ऋग्वेदः सूक्तं ५.५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.५१ ऋग्वेदः - मण्डल ५
सूक्तं ५.५२
श्यावाश्व आत्रेयः ।
सूक्तं ५.५३ →
दे. मरुतः। अनुष्टुप्, ६, १६-१७ पंक्तिः ।


प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः ।
ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः ॥१॥
ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया ।
ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः ॥२॥
ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः ।
मरुतामधा महो दिवि क्षमा च मन्महे ॥३॥
मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया ।
विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥४॥
अर्हन्तो ये सुदानवो नरो असामिशवसः ।
प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥५॥
आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत ।
अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः ॥६॥
ये वावृधन्त पार्थिवा य उरावन्तरिक्ष आ ।
वृजने वा नदीनां सधस्थे वा महो दिवः ॥७॥
शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम् ।
उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥८॥
उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः ।
उत पव्या रथानामद्रिं भिन्दन्त्योजसा ॥९॥
आपथयो विपथयोऽन्तस्पथा अनुपथाः ।
एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥१०॥
अधा नरो न्योहतेऽधा नियुत ओहते ।
अधा पारावता इति चित्रा रूपाणि दर्श्या ॥११॥
छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः ।
ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे ॥१२॥
य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः ।
तमृषे मारुतं गणं नमस्या रमया गिरा ॥१३॥
अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा ।
दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥१४॥
नू मन्वान एषां देवाँ अच्छा न वक्षणा ।
दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः ॥१५॥
प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् ।
अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः ॥१६॥
सप्त मे सप्त शाकिन एकमेका शता ददुः ।
यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥१७॥


सायणभाष्यम्

‘ प्र श्यावाश्व ' इति सप्तदशर्चमष्टमं सूक्तम् । अत्रेयमनुक्रमणिका –' प्र श्यावाश्व त्र्यूना श्यावाश्वो मारुतं ह तत्पङ्क्तिः षष्ठ्यन्त्या च ' इति । आत्रेयः श्यावाश्व ऋषिः । ‘ह तत्' इति प्रयोगात् इदमादीनि दश सूक्तानि मरुद्देवत्यानि । षष्ठी सप्तदशी च पङ्क्त्यौ शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । गतो विनियोगः ॥


प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒रृक्व॑भिः ।

ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद॑न्ति य॒ज्ञिया॑ः ॥१

प्र । श्या॒व॒ऽअ॒श्व॒ । धृ॒ष्णु॒ऽया । अर्च॑ । म॒रुत्ऽभिः॑ । ऋक्व॑ऽभिः ।

ये । अ॒द्रो॒घम् । अ॒नु॒ऽस्व॒धम् । श्रवः॑ । मद॑न्ति । य॒ज्ञियाः॑ ॥ १

प्र । श्यावऽअश्व । धृष्णुऽया । अर्च । मरुत्ऽभिः । ऋक्वऽभिः ।

ये । अद्रोघम् । अनुऽस्वधम् । श्रवः । मदन्ति । यज्ञियाः ॥१

हे “श्यावाश्व एतन्नामक ऋषे “धृष्णुया धृष्णुस्त्वम् “ऋक्वभिः स्तुत्यान् "मरुद्भिः मरुतः “प्र “अर्च । द्वितीयार्थे तृतीया । एवं स्वयमेव संप्रेष्यति । यद्वा । यजमानो होतारं श्यावाश्वं ब्रूते । यद्वा । मरुद्भिर्मरुत्सदृशैर्ऋक्वभिः स्तोतृभिः सह स्तोत्रैर्वा अर्च स्तुहीत्यर्थः । “ये मरुतः यज्ञियाः यज्ञार्हाः “अनुष्वधं प्रत्यहम्। हविर्लक्षणान्नप्रदानं स्वधा । अनु पश्चाद्वा । "अद्रोघम् अहिंसकं “श्रवः अन्नं लब्ध्वा "मदन्ति हृष्यन्ति ।।


