ऋग्वेदः सूक्तं ५.१३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.१२ ऋग्वेदः - मण्डल ५
सूक्तं ५.१३
सुतंभर आत्रेयः
सूक्तं ५.१४ →
दे. अग्निः। गायत्री।


अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि ।
अग्ने अर्चन्त ऊतये ॥१॥
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
देवस्य द्रविणस्यवः ॥२॥
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।
स यक्षद्दैव्यं जनम् ॥३॥
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
त्वया यज्ञं वि तन्वते ॥४॥
त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
स नो रास्व सुवीर्यम् ॥५॥
अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि ।
आ राधश्चित्रमृञ्जसे ॥६॥


सायणभाष्यम्

‘अर्चन्तस्त्वा' इति षड़ृचं त्रयोदशं सूक्तं सुतंभरस्यार्षं गायत्रमाग्नेयम् । अनुक्रान्तं च -- ‘ अर्चन्तो गायत्रं तु' इति । प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि आश्विनशस्त्रे इदमादिके द्वे सूक्ते । सूत्रितं च - अर्चन्तस्त्वेति सूक्ते' ( आश्व. श्रौ. ४. १३) इति । आहवनीयोपस्थाने “त्वमग्ने सप्रथा असि ' इत्येका । सूत्रितं च - ‘ सं नः सृज सुमत्या वाजवत्या त्वमग्ने सप्रथा असीति च ' ( आश्व. श्रौ. ३. १० ) इति । अश्वमेधे पौष्णेष्टौ ‘ त्वमग्ने सप्रथाः ' इति प्रथमाज्यभागानुवाक्या । ‘त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ ' ( आश्व. श्रौ. १०. ६ ) इति ।।


अर्च॑न्तस्त्वा हवाम॒हेऽर्च॑न्त॒ः समि॑धीमहि ।

अग्ने॒ अर्च॑न्त ऊ॒तये॑ ॥१

अर्च॑न्तः । त्वा॒ । ह॒वा॒म॒हे॒ । अर्च॑न्तः । सम् । इ॒धी॒म॒हि॒ ।

अग्ने॑ । अर्च॑न्तः । ऊ॒तये॑ ॥१

अर्चन्तः । त्वा । हवामहे । अर्चन्तः । सम् । इधीमहि ।

अग्ने । अर्चन्तः । ऊतये ॥१

हे “अग्ने “त्वा त्वाम् “अर्चन्तः पूजयन्तो वयं “हवामहे आह्वयामः । "अर्चन्तः स्तुवन्तो वयम् “ऊतये रक्षणाय तर्पणाय वा त्वां “समिधीमहि समिद्भिः संदीपयामः । अर्चन्त इति तृतीयं पदम् आदरातिशयार्थम् ॥


अ॒ग्नेः स्तोमं॑ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृश॑ः ।

दे॒वस्य॑ द्रविण॒स्यव॑ः ॥२

अ॒ग्नेः । स्तोम॑म् । म॒ना॒म॒हे॒ । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृशः॑ ।

दे॒वस्य॑ । द्र॒वि॒ण॒स्यवः॑ ॥२

अग्नेः । स्तोमम् । मनामहे । सिध्रम् । अद्य । दिविऽस्पृशः ।

देवस्य । द्रविणस्यवः ॥२

“द्रविणस्यवः द्रविणं धनमिच्छन्तो वयं “दिविस्पृशः सूर्यरूपेणाकाशं व्याप्नुवतः “देवस्य द्योतमानस्य “अग्नेः “सिध्रं पुरुषार्थानां साधकं “स्तोमं स्तोत्रम् “अद्य अस्मिन्नहनि “मनामहे ब्रूमः ॥


अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा ।

स य॑क्ष॒द्दैव्यं॒ जन॑म् ॥३

अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ । होता॑ । यः । मानु॑षेषु । आ ।

