतारः “ववृधुः वर्धन्ते । एवं महात्मानः "सूर्यस्य “चक्षुः तेजःसमूहं मण्डलं वा "वृष्टिभिः “प्र “मिनन्ति प्रकर्षेण हिंसन्ति आवृण्वन्तीत्यर्थः ॥


ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।

सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥६

ते । अ॒ज्ये॒ष्ठाः । अक॑निष्ठासः । उ॒त्ऽभिदः॑ । अम॑ध्यमासः । मह॑सा । वि । व॒वृ॒धुः॒ ।

सु॒ऽजा॒तासः॑ । ज॒नुषा॑ । पृश्नि॑ऽमातरः । दि॒वः । मर्याः॑ । आ । नः॒ । अच्छ॑ । जि॒गा॒त॒न॒ ॥६

ते । अज्येष्ठाः । अकनिष्ठासः । उत्ऽभिदः । अमध्यमासः । महसा । वि । ववृधुः ।

सुऽजातासः । जनुषा । पृश्निऽमातरः । दिवः । मर्याः । आ । नः । अच्छ । जिगातन ॥६

"ते मरुतः "अज्येष्ठाः "अकनिष्ठासः अकनिष्ठाः "उद्भिदः उद्भेदयितारः शत्रूणाम् "अमध्यमासः अमध्यमाः सर्वप्रकारैः समाः “महसा तेजसा “वि “ववृधुः विवर्धन्ते । “सुजातासः सुष्ठु संभूताः “जनुषा जन्मना “पृश्निमातरः पृश्नेः पुत्राः “मर्याः मनुष्येभ्यो हिता यूयं “दिवः सकाशात् “नः अस्मान् “अच्छ अभिमुखम् “आ “जिगातन सर्वतः प्रशंसत साध्वनुष्ठितमिति । उत्तरार्धः प्रत्यक्षकृतः । यद्वा । ये सुजाता जनुषा पृश्निमातरश्च तान् दिव आगतान् हे ऋत्विजो मर्या यूयमा जिगातन आगच्छत ते नोऽच्छ आगच्छतास्मदभिमुखम् ॥


वयो॒ न ये श्रेणी॑ः प॒प्तुरोज॒सान्ता॑न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।

अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥७

वयः॑ । न । ये । श्रेणीः॑ । प॒प्तुः । ओज॑सा । अन्ता॑न् । दि॒वः । बृ॒ह॒तः । सानु॑नः । परि॑ ।

अश्वा॑सः । ए॒षा॒म् । उ॒भये॑ । यथा॑ । वि॒दुः । प्र । पर्व॑तस्य । न॒भ॒नून् । अ॒चु॒च्य॒वुः॒ ॥७

वयः । न । ये । श्रेणीः । पप्तुः । ओजसा । अन्तान् । दिवः । बृहतः । सानुनः । परि ।

अश्वासः । एषाम् । उभये । यथा । विदुः । प्र । पर्वतस्य । नभनून् । अचुच्यवुः ॥७

"ये मरुतः “वयो “न पक्षिण इव “श्रेणीः पङ्क्तयः सन्तः “ओजसा बलेन “दिवः अन्तरिक्षस्यादित्यस्य वा “अन्तान् पर्यन्तान “बृहतः महतः “सानुनः समुन्नतस्याकाशवलयस्य “परि परितः “पप्तुः पतन्ति “एषाम् “अश्वासः अश्वाः “पर्वतस्य मेघस्य नभनून् ॥ भनतेः शब्दकर्मणो नभ्राडितिवत् नभनवः ॥ उदकानि “प्र “अचुच्यवुः च्यावयन्ति । “उभये देवा मनुष्याश्च “यथा “विदुः जानन्ति तथा । मनुष्याणां ज्ञानं प्रसिद्धम् । देवाश्च वृष्टौ सत्यामाग्रयणादौ हविष्प्रदानेन जानन्ति । देवानां वृष्टिसंपूर्तिपरिज्ञानमाश्वलायनेनोक्तम्- यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेत ' इत्युपक्रम्य ‘ अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याग्रयणेन हि यजते ' ( आश्व. श्रौ. २. ९) इति ॥


मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ न॒ः सं दानु॑चित्रा उ॒षसो॑ यतन्ताम् ।

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥८

मिमा॑तु । द्यौः । अदि॑तिः । वी॒तये॑ । नः॒ । सम् । दानु॑ऽचित्राः । उ॒षसः॑ । य॒त॒न्ता॒म् ।

आ । अ॒चु॒च्य॒वुः॒ । दि॒व्यम् । कोश॑म् । ए॒ते । ऋषे॑ । रु॒द्रस्य॑ । म॒रुतः॑ । गृ॒णा॒नाः ॥८

मिमातु । द्यौः । अदितिः । वीतये । नः । सम् । दानुऽचित्राः । उषसः । यतन्ताम् ।

आ । अचुच्यवुः । दिव्यम् । कोशम् । एते । ऋषे । रुद्रस्य । मरुतः । गृणानाः ॥८

“नः अस्मदर्थं "द्यौः अन्तरिक्षं “मिमातु निर्मिमातु वृष्टिम् । तदनुकूलं करोत्वित्यर्थः । कीदृशी। “अदितिः अदीना । यद्वा । द्यौर्मिमात्वदितिर्भूमिश्च मिमातु सुखम् । किमर्थम् । “वीतये उत्पत्तये प्रजननाय वा । "दानुचित्राः विचित्रप्रकाशादिदानाः "उषसः “सं “यतन्ताम् । हे “ऋषे त्वया “गृणानाः स्तूयमानाः “मरुतः “रुद्रस्य । पुत्रा इति शेषः । “एते “दिव्यं "कोशं मेघमुदकम् “आचुच्यवुः आच्यावयन्ति ॥ द्विकर्मकोऽयम् ॥ ॥ २४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५९&oldid=199671" इत्यस्माद् पुनः प्राप्तिः