ते हि स्थि॒रस्य॒ शव॑स॒ः सखा॑य॒ः सन्ति॑ धृष्णु॒या ।

ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पान्ति॒ शश्व॑तः ॥२

ते । हि । स्थि॒रस्य॑ । शव॑सः । सखा॑यः । सन्ति॑ । धृ॒ष्णु॒ऽया ।

ते । याम॑न् । आ । धृ॒ष॒त्ऽविनः॑ । त्मना॑ । पा॒न्ति॒ । शश्व॑तः ॥२

ते । हि । स्थिरस्य । शवसः । सखायः । सन्ति । धृष्णुऽया ।

ते । यामन् । आ । धृषत्ऽविनः । त्मना । पान्ति । शश्वतः ॥२

“ते “हि ते खलु “स्थिरस्य अविचलितस्य “शवसः बलस्य “सखायः “सन्ति भवन्ति मह्यम् । “धृष्णुया धृष्णवः । “ते च "यामन्ना । आ इति चार्थे । गमनेऽपि “धृषद्विनः धर्षणवन्तः “त्मना आत्मना अनुग्रहेणैव अस्मदुपकारमनपेक्ष्यैव “शश्वतः बहूनस्मान् पुत्रभृत्यादीन् "पान्ति रक्षन्ति ॥


ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः ।

म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥३

ते । स्य॒न्द्रासः॑ । न । उ॒क्षणः॑ । अति॑ । स्क॒न्द॒न्ति॒ । शर्व॑रीः ।

म॒रुता॑म् । अध॑ । महः॑ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥३

ते । स्यन्द्रासः । न । उक्षणः । अति । स्कन्दन्ति । शर्वरीः ।

मरुताम् । अध । महः । दिवि । क्षमा । च । मन्महे ॥३

"ते मरुतः “स्पन्द्रासः स्पन्दनशीलाः “उक्षणः जलस्य सेक्तारश्च । “न इति चार्थे । यस्मात् स्पन्द्रा अन्येषां तस्मात् “शर्वरीः । शर्वर्यो रात्रयः । कालावयवानित्यर्थः । तान् “अति “स्कन्दन्ति अतिक्रम्य गच्छन्ति । नित्या इत्यर्थः । यस्मादेत एवंविधास्तस्मात् "मरुताम् “अध अधुना “महः तेजः “दिवि द्युलोके “क्षमा क्षमायां भूमौ च वर्तमानं "मन्महे स्तुमः ॥


म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।

विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं॑ रि॒षः ॥४

म॒रुत्ऽसु॑ । वः॒ । द॒धी॒म॒हि॒ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।

विश्वे॑ । ये । मानु॑षा । यु॒गा । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥४

मरुत्ऽसु । वः । दधीमहि । स्तोमम् । यज्ञम् । च । धृष्णुऽया ।

विश्वे । ये । मानुषा । युगा । पान्ति । मर्त्यम् । रिषः ॥४

हे अध्वर्युहोत्रादयः “वः यूयं “मरुत्सु “धृष्णुया धर्षकेषु “दधीमहि ॥ व्यत्ययेनोत्तमः ॥ धत्त । किम् । “स्तोमं स्तोत्रं “यज्ञं “च । इज्यतेऽनेनेति यज्ञं हविः । तदुभयं किमर्थं दीयत इति । “ये मरुतः “विश्वे सर्वेऽपि “मानुषा मानुषाणि "युगा युगानि । सर्वेषु कालेष्वित्यर्थः। "मर्त्यं मरणधर्माणं यजमानं “रिषः हिंसकात् सकाशात् “पान्ति रक्षन्ति ॥


अर्ह॑न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः ।

प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्य॑ः ॥५

अर्ह॑न्तः । ये । सु॒ऽदान॑वः । नरः॑ । असा॑मिऽशवसः ।

प्र । य॒ज्ञम् । य॒ज्ञिये॑भ्यः । दि॒वः । अ॒र्च॒ । म॒रुत्ऽभ्यः॑ ॥५

अर्हन्तः । ये । सुऽदानवः । नरः । असामिऽशवसः ।

प्र । यज्ञम् । यज्ञियेभ्यः । दिवः । अर्च । मरुत्ऽभ्यः ॥५

हे होतः हे आत्मन् वा "ये “अर्हन्तः पूज्याः “सुदानवः शोभनदानाः “नरः नेतारः कर्मणाम् “असामिशवसः अनल्पबलाः सन्ति तेभ्यः "यज्ञियेभ्यः यज्ञार्हेभ्यः "दिवः द्योतमानेभ्यः “मरुद्भ्यः ॥ विभक्तिवचनयोर्व्यत्ययः । यद्वा कर्मणि षष्ठी ॥ दीप्तं “यज्ञ यज्ञसाधनं हविः “प्र “अर्च पूजय प्रयच्छेत्यर्थः । अथवा दिवोऽन्तरिक्षादागतेभ्य इति संबन्धः ॥ ॥ ८ ॥


आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।

अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥६

आ । रु॒क्मैः । आ । यु॒धा । नरः॑ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।

अनु॑ । ए॒ना॒न् । अह॑ । वि॒ऽद्युतः॑ । म॒रुतः॑ । जझ्झ॑तीःऽइव । भा॒नुः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥६

आ । रुक्मैः । आ । युधा । नरः । ऋष्वाः । ऋष्टीः । असृक्षत ।

अनु । एनान् । अह । विऽद्युतः । मरुतः । जझ्झतीःऽइव । भानुः । अर्त । त्मना । दिवः ॥६

“नरः वृष्टेर्नेतारः “ऋष्वाः महान्तो मरुतः “रुक्मैः रोचमानैराभरणविशेषैः “आ रोचन्त इति शेषः ॥ उपसर्गश्रुतेः संगतक्रियाध्याहारः ॥ तथा “युधा प्रहरणसाधनेनायुधेन “आ रोचन्ते । एते मरुतः “ऋष्टीः आयुधविशेषान् "असृक्षत। प्रक्षिपन्ति मेघभेदार्थम् । “एनान् "मरुतः “विद्युतः अपि “जज्झतीरिव शब्दकारिण्य आप इव । “जज्झतीरापो भवन्ति शब्दकारिण्यः' (निरु. ६. १६ ) इति निरुक्तम् । “अनु "अह अनुगच्छन्त्येव । “दिवः द्योतमानस्य मरुद्गणस्य “भानुः दीप्तिः “त्मना स्वयमेव “अर्त निरगात् ॥


ये वा॑वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ ।

वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥७

ये । व॒वृ॒धन्त॑ । पार्थि॑वाः । ये । उ॒रौ । अ॒न्तरि॑क्षे । आ ।

वृ॒जने॑ । वा॒ । न॒दीना॑म् । स॒धऽस्थे॑ । वा॒ । म॒हः । दि॒वः ॥७

ये । ववृधन्त । पार्थिवाः । ये । उरौ । अन्तरिक्षे । आ ।

वृजने । वा । नदीनाम् । सधऽस्थे । वा । महः । दिवः ॥७

"ये मरुतः “पार्थिवाः पृथिवीसंबद्धाः सन्तः “ववृधन्त वर्धन्ते। "ये च "उरौ महति “अन्तरिक्षे च ववृधन्त । “आ इति चार्थे । “नदीनां नदनवतीनां “वृजने “वा बले ववृधन्त । “महः महतः “दिवः द्युलोकस्य “सधस्थे सहस्थाने च ववृधन्त । उभयत्र वाशब्दार्थे । एवं सर्वत्र वर्धमाना मरुतो वृष्ट्यर्थमृष्टीः असृक्षतेति पूर्वत्र संबन्धः ॥


शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सम् ।

उ॒त स्म॒ ते शु॒भे नर॒ः प्र स्य॒न्द्रा यु॑जत॒ त्मना॑ ॥८

शर्धः॑ । मारु॑तम् । उत् । शं॒स॒ । स॒त्यऽश॑वसम् । ऋभ्व॑सम् ।

उ॒त । स्म॒ । ते । शु॒भे । नरः॑ । प्र । स्य॒न्द्राः । यु॒ज॒त॒ । त्मना॑ ॥८

शर्धः । मारुतम् । उत् । शंस । सत्यऽशवसम् । ऋभ्वसम् ।

उत । स्म । ते । शुभे । नरः । प्र । स्यन्द्राः । युजत । त्मना ॥८

हे स्तोतः “मारुतं “शर्धः बलम् “उत् उत्कृष्टं “शंस स्तुहि । कीदृशं शर्धः। “सत्यशवसं सत्यवेगम् "ऋभ्वसं महदतिप्रवृद्धम् । "उत “स्म अपि च “नरः वृष्टेर्नेतारः “ते मरुतः “शुभे उदकार्थं “प्र “युजत प्रायुञ्जत समयोजयन् “त्मना आत्मनैव जगद्रक्षाबुद्ध्यैव “स्पन्द्राः चलनस्वभावाः पृषतीरित्यर्थः । ।


उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शु॒न्ध्यव॑ः ।

उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिन्द॒न्त्योज॑सा ॥९

उ॒त । स्म॒ । ते । परु॑ष्ण्याम् । ऊर्णाः॑ । व॒स॒त॒ । शु॒न्ध्यवः॑ ।

उ॒त । प॒व्या । रथा॑नाम् । अद्रि॑म् । भि॒न्द॒न्ति॒ । ओज॑सा ॥९

उत । स्म । ते । परुष्ण्याम् । ऊर्णाः । वसत । शुन्ध्यवः ।

उत । पव्या । रथानाम् । अद्रिम् । भिन्दन्ति । ओजसा ॥९

“उत "स्म अपि च “ते मरुतः “परुष्ण्याम् एतन्नामिकायां नद्यां वर्तन्ते । ये "ऊर्णाः दीप्तीः “शुन्ध्यवः शोधिकाः “वसत अच्छादयन्ति ते। “उत अपि च "पथ्या नेम्या “रथानां स्वकीयानां रथचक्रेण "ओजसा बलेन च "अद्रिं "भिन्दन्ति मेघं गिरिं वा विदारयन्ति ।।


आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः ।

ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥१०

आप॑थयः । विऽप॑थयः । अन्तः॑ऽपथाः । अनु॑ऽपथाः ।

ए॒तेभिः॑ । मह्य॑म् । नाम॑ऽभिः । य॒ज्ञम् । वि॒ऽस्ता॒रः । ओ॒ह॒ते॒ ॥१०

आपथयः । विऽपथयः । अन्तःऽपथाः । अनुऽपथाः ।

एतेभिः । मह्यम् । नामऽभिः । यज्ञम् । विऽस्तारः । ओहते ॥१०

“आपथयः । अस्मदभिसुखा मार्गा येषां ते तादृशाः । “विपथयः विष्वग्मार्गाः "अन्तस्पथाः दरीसुचिरादिमार्गाः “अनुपथाः अनुकूलमार्गाश्च ये मरुतः सन्ति ते "एतेभिः एतैश्चतुर्विधैः “नामभिः नामकैः स्वरूपैः "मह्यं मदर्थं “यज्ञं “विस्तारः विस्तृताः सन्तः "ओहते वहन्ति । यद्वा । एतैर्नामभिरुदकैः सार्धं यज्ञमोहते ॥ ॥ ९ ॥


अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते ।

अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥११

अध॑ । नरः॑ । नि । ओ॒ह॒ते॒ । अध॑ । नि॒ऽयुतः॑ । ओ॒ह॒ते॒ ।

अध॑ । पारा॑वताः । इति॑ । चि॒त्रा । रू॒पाणि॑ । दर्श्या॑ ॥११

अध । नरः । नि । ओहते । अध । निऽयुतः । ओहते ।

अध । पारावताः । इति । चित्रा । रूपाणि । दर्श्या ॥११

“अध अथ “नरः अभिमतवृष्ट्यादिनेतारः “न्योहते नितरां वहन्ति जगत् । “अध “नियुतः स्वयमेव मिश्रयितारः सन्तः “ओहते। “अध अथ “पारावताः । परावद्दूरदेशः। तत्संबन्धिनश्चान्तरिक्षादिदूरदेशे ग्रहतारामेघादिधारकाः सन्त ओहत इत्यर्थः । “इति उक्तप्रकारेण तेषां “रूपाणि “चित्रा नानाविधानि चायनीयानि वा “दर्श्या स्वव्यापारैर्दशनीयानि भवन्त्विति शेषः ॥


छ॒न्द॒ःस्तुभ॑ः कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।

ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसन्दृ॒शि त्वि॒षे ॥१२

छ॒न्दः॒ऽस्तुभः॑ । कु॒भ॒न्यवः॑ । उत्स॑म् । आ । की॒रिणः॑ । नृ॒तुः॒ ।

ते । मे॒ । के । चि॒त् । न । ता॒यवः॑ । ऊमाः॑ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥१२

