ऋग्वेदः सूक्तं ५.३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.३२ ऋग्वेदः - मण्डल ५
सूक्तं ५.३३
प्राजापत्यः संवरणः
सूक्तं ५.३४ →
दे. इन्द्रः। त्रिष्टुप्।


महि महे तवसे दीध्ये नॄनिन्द्रायेत्था तवसे अतव्यान् ।
यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत ॥१॥
स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः ।
या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥२॥
न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् ।
तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥३॥
पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन् ।
ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥४॥
वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः ।
आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥५॥
पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः ।
स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥६॥
एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून् ।
उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥७॥
उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः ।
वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे ॥८॥
उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ ।
सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥९॥
उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः ।
मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥१०॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥


यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थे प्रथमाध्यायं व्याख्याय व्याकृतिक्षमः ।

सुधीः श्रीसायणाचार्यों द्वितीयं व्याचिकीर्षति ।

तत्रात्रेः पञ्चमे मण्डले तृतीयेऽनुवाके द्वादश सूक्तानि । तत्र ‘महि महे ' इति दशर्चं प्रथमं सूक्तम् । प्रजापतिपुत्रः संवरणाख्यः ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । तथा चानुक्रान्तं-- ’ महि दश प्राजापत्यः संवरणः' । विनियोगो लैङ्गिकः ॥


महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिंद्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् ।

यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥१

महि॑ । म॒हे । त॒वसे॑ । दी॒ध्ये॒ । नॄन् । इन्द्रा॑य । इ॒त्था । त॒वसे॑ । अत॑व्यान् ।

यः । अ॒स्मै॒ । सु॒ऽम॒तिम् । वाज॑ऽसातौ । स्तु॒तः । जने॑ । स॒ऽम॒र्यः॑ । चि॒केत॑ ॥१

महि । महे । तवसे । दीध्ये । नॄन् । इन्द्राय । इत्था । तवसे । अतव्यान् ।

यः । अस्मै । सुऽमतिम् । वाजऽसातौ । स्तुतः । जने । सऽमर्यः । चिकेत ॥१

अहं संवरणः “अतव्यान् अत्यन्तमिव दुर्बलः सन् “महि महत् प्रभूतं स्तोत्रं “महे महते “तवसे बलवते “इन्द्राय “इत्था इत्थं वक्ष्यमाणप्रकारेण “दीध्ये दीपयामि प्रकाशयामि । किमर्थम् । “नॄन् । षष्ठ्यर्थे द्वितीया । मनुष्याणामस्मदीयानां “तवसे बलाय । यद्वा । नॄनस्मद्विरोधिनामभिभवायेति शेषः । तदर्थं तवसेऽस्मद्बलाय । “यः इन्द्रः “अस्मै “जने जनाय संवरणाय “वाजसातौ संग्रामे वाजस्य अन्नस्य वा लाभे निमित्ते सति “स्तुतः सन् “सुमतिं “समर्यः मर्त्यैः स्तोतृभिः सहितो यद्वा सह म्रियमाणैर्युध्यमानैर्मरुदादिभिरथवा समरार्हः “चिकेत जानाति ॥


स त्वं न॑ इंद्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः ।

या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥२

सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी॑णाम् । वृ॒ष॒न् । योक्त्र॑म् । अ॒श्रेः॒ ।

याः । इ॒त्था । म॒घ॒ऽव॒न् । अनु॑ । जोष॑म् । वक्षः॑ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना॑न् ॥२

सः । त्वम् । नः । इन्द्र । धियसानः । अर्कैः । हरीणाम् । वृषन् । योक्त्रम् । अश्रेः ।

याः । इत्था । मघऽवन् । अनु । जोषम् । वक्षः । अभि । प्र । अर्यः । सक्षि । जनान् ॥२

हे “वृषन् वर्षक “इन्द्र “सः प्रसिद्धः “त्वं “नः अस्मान् “धियसानः ध्यायन् “अर्कैः अर्चनसाधनैः स्तोत्रैर्निमित्तभूतैः “हरीणां रथे नियोज्यानामश्वानां “योक्त्रं नियोजनरज्जुम् “अश्रेः आश्रयसि । “याः ॥ लिङ्गव्यत्ययः ॥ यानर्कान् हे “मघवन् “इत्था इत्थं "जोषं प्रीतिम् “अनु “वक्षः अवहः तैर्निमित्तैर्योक्त्रमश्रेरिति । तथा कृत्वा “अर्यः अस्मदरीन् “जनान् “अभि आभिमुख्येन “प्र प्रकृष्टं “सक्षि पराभव ॥