सः । य॒क्ष॒त् । दैव्य॑म् । जन॑म् ॥३

अग्निः । जुषत । नः । गिरः । होता । यः । मानुषेषु । आ ।

सः । यक्षत् । दैव्यम् । जनम् ॥३

“होता देवानामाह्वाता “यः “अग्निः “मानुषेष्वा वसति “सः अग्निः “नः अस्माकं “गिरः स्तुतीः “जुषत सेवताम् । सोऽग्निः “दैव्यं “जनं देवसंबन्धिनं जनं “यक्षत् यजतु ॥


त्वम॑ग्ने स॒प्रथा॑ असि॒ जुष्टो॒ होता॒ वरे॑ण्यः ।

त्वया॑ य॒ज्ञं वि त॑न्वते ॥४

त्वम् । अ॒ग्ने॒ । स॒ऽप्रथाः॑ । अ॒सि॒ । जुष्टः॑ । होता॑ । वरे॑ण्यः ।

त्वया॑ । य॒ज्ञम् । वि । त॒न्व॒ते॒ ॥४

त्वम् । अग्ने । सऽप्रथाः । असि । जुष्टः । होता । वरेण्यः ।

त्वया । यज्ञम् । वि । तन्वते ॥४

हे “अग्ने “जुष्टः सर्वदा प्रीतः "वरेण्यः सर्वैर्वरणीयः “होता “त्वं “सप्रथाः सर्वतः पृथुः “असि भवसि । तथाह यास्कः - ‘ सप्रथाः सर्वतः पृथुः ' ( निरु. ६. ७ ) इति । किंच सर्वे यजमानाः “त्वया साधनेन “यज्ञं “वि “तन्वते ॥


त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् ।

स नो॑ रास्व सु॒वीर्य॑म् ॥५

त्वाम् । अ॒ग्ने॒ । वा॒ज॒ऽसात॑मम् । विप्राः॑ । व॒र्ध॒न्ति॒ । सुऽस्तु॑तम् ।

सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥५

त्वाम् । अग्ने । वाजऽसातमम् । विप्राः । वर्धन्ति । सुऽस्तुतम् ।

सः । नः । रास्व । सुऽवीर्यम् ॥५

हे “अग्ने “विप्राः मेधाविनः स्तोतारः “वाजसातमम् । वाजोऽन्नम् । तद्ददतं “सुष्टुतं पूर्वैः महर्षिभिः सम्यक् स्तुतं “त्वां “वर्धन्ति । स्तोत्रैर्वर्धयन्ति । “सः त्वं “नः अस्मभ्यं “सुवीर्यं सर्वैः श्लाघनीयं बलं "रास्व देहि ।


अग्ने॑ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि ।

आ राध॑श्चि॒त्रमृ॑ञ्जसे ॥६

अग्ने॑ । ने॒मिः । अ॒रान्ऽइ॑व । दे॒वान् । त्वम् । प॒रि॒ऽभूः । अ॒सि॒ ।

आ । राधः॑ । चि॒त्रम् । ऋ॒ञ्ज॒से॒ ॥६

अग्ने । नेमिः । अरान्ऽइव । देवान् । त्वम् । परिऽभूः । असि ।

आ । राधः । चित्रम् । ऋञ्जसे ॥६

हे “अग्ने “त्वं “देवान् “परिभूरसि । स्वतेजसा परिभवसि । कथमिव । “नेमिः प्रकाशमानः चक्रस्य बाह्यो वलयः “अरानिव नाभावर्पितान् सूक्ष्मान् स्थासकानिव। किंच त्वं “चित्रं नानाविधं “राधः । राध्नुवन्ति साधयन्त्यनेन पुरुषार्थानिति राधो धनम् । “आ “ऋञ्जसे । स्तोतृभ्यः प्रसाधय । धननामसु पाठात् ‘राधो धनम्' इत्युक्तम् ॥ ॥ ५ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१३&oldid=199236" इत्यस्माद् पुनः प्राप्तिः