छन्दःऽस्तुभः । कुभन्यवः । उत्सम् । आ । कीरिणः । नृतुः ।

ते । मे । के । चित् । न । तायवः । ऊमाः । आसन् । दृशि । त्विषे ॥१२

“छन्दस्तुभः छन्दोभिः स्तोतारः "कुभन्यवः उदकेच्छवः “कीरिणः स्तोतारः “उत्सं कूपमपेक्ष्य तृषिताय गोतमाय यान्मरुतः “आ "नृतुः सर्वतोऽकुर्वन् अनयन् वा स्तोत्रम् । यद्वा । ये छन्दःस्तुभश्छन्दोभिः स्तुत्याः । स्तोभतिः स्तुतिकर्मा । कुभन्यवः सेक्तारो वृष्ट्युदकस्य । कुभिरुन्दनकर्मा । कीरिणः स्तोतुर्गोतमस्य पानार्थम् उत्सं कूपम् आ नृतुः अनीतवन्तः । 'असिञ्चन्नुत्सं गोतमाय तृष्णजे ' (ऋ. सं. १. ८५. ११ ) इति ह्युक्तम् ॥ 'नॄ नये' इत्यस्य वा नर्ततेर्वा विक्षेपमात्रार्थस्येदं रूपम् ॥ “ते मरुतः "के “चित् "मे मह्यं “तायवः "न कदाचिदप्यन्यदृश्यास्तस्करा इव स्थिताः “ऊमाः रक्षकाः “दृशि दर्शने “आसन् विषयभूता अभवन् । केचित् “त्विषे शरीरदीप्त्यै बलाय वा आसन् । प्राणरूपेणेति भावः ॥


य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वय॒ः सन्ति॑ वे॒धस॑ः ।

तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥१३

यः । ऋ॒ष्वाः । ऋ॒ष्टिऽवि॑द्युतः । क॒वयः॑ । सन्ति॑ । वे॒धसः॑ ।

तम् । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । न॒म॒स्य । र॒मय॑ । गि॒रा ॥१३

यः । ऋष्वाः । ऋष्टिऽविद्युतः । कवयः । सन्ति । वेधसः ।

तम् । ऋषे । मारुतम् । गणम् । नमस्य । रमय । गिरा ॥१३

"ये मरुतः “ऋष्वाः दर्शनीयाः “ऋष्टिविद्युतः आयुधैर्विद्योतमानाः “कवयः मेधाविनः “वेधसः सर्वस्य विधातारः “सन्ति "तं तेषां “मारुतं “गणं “रमया रमणीयया “गिरा स्तुत्या हे “ऋषे श्यावाश्व “नमस्य परिचर स्तुहि ॥


अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ ।

दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥१४

अच्छ॑ । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा॑ ।

दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज॑सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥१४

अच्छ । ऋषे । मारुतम् । गणम् । दाना । मित्रम् । न । योषणा ।

दिवः । वा । धृष्णवः । ओजसा । स्तुताः । धीभिः । इषण्यत ॥१४

हे "ऋषे “मारुतं “गणं मरुत्संघं “मित्रं “न आदित्यमिव “दाना हविर्दानेन “योषणा । यौतेरिदं रूपम् । यौतीति योषा स्तुतिः । तया च “अच्छ अभिगच्छेति शेषः । ऋषेरुत्तरार्धः प्रत्यक्षवादः । “ओजसा बलेन हे “धृष्णवः धर्षका मरुतः “दिवो “वा द्युलोकाद्वा । वाशब्दश्रुतेः इतरलोकद्वयाद्वा । “धीभिः अस्मदीयाभिः स्तुतिभिः “स्तुताः “इषण्यत गच्छत यज्ञम् ॥


नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ ।

दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभि॑ः ॥१५

नु । म॒न्वा॒नः । ए॒षा॒म् । दे॒वान् । अच्छ॑ । न । व॒क्षणा॑ ।

दा॒ना । स॒चे॒त॒ । सू॒रिऽभिः॑ । याम॑ऽश्रुतेभिः । अ॒ञ्जिऽभिः॑ ॥१५

नु । मन्वानः । एषाम् । देवान् । अच्छ । न । वक्षणा ।

दाना । सचेत । सूरिऽभिः । यामऽश्रुतेभिः । अञ्जिऽभिः ॥१५

“नु क्षिप्रम् “एषां मरुताम् । एतान् मरुत इत्यर्थः । “मन्वानः स्तुवन् “देवान् मरुद्व्यतिरिक्तान् “वक्षणा वहनेन निमित्तेन "अच्छ अभिप्राप्तुं “न मनुते । स स्तोता “सूरिभिः मेधाविभिः “यामश्रुतेभिः शीघ्रगमनेन विश्रुतैः “अञ्जिभिः फलस्य व्यञ्जकैर्मरुद्भिः ॥ सर्वाः पञ्चम्यर्थे तृतीयाः ॥ उक्तलक्षणेभ्यो मरुद्यःप् “दाना अभिमतदानानि “सचेत संगच्छते ।।