न ते त॑ इंद्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् ।

तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥३

न । ते । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ष्व॒ । अयु॑क्तासः । अ॒ब्र॒ह्मता॑ । यत् । अस॑न् ।

तिष्ठ॑ । रथ॑म् । अधि॑ । तम् । व॒ज्र॒ऽह॒स्त॒ । आ । र॒श्मिम् । दे॒व॒ । य॒म॒से॒ । सु॒ऽअश्वः॑ ॥३

न । ते । ते । इन्द्र । अभि । अस्मत् । ऋष्व । अयुक्तासः । अब्रह्मता । यत् । असन् ।

तिष्ठ । रथम् । अधि । तम् । वज्रऽहस्त । आ । रश्मिम् । देव । यमसे । सुऽअश्वः ॥३

हे “ऋष्व महन् “इन्द्र “यत् ये “अस्मत् अस्मत्तः त्वद्भक्तेभ्योऽन्ये 'अयुक्तासः त्वया असंयुक्ताः “असन् आसन् अभवन् "अब्रह्मता । ब्रह्म परिवृढं कर्म । तद्रहितत्वात् “ते नराः “ते त्वदीयाः "न भवन्ति । अतः अस्मद्यज्ञम् “अभि आगन्तुं “तं प्रसिद्धं “रथमधि “तिष्ठ । हे "वज्रहस्त इन्द्र “देव “स्वश्वः त्वं यं रथमारोढुं “रश्मिं प्रग्रहम् “आ “यमसे नियमयसि तमधि तिष्ठ ॥


पु॒रू यत्त॑ इंद्र॒ संत्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् ।

त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥४

पु॒रु । यत् । ते॒ । इ॒न्द्र॒ । सन्ति॑ । उ॒क्था । गवे॑ । च॒कर्थ॑ । उ॒र्वरा॑सु । युध्य॑न् ।

त॒त॒क्षे । सूर्या॑य । चि॒त् । ओक॑सि । स्वे । वृषा॑ । स॒मत्ऽसु॑ । दा॒सस्य॑ । नाम॑ । चि॒त् ॥४

पुरु । यत् । ते । इन्द्र । सन्ति । उक्था । गवे । चकर्थ । उर्वरासु । युध्यन् ।

ततक्षे । सूर्याय । चित् । ओकसि । स्वे । वृषा । समत्ऽसु । दासस्य । नाम । चित् ॥४

हे “इन्द्र "ते तव “यत् यदा स्वभूतानि “पुरू पुरूणि बहूनि । “उक्था उक्थानि शस्त्राणि “सन्ति तदा “उर्वरासु सस्योपेतासु भूमिषु निमित्तभूतासु “गवे वृष्ट्युदकाय “युध्यन् जलप्रतिबन्धकान् संहरन् “चकर्थ करोषि भेदनम् । कुत्रेति । “सूर्याय सूर्यस्य "स्वे स्वकीये “ओकसि स्थाने । “वृषा वर्षिता सन् “ततक्षे संपादयसि । “समत्सु संग्रामेषु “दासस्य वृष्टिप्रतिबन्धकर्तुरेतन्नामकस्य असुरस्य “नाम "चित् नामापि ततक्षे नाशयसीत्यर्थः ॥


व॒यं ते त॑ इंद्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑ ।

आस्मांज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥५

व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । नरः॑ । शर्धः॑ । ज॒ज्ञा॒नाः । या॒ताः । च॒ । रथाः॑ ।

आ । अ॒स्मान् । ज॒ग॒म्या॒त् । अ॒हि॒ऽशु॒ष्म॒ । सत्वा॑ । भगः॑ । न । हव्यः॑ । प्र॒ऽभृ॒थेषु॑ । चारुः॑ ॥५

वयम् । ते । ते । इन्द्र । ये । च । नरः । शर्धः । जज्ञानाः । याताः । च । रथाः ।

आ । अस्मान् । जगम्यात् । अहिऽशुष्म । सत्वा । भगः । न । हव्यः । प्रऽभृथेषु । चारुः ॥५

हे "इन्द्र "ये “च “नरः कर्मणां नेतार ऋत्विग्यजमाना "वयं स्मः “ते वयं “ते त्वदीयाः । कीदृशा वयम् । “शर्धः बलं "जज्ञानाः उत्पादयन्तः स्तुतिभिः “याताश्च होतुं त्वां प्राप्ताश्च “रथाः रंहणशीलाश्च । किंच हे 'अहिशुष्म । अहिरयनात् । सर्वतो व्याप्तबलेन्द्र त्वदनुग्रहात् "हव्यः स्तुत्यः प्रतिभटेराह्वातव्यो वा “चारुः संगन्ता “सत्वा भृत्यादिः “प्रभृथेषु संग्रामेषु यज्ञेषु वा “अस्मान् “आ “जगम्यात् आगच्छेत् । “भगो “न भग इव हव्यश्चारुः । भगदेवो यथास्मत्सहाय आगच्छति तथा भृत्यादिरागच्छेदित्यर्थः ॥ ॥ १ ॥


