ऋग्वेदः सूक्तं ५.७२

विकिस्रोतः तः
← सूक्तं ५.७१ ऋग्वेदः - मण्डल ५
सूक्तं ५.७२
बाहुवृक्त आत्रेयः ।
सूक्तं ५.७३ →
दे. मित्रावरुणौ। उष्णिक् ।


आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत् ।
नि बर्हिषि सदतं सोमपीतये ॥१॥
व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना ।
नि बर्हिषि सदतं सोमपीतये ॥२॥
मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये ।
नि बर्हिषि सदतां सोमपीतये ॥३॥


सायणभाष्यम्

‘ आ मित्रे वरुणे ' इति तृचात्मकं षोडशं सूक्तं बाहुवृक्तस्यार्षमौष्णिहं मैत्रावरुणम् । आ मित्र औष्णिहम् ' इत्यनुक्रमणिका । दशरात्रे तृतीयेऽहनि प्रउगशस्त्रेऽयं मैत्रावरुणस्य तृचः । सूत्रितं च -- आ मित्रे वरुणे वयमश्विनावेह गच्छतम् ( आश्व. श्रौ. ७. १० ) इति ॥


आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् ।

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥१

आ । मि॒त्रे । वरु॑णे । व॒यम् । गीः॒ऽभिः । जु॒हु॒मः॒ । अ॒त्रि॒ऽवत् ।

नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥१

आ । मित्रे । वरुणे । वयम् । गीःऽभिः । जुहुमः । अत्रिऽवत् ।

नि । बर्हिषि । सदतम् । सोमऽपीतये ॥१

“वयम् आत्रेयाः “मित्रे "वरुणे मित्रावरुणयोः अर्थाय “गीर्भिः मन्त्रैः “आ “जुहुमः “अत्रिवत् अस्मद्गोत्रप्रवर्तकोऽत्रिरिव । तस्मात् हे मित्रावरुणौ सोमपीतये “बर्हिषि “नि “सदतं निषीदतम् ॥


व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना ।

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥२

व्र॒तेन॑ । स्थः॒ । ध्रु॒वऽक्षे॑मा । धर्म॑णा । या॒त॒यत्ऽज॑ना ।

नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥२

व्रतेन । स्थः । ध्रुवऽक्षेमा । धर्मणा । यातयत्ऽजना ।

नि । बर्हिषि । सदतम् । सोमऽपीतये ॥२

हे मित्रावरुणौ युवां “धर्मणा जगद्धारकेण “व्रतेन कर्मणा योगेन “ध्रुवक्षेमा “स्थः अविचलितस्थानौ भवथः । “यातयज्जना । यातयन्तः कर्मसु प्रवर्तयन्तो जना ऋत्विजो ययोस्तौ यातयज्जनौ । अथवा यातयन्तः शत्रून् हिंसन्तो जना भृत्या ययोस्तौ । शिष्टं गतम् ॥


मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑ ।

नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ॥३

मि॒त्रः । च॒ । नः॒ । वरु॑णः । च॒ । जु॒षेता॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।

नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥३

मित्रः । च । नः । वरुणः । च । जुषेताम् । यज्ञम् । इष्टये ।

नि । बर्हिषि । सदतम् । सोमऽपीतये ॥३

“मित्रश्च वरुणश्च उभौ “नः अस्माकं “यज्ञम् “इष्टये अभीष्टाय “जुषेतां सेवेताम् । आगत्य च “बर्हिषि “नि “सदतां निषीदतां सोमपानाय ।। ॥ १० ॥ ॥ ५ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७२&oldid=199749" इत्यस्माद् प्रतिप्राप्तम्