प्र ये मे॑ बन्ध्वे॒षे गां वोच॑न्त सू॒रय॒ः पृश्निं॑ वोचन्त मा॒तर॑म् ।

अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चन्त॒ शिक्व॑सः ॥१६

प्र । ये । मे॒ । ब॒न्धु॒ऽए॒षे । गाम् । वोच॑न्त । सू॒रयः॑ । पृश्नि॑म् । वो॒च॒न्त॒ । मा॒तर॑म् ।

अध॑ । पि॒तर॑म् । इ॒ष्मिण॑म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व॑सः ॥१६

प्र । ये । मे । बन्धुऽएषे । गाम् । वोचन्त । सूरयः । पृश्निम् । वोचन्त । मातरम् ।

अध । पितरम् । इष्मिणम् । रुद्रम् । वोचन्त । शिक्वसः ॥१६

“ये मरुतः “मे मह्यं “बन्ध्वेषे स्वेषां बन्धूनामन्वेषणे सति "सूरयः प्रेरकाः “गां माध्यमिकां वाचं गोदेवतां वा “प्र “वोचन्त प्रावोचन् । अविशिष्टमृषेर्वाक्यम् । ऋषिः मरुद्वाक्यमनुवदति । तस्मादुत्तरयोः आख्यातयोः यच्छब्दानन्वयान्निघातः ॥ ते “पृश्निं द्युदेवतां पृश्निवर्णां गां वा “मातरं “वोचन्त अब्रुवन् ।' पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११.४) इति श्रुतेः । “अध अथ “पितरं स्वकीयम् “इष्मिणं गमनवन्तमन्नवन्तं वा "रुद्रं “वोचन्त “शिक्वसः शक्तास्ते । मरुतां रुद्रेण पुत्रत्वपरिग्रहो बहुकृत्व उपपादितः ॥


स॒प्त मे॑ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः ।

य॒मुना॑या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं॑ मृजे॒ नि राधो॒ अश्व्यं॑ मृजे ॥१७

स॒प्त । मे॒ । स॒प्त । शा॒किनः॑ । एक॑म्ऽएका । श॒ता । द॒दुः॒ ।

य॒मुना॑याम् । अधि॑ । श्रु॒तम् । उत् । राधः॑ । गव्य॑म् । मृ॒जे॒ । नि । राधः॑ । अश्व्य॑म् । मृ॒जे॒ ॥१७

सप्त । मे । सप्त । शाकिनः । एकम्ऽएका । शता । ददुः ।

यमुनायाम् । अधि । श्रुतम् । उत् । राधः । गव्यम् । मृजे । नि । राधः । अश्व्यम् । मृजे ॥१७

“सप्त सप्तसंख्याकाः संघाः । सप्तगणा वै मरुतः ' (तै. सं. २. २. ११. १ ) इति श्रुतेः । अदितिगर्भे वर्तमानं वायुमिन्द्रः प्रविश्य सप्तधा विदार्य पुनरेकैकं सप्तधा व्यदारयत् ते एकोनपञ्चाशन्मरुद्गणा अभवन्निति पुराणेषु प्रसिद्धम् । ते च सप्तसंख्याकाः "शाकिनः सर्वमपि कर्तुं शक्ताः । ते च “एकमेका एकैको गणः “मे मह्यं “शता शतसंख्याकानि गवाश्वयूथानि “ददुः दत्तवन्तः। प्रयच्छन्त्विति वा आशीः । तैर्दत्तं “यमुनायां नद्याम् “अधि । अयं सप्तम्यर्थानुवादी । तत्र “श्रुतं प्रसिद्धं “गव्यं गोसमूहात्मकं गोसंबन्धि वा “राधः धनम् “उत् "मृजे उन्मार्जयामि । तथा तैर्दत्तम् “अश्व्यम् अश्वसमूहात्मकं तत्संबन्धि वा “राधः धनं “नि “मृजे निमार्ज्मि ॥ ॥ १० ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५२&oldid=199512" इत्यस्माद् प्रतिप्राप्तम्