प॒पृ॒क्षेण्य॑मिंद्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः ।

स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दानं॑ ॥६

प॒पृ॒क्षेण्य॑म् । इ॒न्द्र॒ । त्वे इति॑ । हि । ओजः॑ । नृ॒म्णानि॑ । च॒ । नृ॒तमा॑नः । अम॑र्तः ।

सः । नः॒ । एनी॑म् । व॒स॒वा॒नः॒ । र॒यिम् । दाः॒ । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒ऽम॒घस्य॑ । दान॑म् ॥६

पपृक्षेण्यम् । इन्द्र । त्वे इति । हि । ओजः । नृम्णानि । च । नृतमानः । अमर्तः ।

सः । नः । एनीम् । वसवानः । रयिम् । दाः । प्र । अर्यः । स्तुषे । तुविऽमघस्य । दानम् ॥६

हे “इन्द्र “पपृक्षेण्यं संपर्कार्हं पूज्यं वा “ओजः बलं “त्वे “हि त्वयि खलु। त्वदधीनमित्यर्थः । “नृतमानः नृत्यन् "अमर्तः अमरणधर्मा “सः त्वं “वसवानः आच्छादयन् स्वतेजसा जगत् "नृम्णानि नृमणानि द्रविणानि । वक्ष्यमाणरय्यपेक्षया चशब्दः । “एनीम् एतवर्णां श्वेतवर्णां “रयिं धनं "दाः देहि । अहं च “अर्यः ईश्वरस्य "तुविमघस्य प्रभूतधनस्य च "दानं “प्र “स्तुषे स्तौमि ॥


ए॒वा न॑ इंद्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् ।

उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः॑ ॥७

ए॒व । नः॒ । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ । अ॒व॒ । पा॒हि । गृ॒ण॒तः । शू॒र॒ । का॒रून् ।

उ॒त । त्वच॑म् । दद॑तः । वाज॑ऽसातौ । पि॒प्री॒हि । मध्वः॑ । सुऽसु॑तस्य । चारोः॑ ॥७

एव । नः । इन्द्र । ऊतिऽभिः । अव । पाहि । गृणतः । शूर । कारून् ।

उत । त्वचम् । ददतः । वाजऽसातौ । पिप्रीहि । मध्वः । सुऽसुतस्य । चारोः ॥७

हे “शूर “इन्द्र “एव एवं 'नः अस्मान् “गृणतः स्तुवतः "कारून् कर्तॄनृत्विजः “ऊतिभिः रक्षणैः “अव पालय । "उत अपि च “वाजसातौ संग्रामे “त्वचम् आच्छादकं रूपं “ददतः प्रयच्छतः “सुषुतस्य सुष्ठ्वभिषुतस्य “चारोः मनोहरस्य “मध्वः सोमस्य “पिप्रीहि प्रीणयात्मानम् । द्वितीयार्थे षष्ठी । उक्तलक्षणं सोमं पिबेत्यर्थः । अथवा तृतीयार्थे षष्ठी । उक्तलक्षणेन सोमपानेन प्रीणय ॥


उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः ।

वहं॑तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥८

उ॒त । त्ये । मा॒ । पौ॒रु॒ऽकु॒त्स्यस्य॑ । सू॒रेः । त्र॒सद॑स्योः । हि॒र॒णिनः॑ । ररा॑णाः ।

वह॑न्तु । मा॒ । दश॑ । श्येता॑सः । अ॒स्य॒ । गै॒रि॒ऽक्षि॒तस्य॑ । क्रतु॑ऽभिः । नु । स॒श्चे॒ ॥८

उत । त्ये । मा । पौरुऽकुत्स्यस्य । सूरेः । त्रसदस्योः । हिरणिनः । रराणाः ।

वहन्तु । मा । दश । श्येतासः । अस्य । गैरिऽक्षितस्य । क्रतुऽभिः । नु । सश्चे ॥८

त्रसदस्युश्च विदथो ध्वन्यश्चेति त्रयो नृपाः । अश्वान्धनानि गाश्चादुर्ऋषये तद्वदत्यृषिः ॥ “उत अपि च “त्ये ते “मा । चतुर्थ्यर्थे द्वितीया । मह्यमित्यर्थः । “रराणाः ॥ रातेर्दानार्थस्य कर्मणि लिटः कानचि रूपम् ।। दत्ता इत्यर्थः । “पौरुकुत्स्यस्य पुरुकुत्सापत्यस्य “सूरेः प्रेरकस्य “हिरणिनः हिरण्यवतः “अस्य “त्रसदस्योः एतन्नामकस्य राजर्षेः ”गैरिक्षितस्य गिरिक्षितगोत्रोत्पन्नस्य “श्येतासः शुभ्रवर्णाः “दश अश्वाः “मा मां “वहन्तु प्रापयन्तु । अहं च “क्रतुभिः कर्मभी रथनियोजनादिभिर्यज्ञादिभिर्वा “नु क्षिप्रं "सश्चे गच्छेयम् ।।


उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ ।

स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥९

उ॒त । त्ये । मा॒ । मा॒रु॒तऽअ॑श्वस्य । शोणाः॑ । क्रत्वा॑ऽमघासः । वि॒दथ॑स्य । रा॒तौ ।

स॒हस्रा॑ । मे॒ । च्यव॑तानः । ददा॑नः । आ॒नू॒कम् । अ॒र्यः । वपु॑षे । न । आ॒र्च॒त् ॥९

उत । त्ये । मा । मारुतऽअश्वस्य । शोणाः । क्रत्वाऽमघासः । विदथस्य । रातौ ।

सहस्रा । मे । च्यवतानः । ददानः । आनूकम् । अर्यः । वपुषे । न । आर्चत् ॥९

“उत अपि च “त्ये तेऽश्वा वक्ष्यमाणाः “मारुताश्वस्य । मरुत्सदृशवेगाश्ववान्मरुताश्वः । तदपत्यस्य “विदथस्य एतन्नामकस्य राज्ञः “शोणाः शोणवर्णाः “क्रत्वामघासः क्रतुना कर्मणा शीघ्रगमनादिलक्षणेन माहनीया अश्वाः “रातौ दाने विनियुक्ता मां वहन्तीति शेषः । किंच “सहस्रा सहस्राणि अपरिमितानि धनानि अर्यः पूज्यस्य “मे। चतुर्थ्यर्थे षष्ठी । पूज्याय मह्यं “च्यवतानः च्यावयन् “ददानः प्रयच्छन् सः “आनूकम् आभरणं च “वपुषे स्वशरीरालंकाराय “आर्चत् प्रयच्छत् । “न इति चार्थे ।


उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः ।

म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥१०

उ॒त । त्ये । मा॒ । ध्व॒न्य॑स्य । जुष्टाः॑ । ल॒क्ष्म॒ण्य॑स्य । सु॒ऽरुचः॑ । यता॑नाः ।

म॒ह्ना । रा॒यः । स॒म्ऽवर॑णस्य । ऋषेः॑ । व्र॒जम् । न । गावः॑ । प्रऽय॑ताः । अपि॑ । ग्म॒न् ॥१०

उत । त्ये । मा । ध्वन्यस्य । जुष्टाः । लक्ष्मण्यस्य । सुऽरुचः । यतानाः ।

मह्ना । रायः । सम्ऽवरणस्य । ऋषेः । व्रजम् । न । गावः । प्रऽयताः । अपि । ग्मन् ॥१०

“उत अपि च “त्ये ते वक्ष्यमाणाः रायः “ध्वन्यस्य ध्वन्यनामकस्य “लक्ष्मण्यस्य लक्ष्मणपुत्रस्य राज्ञः संबन्धिनोऽश्वाः "जुष्टाः मां प्राप्ताः “सुरुचः शोभनदीप्तयः “यतानाः वहनाय यतमानाः । “रायः “मह्ना महत्त्वेन युक्ता रायः “प्रयताः दत्ताः सत्यः “संवरणस्य “ऋषेः "अपि “ग्मन् अपिगताः प्राप्ताः । मद्गृहमिति शेषः। “व्रजं “न “गावः गोष्ठं गाव इव । यद्वा नेति चार्थे । गावश्च मम व्रजमपिग्मन् । अत्रैन्द्रे सूक्ते ‘प्रायेणैन्द्रे मरुतो राज्ञां च दानस्तुतयः' ( अनु. २. २२ ) इत्युक्तत्वाद्राज्ञां दानस्तुतिरविरुद्धा ॥ ॥ २ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३३&oldid=185438" इत्यस्माद् पुनः प्राप्तिः